Verses

भगवन्नियमनम् Bhagavan Niyamanam

1

श्रीसद्गुरुरुवाच

तदा तत्राययौ शीघ्रं राक्षसेन्द्रो विभीषणः ।

सायन्तनार्चनं कर्तुं स्नात्वा सह्यसुताजले ॥

2

पूजयन्तं रङ्गनाथं दृष्ट्वा चोलमहीपतिम् ।

क्षणं स्थित्वा पुनः प्राह विनीतो विहिताञ्जलिः ॥

3

विभीषण उवाच

शरण्यः सर्वलोकानां समं सर्वेषु वर्तते ।

समर्चनीयः सर्वैश्च रङ्गनाथो न संशयः ॥

4

तथापि रामचन्द्रेण मह्यं दत्तं महद्धनम् ।

ममैव दैवतं नूनं न त्वमर्चितुमर्हसि ॥

5

आदाय लङ्कां गत्वाहं प्रतिष्ठाप्य च यथाविधि ।

तत्र पूजां करिष्यामि रङ्गनाथस्य पार्थिव ॥

6

धर्मवर्मोवाच

अयोध्यां पूर्वमेवाहं गत्वा दशरथं नृपम् ।

दातुं मे रङ्गनाथं तं याचे भक्तिपूर्वकम् ॥

7

न ददौ रङ्गनाथं तं राजा स्वकुलदैवतम् ।

ततः परमिहागत्य तपश्चक्रे निशाचर ॥

8

तपः फलमिदं विद्धि ममैव रजनीचर ।

रङ्गनाथस्यागमनमद्यास्मिन् सह्यजातटे ॥

9

केवलं वाहनं त्वं तु भगवान् गरुडो यथा ।

मह्यमेवानुग्रहार्थमागतो रङ्गनायकः ॥

10

श्रीसद्गुरुरुवाच

इत्युक्तो राक्षसेन्द्रोऽपि सहितो धर्मवर्मणा ।

सन्निधानं हरेर्गत्वा पप्रच्छ प्रभुमेव सः ॥

11

विभीषण उवाच

राघवेणैव मे दत्तोऽसि त्वं श्रीरङ्गनायक ।

प्रार्थितोऽसि ततः पूर्वं राज्ञा त्वं धर्मवर्मणा ॥

12

स्वामी कस्यासि भगवन् केनाराधनमिच्छसि ।

स्वमुखेनैव नौ क्षिप्रं वद त्वं भक्तवत्सल ॥

13

श्रीभगवानुवाच

सर्वेषामहमेवास्मि जनानां भुवनत्रये ।

केनापि रचितां पूजामिच्छामि श्रद्धया कृताम् ॥

14

भक्तोऽयं धर्मवर्मापि प्रपन्नोऽसि विभीषण ।

युवां मम दयापात्रं न त्यजामि युवामहम् ॥

15

मनुष्यो धर्मवर्माऽयं न शक्नोति पुरीं तव ।

आगन्तुं मां प्रतिदिनं तत्र पूजयितुं नृपः ॥

16

आकाशमार्गसञ्चारी राक्षसोऽसि विभीषण ।

त्वमेव मां प्रतिदिनमत्रागत्य हि पूजय ॥

17

निशायां त्वं प्रतिदिनमागत्यात्र निशाचर ।

आराधय श्रद्धयैवं प्रसन्नोऽस्मि सदा त्वयि ॥

18

धर्मवर्मणि राजेन्द्रे कृपां कुरु कृपानिधे ।

सङ्कल्पं मम विज्ञाय लङ्कां स्वां नगरीं व्रज ॥

19

श्रीसद्गुरुरुवाच

इत्युक्तो रङ्गनाथेन विष्णुभक्तो विभीषणः ।

प्रणम्य शिरसा विष्णुं प्रययौ स्वां पुरीं पुनः ॥

20

राजानं धर्मवर्माणमनुज्ञाप्य प्रियेण वै ।

प्रदाय रङ्गनाथं च प्रतस्थे स्वां पुरीं पुनः ॥

21

पूजयामास राजापि विभीषणमुपस्थितम् ।

सात्विकं परमं शान्तं महाभागवतोत्तमम् ॥

22

राक्षसेन्द्रनरेन्द्रौ तौ कृतस्नेहौ परस्परम् ।

पूजयामासतुः प्रेम्णा रङ्गनाथं दिने दिने ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे भगवन्नियमनम् नाम अध्यायः ॥
Ch.25 Caturtha Bhāge Ch.27