Verses

श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम् Śrī Raṅganātha Aṣṭottara Śata Nāmastotram

1

धर्मवर्मोवाच

रङ्गनाथं रमानाथं धरानाथं दयानिधिम् ।

शङ्खचक्रधरं देवं श्रीवत्साङ्कं नमाम्यहम् ॥

2

प्रणवं प्रणवार्थञ्च प्रणवाकारमन्दिरम् ।

प्रणाममात्रसन्तुष्टं प्राणनाथं नमाम्यहम् ॥

3

प्रणतार्तिहरं प्रेष्ठं प्रभूणां प्रभुमीश्वरम् ।

प्रसन्नवदनाम्भोजं प्रेमरूपं नमाम्यहम् ॥

4

अनन्तशयनं विष्णुमच्युतं चाद्यमव्ययम् ।

अप्राकृतं चाप्रमेयमात्मभूतं नमाम्यहम् ॥

5

परं ब्रह्म परं ज्योतिः पराकाशं परात्परम् ।

परायणं परंतत्त्वं परात्मानं नमाम्यहम् ॥

6

सत्यं सत्यस्वरूपञ्च सत्यसन्धं सनातनम् ।

सत्यव्रतं सत्यसत्यं ऋतं सत्यं नमाम्यहम् ॥

7

क्षराक्षरस्वरूपञ्च क्षराक्षरनियामकम् ।

अक्षरं पुरुषं पूर्व्यं पुरुहूतं नमाम्यहम् ॥

8

रक्षकं सर्वशिष्टानां दुष्टानामपि शिक्षकम् ।

अक्षीणफलदातारं लक्ष्मीकान्तं नमाम्यहम् ॥

9

वरदं वासुदेवञ्च वल्लवीजनवल्लभम् ।

वन्दारुजनमन्दारं सुन्दराङ्गं नमाम्यहम् ॥

10

केशवं माधवं कृष्णं श्रीधरञ्च गदाधरम् ।

नारायणं नरसखं नलिनाक्षं नमाम्यहम् ॥

11

गोविन्दं गोकुलानन्दं गोवर्धनधरं हरिम् ।

गोपालं गुणशीलञ्च गोपीनाथं नमाम्यहम् ॥

12

मङ्गलं मङ्गलानाञ्च मधुरं मधुसूदनम् ।

मुकुन्दं मोहनाकारं मूर्तिमन्तं नमाम्यहम् ॥

13

हृषीकेशं पद्मनाभं दामोदरमधोक्षजम् ।

हयग्रीवं नारसिंहं वराहञ्च नमाम्यहम् ॥

14

रामञ्च रम्यचारित्रं राघवं लोकनायकम् ।

शरण्यं सर्वलोकानां शार्ङ्गपाणिं नमाम्यहम् ॥

15

नीलोत्पलदलश्यामं निरवद्यं निरञ्जनम् ।

निरामयं निर्मलञ्च निराकारं नमाम्यहम् ॥

16

प्रपन्नजनबन्धुञ्च भक्ताभीष्टफलप्रदम् ।

भगवन्तं भव्यरूपं पद्मपादं नमाम्यहम् ॥

17

कावेरीमध्यनिलयं कमनीयवपुर्धरम् ।

कारुण्यसागरं कान्तं कामरूपं नमाम्यहम् ॥

18

त्रिविक्रमं वामनञ्च तापत्रयविनाशकम् ।

त्रिमूर्तिं शतमूर्तिं चानन्तमूर्तिं नमाम्यहम् ॥

19

अष्टोत्तरशतं नाम्नां रङ्गनाथस्य यः पठेत् ।

सर्वमङ्गलमाप्नोति कीर्तितं धर्मवर्मणा ॥

20

अष्टोत्तरशतैः पद्यैरादरेण महीपतिः ।

पूजयामास रङ्गेशं पुण्यश्रवणकीर्तनम् ॥

21

भगवानपि रङ्गेशः सुप्रसन्नोऽभवत्तदा ।

पुण्डरीकविशालाक्षः पूजितो धर्मवर्मणा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम् नाम अध्यायः ॥
Ch.24 Caturtha Bhāge Ch.26