Verses

सह्यामलकक्षेत्रमाहात्म्यम् Sahyāmalaka Kṣetra Māhātmyam

1

भागवता ऊचुः

अस्माकं श्रोतुकामानां सद्गुरो करुणानिधे ।

पुण्यं पवित्रं कावेरीमाहात्म्यं वद मङ्गलम् ॥

2

श्रीसद्गुरुरुवाच

अस्मिन् दक्षिणदेशेऽपि भागीरथसमां नदीम् ।

भावयिष्याम्यहमिति मनसा कृतनिश्चयः ॥

3

सह्याचले तपश्चक्रे भगवान् कुंभसंभवः ।

तपोबलेन यः पूर्वं समुद्रं च पपौ महान् ॥

4

कदाचिद्व्योममार्गेण ययौ कमलसंभवः ।

हंसारूढो वेदगर्भः परमेष्ठी चतुर्मुखः ॥

5

हरिद्वारं गतस्तत्र स्नात्वा गङ्गाजले विधिः ।

गङ्गाजलं पवित्रं तद्गृहीत्वा च कमण्डलौ ॥

6

यदृच्छया सह्यशैलं नानावृक्षसमाकुलम् ।

नानाप्रस्रवणोपेतं सिद्धगन्धर्वसेवितम् ॥

7

मुनीनामाश्रमैर्युक्तं देवानां मन्दिरैस्तथा ।

नानापक्षिगणोद्घुष्टं नानागगणान्वितम् ॥

8

ददर्श भगवान् ब्रह्मा चन्दनानिलसेवितम् ।

नानापुष्पफलाकीर्णं नयनानन्दवर्धनम् ॥

9

तन्मध्ये भगवद्रूपं धात्रीवृक्षं ददर्श सः ।

दर्शनादेव मर्त्यानां सर्वपापविनाशनम् ॥

10

धात्रीवृक्षसमीपे च तुलसीं नवमञ्जरीम् ।

महालक्ष्मीस्वरूपां तां ददर्श सुरपुङ्गवः ॥

11

श्रद्धया पूजयामास तमामलकरूपिणम् ।

गङ्गाजलेन पुण्येन सिञ्चंस्तन्मूलमादरात् ॥

12

पुष्पैः फलैश्च गन्धैश्च हरिद्राकुङ्कुमैस्तथा ।

श्रद्धया पूजयामास भगवांश्चतुराननः ॥

13

सुप्रसन्नो जगन्नाथः शङ्खचक्रगदाधरः ।

धात्रीवृक्षादाविरासीद्भक्तानुग्रहतत्परः ॥

14

तं दृष्ट्वा सर्वलोकेशं तुष्टाव कमलासनः ।

पुलकाङ्कितसर्वाङ्गी बाष्पस्निग्धविलोचनः ॥

15

ब्रह्मोवाच

नमो नमस्तेऽखिललोकनाथ ।

श्रीनाथ नारायण वासुदेव

यदृच्छया प्राप्तमिदं परात्मन् ।

दयारसाब्धे तव दर्शनं मे ॥

16

संसारसिन्धौ निजकर्मबद्धाः

मज्जन्ति सर्वे हि पुनः पुनश्च ।

पापानि कुर्वन्त्यजितेन्द्रियास्ते

बहूनि दुःखानि भवन्ति तस्मात् ॥

17

पापापनोदाय भवेद्धि नूनं

पादोदकं ते भगवन् परात्मन् ।

अलं तथापि त्वयि भक्तिहीनाः

कुर्वन्त्यवज्ञां तव पादतीर्थे ॥

18

त्रिविक्रमस्यैव पुरा तवेयं

पादारविन्दाद्गलिता स्वयं हि ।

भागीरथी सर्वजनान् पुनाति

शिवोऽपि भक्त्या शिरसा दधाति ॥

19

त्वन्नामसङ्कीर्तनतत्परास्तु

सन्तः स्वयं तीर्थतमाः मुकुन्द ।

सन्दर्शनादेव हरन्ति पापं

तापं च संसारभवं ध्रुवं ते ॥

20

तीर्थानि तीर्थानि भवन्ति तेषां

समागमेनैव सतां मुकुन्द ।

तस्मात् सतां सङ्गममेव देहि

सरोजपत्रायतचारुनेत्र ॥

21

श्रीसद्गुरुरुवाच

तदा तत्रैव भगवानाययौ कुंभसंभवः ।

ददर्श पद्मनाभं च तथा पद्मभुवं मुनिः ॥

22

प्रणम्य विधिवद्विष्णुं ब्रह्माणं कुंभसंभवः ।

प्रार्थयामास सानन्दं लोकानां हितकाम्यया ॥

23

अगस्त्य उवाच

तपसा नूनमाविर्भूतः स्वयं हरिः ।

धात्रीवृक्षस्वरूपेण पुण्येऽस्मिन् सह्यपर्वते ॥

24

ब्रह्मंस्तवैव माहात्म्यान्नूनं साक्षात्कृतो हरिः ।

शङ्खचक्रधरः श्रीमान् श्रद्धयाऽभ्यर्चितस्तथा ॥

25

ममेयं प्रार्थना देव गङ्गयैव समां नदीम् ।

अस्मिन् दक्षिणदेशेऽपि भावयेति प्रभो ॥

26

श्रीभगवानुवाच

महर्षे स्वागतं तुभ्यं तवैव तपसा ध्रुवम् ।

आविर्भूतो महावृक्षोऽप्ययमामलकः शुभः ॥

27

अस्मिन् करोमि सान्निध्यं यावच्चन्द्रदिवाकरम् ।

अनुग्रहाय लोकानां पापानां नाशनाय च ॥

28

ब्रह्मा मां पूजयामास गङ्गायाः सलिलेन हि ।

मन्मूलाद्गलितं तीर्थं भर त्वं च कमण्डलौ ॥

29

तस्मात्तीर्थाच्छीघ्रमेव प्रवहिष्यति तापस ।

महानदी महापुण्या सर्वपापविनाशिनी ॥

30

श्रीसद्गुरुरुवाच

इत्युक्तः पद्मनाभेन भगवान् कुंभसंभवः ।

कमण्डलौ जलं पुण्यमादाय स्वाश्रमं ययौ ॥

31

ब्रह्माऽपि पद्मनाभं तं प्रणम्य विधिपूर्वकम् ।

अनुज्ञातः प्रसन्नात्मा पारमेष्ठ्यं पदं ययौ ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे सह्यामलकक्षेत्रमाहात्म्यम् नाम अष्टादशोऽध्यायः ॥
Ch.17 Caturtha Bhāge Ch.19