Verses

चन्द्रपुष्करिणीमाहात्म्यम् Candrapuṣkariṇī Māhātmyam

1

भागवता ऊचुः

चन्द्रपुष्करिणीतीर्थमाहात्म्यं वद सद्गुरो ।

तथा कवेरकन्यायाश्चरितं धर्मवर्मणः ॥

2

श्रीरङ्गनाथ भगवान् किं चकार ततः परम् ।

नूनं भक्तपराधीनः स्वच्छन्दगतिरीश्वरः ॥

3

श्रीसद्गुरुरुवाच

दक्षप्रजापतेः पूर्वमष्टाविंशति कन्यकाः ।

आसन् यासां प्रभा व्योम्नि रत्नमालेव राजते ॥

4

कृत्तिका रोहिणी चैवं मृगशीर्षाऽभिजित्तथा ।

आर्द्रापुनर्वसुश्चैव पुष्याऽऽश्लेषा मघा तथा ॥

5

फल्गुनी द्वेऽथ हस्ता च चित्रा स्वाति तथैव च ।

विशाखाऽप्यनुराधा च ज्येष्ठा मूला तथैव च ॥

6

आषाढे द्वे च श्रवणा च श्रविष्ठा शतभिषक् तथा ।

तथा प्रोष्ठपदे द्वे च रेवतीश्चेति कन्यकाः ।

अश्विनी भरणी चेति सर्वा नक्षत्रदेवताः ॥

7

ददौ चन्द्राय सानन्दं दक्षो धर्मविदां वरः ।

सुधाकराय सोमाय श्रीदेव्याः सोदराय च ॥

8

ताः सर्वाः प्रेमपूर्वं हि सेवां चक्रुः परस्परम् ।

सुधाकरस्य सौन्दर्ये विमुग्धाश्च दिने दिने ॥

9

समं न वर्तते चन्द्रस्तासु भार्यासु सुन्दरः ।

रोहिण्यामेव संलग्नमानसः काममोहितः ॥

10

तदाऽन्यास्ता दक्षसुता वैमनस्यं गता भृशम् ।

एकदा जगदुः पित्रे दक्षायैव स्वशङ्काम् ॥

11

तदा दक्षोऽपि कुपितः शेपे चन्द्रं सुगर्वितम् ।

क्षयरोगी भव त्वमिति जामातरं विधुम् ॥

12

क्षीणोऽभवत्सुधांशुश्च रोगेणैव दिने दिने ।

नितरां दुःखितस्तस्माद्भृगवे तन्न्यवेदयत् ॥

13

पुण्यं पापहरं शुद्धं भूलोके तीर्थमुत्तमम् ।

विधाय विष्णुमर्चेति भगवान् भृगुरब्रवीत् ॥

14

ततश्चन्द्रो भुवं गत्वा तीर्थं चक्रे सुनिर्मलम् ।

सर्वपापहरं पुण्यमारोग्यकरमद्भुतम् ॥

15

प्राच्यां दिशि तथा तस्य जम्बूवृक्षं फलप्रदम् ।

जम्बुकेश्वरमीशानं प्रतिष्ठाप्य यथाविधि ॥

16

दक्षिणस्यां दिशि तथा पुन्नागं पुष्पभूषितम् ।

तस्याऽधस्ताद्वासुदेवं व्यासं च मुनिमुत्तमम् ॥

17

प्रतीच्यां दिशि बिल्वं च लक्ष्मीं सर्वशुभप्रदाम् ।

उत्तरायां दिशि तथा कदम्बं पुरुषोत्तमम् ॥

18

प्रतिष्ठाप्य श्रद्धयैवं पूजयामास वै शशी ।

क्षयरोगाद्विमुक्तोऽभूज्जगदानन्दकारकः ॥

19

ववृधे शुक्लपक्षे तु भूयः पूर्णकलाधरः ।

दक्षवाक्यम् ऋतं कर्तुं कृष्णपक्षे दिने दिने ।

क्षीणोऽपि ववृधे भूयो वासुदेवप्रसादतः ॥

20

सौमनस्यं स्वदाराणामवाप्य भगवान् विधुः ।

समदर्शी बभूवाथ दक्षप्रीतिकरोऽभवत् ॥

21

श्रद्धया कुर्वतां स्नानमस्मिंश्चन्द्रसरोवरे ।

क्षयरोगादयो रोगा विनश्यन्ति न संशयः ॥

22

सर्वेषामपि पापानां नाशनं सुखवर्धनम् ।

विष्णुसान्निध्यसंयुक्तं तीर्थं चन्द्रसरोवरम् ॥

23

चन्द्रपुष्करिणीतीरे श्राद्धं कुर्वन्ति ये नराः ।

तुष्यन्ति पितरस्तेषां कुलवर्धनकारकाः ॥

24

चन्द्रपुष्करिणीतीरे ब्राह्मणेभ्यो यथाविधि ।

अन्नं गावो धनं वस्त्रं यद्दत्तं तत्तदक्षयम् ॥

25

चन्द्रपुष्करिणीतीरे ये कुर्वन्ति जपं तपः ।

सुप्रसन्नो भवेन्नूनं भगवान् पुरुषोत्तमः ॥

26

गङ्गादयो महानद्यश्चन्द्रपुष्करिणीजले ।

वसन्ति लोकक्षेमार्थं पापानि च हरन्ति ताः ॥

27

चन्द्रपुष्करिणीतीर्थतीरस्थं जम्बुकेश्वरम् ।

पूजयन् श्रद्धया भक्त्या सर्वमङ्गलमाप्नुयात् ॥

28

बिल्ववृक्षस्थां लक्ष्मीं दृष्ट्वा भक्त्या दिने दिने ।

ऋणान्मुक्तो भवेन्नूनं प्राप्नुयाच्च महद्धनम् ॥

29

पुन्नागवृक्षमूलेऽपि वासुदेवं सनातनम् ।

विलोक्य सर्वपापेभ्यो विमुक्तो भवति ध्रुवम् ॥

30

कदम्बवृक्षमूलस्थं पुरुषोत्तममव्ययम् ।

पूजयन् श्रद्धया नित्यं परमं पदमाप्नुयात् ॥

31

चन्द्रपुष्करिणीतीर्थमाहात्म्यं ये पठन्ति च ।

तेषामपि महत्पापं विनश्यति न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे चन्द्रपुष्करिणीमाहात्म्यम् नाम सप्तदशोऽध्यायः ॥
Ch.16 Caturtha Bhāge Ch.18