Verses

श्रीरामचरित्रम् Śrī Rāma Caritram

1

श्रीसद्गुरुरुवाच

राजा तथा दशरथो भुवनत्रयेऽपि ।

ख्यातो न पुत्रसुखमाप ततस्तु खिन्नः ।

आराध्य रङ्गपतिमच्युतमध्वरेण ।

लेभे तमेव तनयं खलु रामचन्द्रम् ॥

2

साकेतनाम्नि नगरे ववृधे च रामः

स्वभ्रातृभिः सह समस्तसुराभिवन्द्यः ।

संप्रार्थितो मुनिवरेण मखावनाय

बाल्येऽपि राक्षसगणान् समरे जघान ॥

3

आरोप्य चापमपि पाशुपतं महात्मा

जग्राह पाणिलतिकां जनकात्मजायाः ।

आरूढगर्वमपि भार्गवमादिदेवो

दर्पाद्रितुङ्गशिखरादवरोप्य नत्वा ॥

4

साकं स्वबान्धवजनैर्नगरीमयोध्याम्

आगत्य सादरमुवास सतां शरण्यः ।

संपूजयन् प्रतिदिनं निजधर्मपत्न्या

नारायणं भुजगशायिनमिष्टदेवम् ॥

5

त्यक्त्वा पितुर्वचनपालनदीक्षितोऽयं

राज्यं विदेहसुतया सह लक्ष्मणेन ।

गत्वा वनं बत चचार जटाधरोऽयम्

अत्र्यादिमुनिवरसेवनजातहर्षः ॥

6

अभ्यागताय भरताय च पादरक्षां

दत्वा प्रसन्नहृदयः सह लक्ष्मणेन ।

संप्रस्थितो विपिनवर्त्मनि चित्रकूटाद्

घोरं च दण्डकवनं प्रविवेश वीरः ॥

7

कामेन शूर्पणखया विपिने वृतोऽपि

सीतापहारकुटिलामथ भञ्जयित्वा ।

हत्वा चतुर्दशसहस्रनिशाचरांश्च

कोदण्डपाणिरभयं प्रददौ मुनिभ्यः ॥

8

लङ्केश्वरेण वृकवद्वत वञ्चयित्वा

वैदेहराजदुहितर्यपयापितायाम् ।

हा हा प्रिये जनकनन्दिनि सुन्दरि क्व

क्रन्दंश्चचार विपिनेषु च तां विचिन्वन् ॥

9

दत्वा पतत्रिपतये परमं पदञ्च

पंपासरस्तटमुपेत्य वियोगखिन्नः ।

सुग्रीवसख्यपरिसान्त्वितचित्त एव

हत्वाथ वालिनमपि प्रददौ च राज्यम् ॥

10

दूतेन वायुतनयेन पतिव्रतां तां

विज्ञाय वानरबलेन सहैव लङ्काम् ।

संप्राप्य तत्र समरे स्वरिपुं निहत्य

तत्सोदराय च ददौ निखिलं च राज्यम् ॥

11

सीतामवाप्य मुदितः सह पुष्पकेण

संप्रस्थितः कपिगणैर्नगरीमयोध्याम् ।

संप्राप्य तत्र सहसा मुकुटाभिषिक्तो

राजा रराज दिवि राजवदद्य रामः ॥

12

लोकापवादचकितो दयितां च रामः

स तत्याज वारुणिमुनेरुटजे महात्मा ।

तत्रैव सापि सुषुवे यमलौ कुमारौ

चक्रे मुनिश्च सुतयोरथ जातकर्म ॥

13

सीता तदा कुशलवौ रघुवीरगाधा-

सङ्कीर्तने च कुशलौ विनिधाय भर्तुः ।

अग्रे प्रहृष्टहृदया विवरं विवेश

सिंहासने सुरगणैरभिपूज्यमाना ॥

14

संवत्सरं दशसहस्रकमादिदेवो

राज्ये वसन् जगदपालयदादरेण ।

अन्ते चकार हयमेधमखं महात्मा

चानीय मारुतिकपीन्द्रविभीषणादीन् ॥

15

यज्ञोत्सवेऽप्यवभृथस्नपने समाप्ते

यातेषु बन्धुषु तथा रजनीचरेन्द्रः ।

श्रीरामभद्रविरहेण शुशोच तस्मै

दत्वा च रङ्गपतिमाह रघूत्तमोऽपि ॥

16

आराधय त्वमजमव्ययमादिदेवम्

आत्मानमेव हि ददामि हिताय तुभ्यम् ।

भक्तोऽसि मे ननु विभीषण मा विषीद

लब्ध्वा च मे कुलधनं स्वपुरीं प्रयाहि ॥

17

एवं प्रसन्नवदनेन रघूत्तमेन

दत्तं च मङ्गलदं रङ्गविमानमेषः ।

आदाय चाम्बरगतिः प्रययौ च लङ्कां

कैलासपर्वतधरस्य सहोदरो हि ॥

18

भूमौ च चम्पककदम्बकनालिकेर-

पुन्नागनागकदलीवकुलासनाद्यैः ।

सङ्कीर्णमद्भुततमञ्च कवेरकन्या-

तीरं ददर्श स तु तत् चन्द्रसरोवरं च ॥

19

श्रीरङ्गमत्र सुनिधाय पवित्रदेशे

स्नानं यथाविधि विधाय विभीषणोऽपि ।

अभ्ययात् भगवदर्चनकाङ्क्षयैव

राजापि तत्र ददृशे पथि धर्मवर्मा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरामचरित्रम् नाम षोडशोऽध्यायः ॥
Ch.15 Caturtha Bhāge Ch.17