Verses

अयोध्याप्रस्थानम् Ayodhyā Prasthānam

1

श्रीसद्गुरुरुवाच

अथ रङ्गविमानस्थमात्मानं भगवान् हरिः ।

अददाद्धिरण्यगर्भाय विमानेन सह प्रभुः ॥

2

कोटिसूर्यप्रकाशं तद्विमानं परमं शुभम् ।

उड्डीय सहसा व्योनि ब्रह्मलोकमुपागमत् ॥

3

दृष्ट्वा रङ्गविमानं तद्ब्रह्मलोकनिवासिनः ।

मरीचिप्रमुखा दिव्यमाश्चर्यं परमं ययुः ॥

4

ब्रह्मा तं पूजयामास रङ्गनाथं दिने दिने ।

मन्वन्तराणि षड् भक्त्या मरीचिप्रमुखैः सह ॥

5

मन्वन्तरे सप्तमेऽस्मिन् वैवस्वतमनुर्महान् ।

श्राद्धदेव इति ख्यातो जगत्पालयति प्रभुः ॥

6

अयोध्या नाम नगरी निर्मिता सरयूतटे ।

पालयामास भुवनं तत्रैव निवसन् प्रभुः ॥

7

स कदाचिद्ब्रह्मलोकमाजगाम यदृच्छया ।

ददर्श तत्र तद्दिव्यं विमानं भास्वरं महत् ॥

8

तथा रङ्गविमाने तु शेषपर्यङ्कशायिनम् ।

विशालवक्षसं देवं कमलायतलोचनम् ॥

9

आजानुबाहुं पुरुषं कौस्तुभामुक्तकन्धरम् ।

किरीटकुण्डलधरं कनकाम्बरवेष्टितम् ॥

10

योगनिद्रागतं चापि सर्वज्ञं सर्वरक्षकम् ।

भगवन्तं पद्मनाभं माधवं भक्तवत्सलम् ॥

11

विलोक्य बाष्पसुस्निग्धलोचनः पुलकाङ्कितः ।

तुष्टाव सर्वलोकेशं शरणागतवत्सलम् ॥

12

मनुरुवाच

त्वमेव सृष्ट्वा भुवनं तदेवानुप्रविश्य च ।

विहृत्य विरतो भूयः संहृत्य स्वपिषि प्रभो ॥

13

आदावन्ते च मध्ये च त्वमेव परमार्थतः ।

प्रकाशसे स्वयं विष्णो सर्वमेतत् प्रकाशयन् ॥

14

विराजसे त्वं पुरतो मुकुन्द

पर्यङ्कभूते भुजगाधिराजे ।

अन्तर्बहिश्चाच्युत लोकनाथ

त्वामेव पश्यामि सरोरुहाक्ष ॥

15

ब्रह्माण्डमेतज्जठरे तवैव

निधाय शेषे कृतयोगनिद्रः ।

पुनश्च सर्वं बहिरेव लोकं

यथोर्णनाभिर्विसृजस्यनन्त ॥

16

तस्मात्त्वमेवासि पिता जनानां

विना त्वया किञ्चन नास्ति देव ।

एतादृशं देवमनन्तमाद्यं

भजामि नित्यं भुजगे शयानम् ॥

17

पितेव पुत्रस्य ममापि विष्णो

हितं करोषि स्वयमेव देव ।

विज्ञापनं व्यर्थमिदं मुरारे

पश्यामि सर्वत्र दयां तवैव ॥

18

तथापि किञ्चिद् दीनबन्धो

अभ्यर्थनीयं शृणु लोकबन्धो ।

इच्छाम्यहं जन्मनि जन्मनीश

तवैव पादाम्बुजभक्तिमेव ॥

19

नमो देवाधिदेवाय विष्णवे परमात्मने ।

अन्तर्बहिश्च लोकेऽस्मिन् व्याप्तायोरगशायिने ॥

20

नमो नमो रङ्गनाथ रमानाथ नमोऽस्तु ते ।

कैङ्कर्यमेव मे देहि तव जन्मनि जन्मनि ॥

21

श्रीसद्गुरुरुवाच

वैवस्वतेन मनुना प्रार्थितो भगवान् हरिः ।

बभाषे पुण्डरीकाक्षो भक्तानुग्रहतत्परः ॥

22

श्रीभगवानुवाच

यच्चकर्थाङ्ग मत्स्तोत्रं सत्यमेव महीपते ।

मां विद्धि सर्वजगतां मूलमेकं सनातनम् ॥

23

मम दर्शनमात्रेण तव ज्ञानं प्रकाशितम् ।

वैराग्यं लोकविषये भक्तिश्च मयि भूपते ॥

24

मां च रङ्गविमानस्थमादाय पृथिवीपते ।

भुवं गच्छ तथा तत्र पूजय त्वं दिने दिने ॥

25

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना राजा वैवस्वतमनुस्तदा ।

अनुज्ञातो ब्रह्मणापि सर्वलोकहिताय च ॥

26

विष्णुं रङ्गविमानस्थमानीय प्रीतमानसः ।

अयोध्यां पुनरागत्य स्थापयामास माधवम् ॥

27

दिने दिने भक्तिपूर्वं पूजयामास वैष्णवैः ।

उत्सवं कारयामास जगदानन्दकारकम् ॥

28

सर्वे जना जगन्नाथं श्रीनाथं शेषशायिनम् ।

विलोक्य परमं हर्षमवापुश्च दिने दिने ॥

29

काले वृष्टिश्च सञ्जाता पृथिवी सस्यशालिनी ।

अन्नं बहुगुणं चाभूत् स्फीतो जनपदोऽभवत् ॥

30

सर्वे प्रमोदसंयुक्ताः स्वस्वधर्मपरायणाः ।

आस्तिका भगवद्भक्तास्तत्रासन् कोशला जनाः ॥

31

यज्ञं चक्रे मनुश्चापि विष्णोराराधनात्मकम् ।

गुरुणा ब्रह्मपुत्रेण वसिष्ठेन प्रचोदितः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे अयोध्याप्रस्थानम् नाम अध्यायः ॥
Ch.12 Caturtha Bhāge Ch.14