Verses

द्वात्रिंशदपराधा: Dvātriṃśad Aparādhā:

1

श्रीभगवानुवाच

अपराधान् प्रवक्ष्यामि द्वात्रिंशत्पद्मसंभव ।

एतैर्विहीनां पूजां तु गृह्णामि न हि संशयः ॥

2

दन्तशुद्धिमकृत्वैवमस्नात्वा मम मन्दिरम् ।

प्रवेशो मम मूर्त्याश्च स्पर्शो मम सुदुःसहः ॥

3

स्पृष्ट्वा रजस्वलां नारी नीचांश्च पतितान्नरान् ।

मम मूर्तिं स्पृशन् मूढस्त्वपराधी भवेन्मम ॥

4

पुरीषोत्सर्जनं मूत्रोत्सर्गं वापि च मैथुनम् ।

कृत्वाथ मे तनुं स्पृष्ट्वा ह्यपराधी भवेन्मम ॥

5

दन्तान् केशान् गुदं शिश्नं स्पृष्ट्वा मां च तथा स्पृशन् ।

अपराधी भवेन्नूनं मद्भक्तोऽपि न संशयः ॥

6

आघ्राय पुष्पं तुलसीं चन्दनं धूपमेव च ।

अर्पयन्नवशिष्टं मे ह्यपराधी भवेन्ननु ॥

7

भूषणानि च वस्त्राणि माल्यानि च चतुर्मुख ।

परिधाय स्वयं पश्चादर्पयन् मम पापकृत् ॥

8

घृतं मधु दधि क्षीरं शर्करां च फलानि च ।

स्वयं भुक्त्वाथ नैवेद्यमर्पयन् मम पापकृत् ॥

9

जनने मरणे चैव बन्धूनां निजगोत्रिणाम् ।

आशौचकाले प्रविशन् मन्दिरं मम पापकृत् ॥

10

कृष्णरक्ताम्बरधरोऽनुद्वर्तितवस्त्रधृत् मुक्तकेशो मम गृहं प्रविशन् पापकृन्मम

11

तैलाभ्यक्तः स्वयं कुर्वन् वपनं स्नानवर्जितः ।

अपराधी भवेन्नूनं प्रविशन् मन्दिरं मम ॥

12

कम्बलावेष्टितो वापि पादयोः पादुकाधरः ।

अग्रे विशंश्चालक्ष्येण ह्यपराधी भवेन्मम ॥

13

ममाग्रे प्रक्षिपन् पादावनुत्तिष्ठन् मदागमे ।

व्यर्थालापनकृन्मूढस्त्वपराधं करोति मे ॥

14

द्यूतसेवां धूम्रपानं मधुपानं करोति यः ।

अभक्ष्यभक्षणं वा स महापापी न संशयः ॥

15

अपानवायूत्सर्गं च गण्डूषं मम मन्दिरे ।

ताम्बूलचर्वणं कुर्वन्नपराधी भवेन्मम ॥

16

परस्परं च कलहं परिहासकथां तथा ।

उच्चैः संभाषणं चापि न कुर्यान्मम सन्निधौ ॥

17

विना यवनिकां मूर्तेरलङ्कारोऽभिषेचनम् ।

नैवेद्यकरणं चापि मम नूनमसम्मतम् ॥

18

नैव प्रदर्शयेन् नृणां मम मूर्तिं दिगम्बराम् ।

यथा स्वभार्यां यत्नेन गोपायेत तथैव माम् ॥

19

नानाविधमलङ्कारं कर्तुं प्रेमविवर्जितः ।

न बध्नीयान् मम तनूं काष्ठैर्वा रज्जुभिस्तथा ॥

20

निःसुगन्धैश्च पुष्पैर्मां निर्माल्यैरक्षतैरपि ।

देवतान्तरसम्बन्धैरर्चयन्नपराधकृत् ॥

21

देवतान्तरनैवेद्यमर्पयेन्न कदाचन ।

अर्पयन्नपराधी स्याद्वस्त्रं वा भूषणानि वा ॥

22

न कुर्यात् क्षुद्रदेवानां पूजां वा स्तुतिमेव वा ।

सन्निधौ मम पापी स्यान्ननु पापफलं लभेत् ॥

23

मन्दिरस्य समीपे तु मलं मूत्रं विसृज्य च ।

मूलरोगमवाप्नोति महोदररुजं तथा ॥

24

यः करोति च वाणिज्यं प्रमादान्मम मन्दिरे ।

स दारिद्र्यमवाप्नोति जन्मजन्मनि पापकृत् ॥

25

क्षेत्रं ममापहृत्यापि तथा पुष्पवनं मम ।

कुंभीपाकमवाप्नोति तप्ततैलमथापि वा ॥

26

मम वस्त्रं भूषणं वा धनं वा भाजनानि वा ।

अपहृत्य महापापी कुष्ठरोगमवाप्नुयात् ॥

27

मम पुष्पवने नित्यं पुष्पाणि च हरन्नरः ।

श्वेतकुष्ठमवाप्नोति बन्धुहीनो भवेत्तथा ॥

28

साधूनां सद्गुरूणां च मम निन्दां करोति यः ।

स तु मूकत्वमाप्नोति साक्ष्ये चानृतभाषणः ॥

29

मदग्रे यः परस्त्रीणां सौन्दर्यमभिवीक्षते ।

अन्धो भवति नारी च या पश्येत् पुरुषं परम् ॥

30

मन्मन्दिरं परित्यज्य गृहद्वारस्थितं महत् ।

अन्यत्र गच्छन् मूढात्मा पङ्गुर्भवति पापकृत् ॥

31

मम मूर्तिं हरन् पापी मन्दिरे सुप्रतिष्ठिताम् ।

अपाणिपादो भविता लभते जन्म पिण्डवत् ॥

32

अज्ञानान्मैथुनं कुर्वन् मनुष्यो मम मन्दिरे ।

नपुंसको भवेन्नूनं महापापी न संशयः ॥

33

वैवाहिकादिकर्माणि श्राद्धकर्माणि वा तथा ।

कुर्वन् न फलमाप्नोति मन्दिरे मम सन्निधौ ॥

34

यानि यानि च दुःखानि दृश्यन्ते पद्मसंभव ।

तानि तानि च पापानां फलान्येव न संशयः ॥

35

स्वयमेव कृपासिन्धुरहं कमलसंभव ।

कथं दद्यां दुःसहानि दुःखानि भुवने नृणाम् ॥

36

श्रीसद्गुरुरुवाच

एतद्भगवतो वाक्यं श्रुत्वा कमलसंभवः ।

चिन्ताकुलो भृशं भीतः प्राञ्जलिः प्राह केशवम् ॥

37

ब्रह्मोवाच

स्वभावतोपि मूढानां जनानां तव मायया ।

अपराधान् क्षमस्व त्वं कृतानपि पुनः पुनः ॥

38

अर्चारूपं गृहीतं हि त्वया करुणया विभो ।

पापिनां रक्षणायैवमपराधान् क्षमस्व भोः ॥

39

अपराधान् करिष्यन्ति पापिनो हि स्वभावतः ।

अनालोच्य कृपामेव कुरु कारुण्यसागर ॥

40

न चेदमीषां मर्त्यानां गतिर्नास्ति गदाधर ।

त्वां विना करुणासिन्धो शरणागतरक्षक ॥

41

श्रीसद्गुरुरुवाच

एवं प्रसादयामास ब्रह्मा लोकपितामहः ।

ततोऽपराधिनोप्येवं भवन्ति सुखजीविनः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे द्वात्रिंशदपराधाः नाम एकादशोऽध्यायः ॥
Ch.10 Caturtha Bhāge Ch.12