Verses

अर्चकनियम: Arcaka Niyama:

1

श्रीभगवानुवाच

आचार्यमुपसङ्गम्य दीक्षां प्राप्य यथाविधि ।

अर्चाविधानं शास्त्रोक्तं ज्ञात्वा वेदमधीत्य च ॥

2

आराधयेदर्चको मां वैदिकाचारसंयुतः ।

शिखी यज्ञोपवीती च बद्धकच्छसुवस्त्रधृत् ॥

3

शान्तो दान्तः प्रसन्नात्मा विरक्तो विजितेन्द्रियः ।

विहितस्नानसन्ध्यादिनियमः शुचिरक्लमः ॥

4

मितभाषी जितक्रोधो विमुखो लौकिके जने ।

भक्तेषु सुमुखश्चापि भावुको रसिकस्तथा ॥

5

ईदृशो ह्यर्चकश्रेष्ठो मां वशीकर्तुमर्हति ।

सदाहमर्चकाधीनः करोमि करुणां नृषु ॥

6

अनाचारं दुराचारममन्त्रज्ञं च लौकिकम् ।

मां स्प्रष्टुमागतं दृष्ट्वा बिभेमि ह्यर्चकाधमम् ॥

7

पूर्वं स्नानं प्रकुर्वीत धौतदन्ताङ्गशुद्धये ।

निवृत्तसन्ध्यानियमस्ततो मे मन्दिरं विशेत् ॥

8

मार्जनादीनि कृत्वाथ दीपमुज्वाल्य सादरम् ।

संभारानाहरन् भक्त्या पूजार्थं श्रद्धया मम ॥

9

पूर्णकुम्भं च पीठं च पूजापात्राणि चन्दनम् ।

घण्टां शङ्खं च तुलसीं सुगन्धीनि सुमानि च ॥

10

धूपं दीपञ्च नैवेद्यं तथा पञ्चामृतं मम ।

श्रद्धयाऽऽहृत्य पूजार्थं मण्डले परिविन्यसेत् ॥

11

निर्माल्यं परिहृत्याथ कृत्वा मूर्त्याश्च मार्जनम् ।

देशकालौ च सङ्कीर्त्य ततः सङ्कल्पमाचरेत् ॥

12

ततः कलशपूजाञ्च शङ्खपूजां विधाय च ।

घण्टां निनादयेद्भक्त्या पीठपूजामथाचरेत् ॥

13

भूतशुद्धिं ततः कृत्वा ध्यायेन्मां हृदये स्थितम् ।

आवाहयेन्मां हृदयाद्विम्बे तु पुरतः स्थिते ॥

14

आसने मां निवेश्याथ पाद्यमर्घ्यं च कल्पयेत् ।

एलासुगन्धसलिलैः श्रद्धया भक्तिपूर्वकम् ॥

15

पाद्यमर्घ्यञ्च दत्वा मे तथैवाचमनं मम ।

पञ्चामृतेन मां नित्यमभिषिञ्चेद्यथाक्रमम् ॥

16

क्षीरं दधि घृतं चैव मधुरं मधु शर्करा ।

पञ्चामृतमिति प्रोक्तं मम प्रीतिकरं वरम् ॥

17

ततः फलरसैश्चापि नालिकेररसेन च ।

चन्दनेन सुगन्धेन गन्धैरन्यैश्च सादरम् ॥

18

आश्लिष्य प्रेमपूर्वं मां जननी बालकं यथा ।

वस्त्रेण मार्जनं कृत्वा धूपमाघ्रापयेच्छुचि ॥

19

वस्त्राणि धारयित्वा मामुपवीतञ्च भूषणम् ।

चन्दनं कुङ्कुमञ्चापि धारयेत् पुष्पमालिकाम् ॥

20

अथ पुष्पैरर्चनञ्च नामकीर्तनपूर्वकम् ।

कृत्वा निवेदयेन्नित्यं मेध्यं हव्यं चतुर्विधम् ॥

21

पार्षदानभिपूज्याथ बलिं दत्वा यथाविधि ।

शङ्खोदकं हरेत्पुण्यं भ्रामयित्वा शिरो मम ॥

22

ताम्बूलमर्पयित्वाथ पानीयं सलिलं शुचि ।

मङ्गलारार्तिकं कुर्याद्वाद्यघोषसमन्वितम् ॥

23

ततो मां वीजयेद्भक्त्या चामरव्यजनादिभिः

प्रदक्षिणं नमस्कारमपराधक्षमापनम् ।

कृत्वा सङ्कीर्तयेन्नृत्येत् पठेत् स्तोत्राणि सादरम् ॥

24

मम पादोदकं दिव्यं पवित्रं तुलसीदलम् ।

प्रसादञ्च गृहीत्वाऽथ विनियोगं समाचरेत् ॥

25

सायं च सन्ध्यानियमं समाप्य प्रेमपूर्वकम् ।

पूजयेन्मां यथाशक्ति मङ्गलारार्तिकं चरेत् ॥

26

क्षीरं भक्ष्यञ्च ताम्बूलं समर्प्य प्रेमपूर्वकम् ।

ममार्चकः प्रतिदिनं कुर्यान्मे शयनोत्सवम् ॥

27

प्रबोधनञ्च शृङ्गारं भोगं विश्रमणं तथा ।

आरार्तिकं कीर्तनञ्च डोलां शयनमाचरेत् ॥

28

एवमष्टविधां सेवां मद्भक्तस्तु दिने दिने ।

कुर्यान्ममैव सततं मन्मयो भवति ध्रुवम् ॥

29

एवं नित्योत्सवं कुर्यान्मद्भक्तस्तु दिने दिने ।

सानन्दं श्रद्धया भक्त्या मामेव शरणं गतः ॥

30

एकादशी च संक्रान्तिरमावास्या चतुर्मुख ।

श्रवणञ्चापि नक्षत्रं पञ्चपर्वेति गीयते ॥

31

तेषु पर्वसु मे पूजां भक्त्या कुर्याद्विशेषतः ।

उत्सवञ्चाभिषेकञ्च नामसङ्कीर्तनादिकम् ॥

32

एवं प्राप्तेऽधिके मासे चान्द्रमानेन च क्वचित् ।

विशेषतः श्रद्धया मां पूजयेत् पुरुषोत्तमम् ॥

33

चातुर्मास्ये विशेषेण पूजयेत् सुसमाहितः ।

शयने मम चोत्थाने मद्भक्तो व्रतमाचरन् ॥

34

श्रीरामनवमी चैवं श्रीनृसिंहचतुर्दशी ।

कृष्णजन्माष्टमी चैवं श्रवणद्वादशी तथा ॥

35

मम प्रीतिकरी पुण्या तिथिरेषा न संशयः ।

तासु पूजां जपं होमं व्रतं सङ्कीर्तनं चरेत् ॥

36

सन्त्यजेद्दशमीविद्धां ध्रुवमेकादशीं तिथिम् ।

एवं व्रतेषु सर्वेषु पूर्वविद्धां तिथिं त्यजेत् ॥

37

चैत्रे ब्रह्मोत्सवं कुर्यात् प्रादुर्भावर्क्षमाश्रयन् ।

वैशाखमासे मे विष्णोर्वसन्तोत्सवमाचरेत् ॥

38

ज्येष्ठाभिषेकं मे कुर्याज्ज्येष्ठमासेऽपि वैष्णवः ।

एकादश्यामथाषाढे शयनोत्सवमाचरेत् ॥

39

श्रावणे पूर्णिमायाञ्च पवित्रोत्सवमाचरेत् ।

एवं भाद्रपदे मासे ममापि परिवर्तनम् ॥

40

एवमाश्वयुजे मासि कुर्यात् डोलोत्सवं मम ।

पवित्रे कार्तिके मासि कुर्यादुत्थापनं मम ॥

41

मार्गशीर्षे विशेषेण पूजयेदुषसि प्रभुम् ।

निवेदयित्वा मुद्गान्नं कुर्यादध्ययनोत्सवम् ॥

42

पुष्यमासे फाल्गुने च पूर्णिमायां विशेषतः ।

भक्तैर्भागवतैः साकं मम कुर्यान्महोत्सवम् ॥

43

पूर्णिमायां माघमासे प्लवोत्सवमथाचरेत् ।

फाल्गुने पूर्णिमायाञ्च कुर्वन् वैवाहिकोत्सवम् ॥

44

प्रतिमासं प्रतिदिनं प्रतिसंवत्सरं तथा ।

कुर्यान्महोत्सवं भक्त्या कोलाहलसमन्वितः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे अर्चकनियम: नाम अध्यायः ॥
Ch.08 Caturtha Bhāge Ch.10