Verses

पूजामाहात्म्यम् Pūjā Māhātmyam

1

श्रीभगवानुवाच

अव्यक्तरूपस्य मम मनसाऽगोचरस्य च ।

आराधनाय प्रतिमां स्थापयेत् प्रेमपूर्वकम् ॥

2

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।

मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता ॥

3

अर्चायां प्रतिमाबुद्धिं सर्वथा परिवर्जयेत् ।

ममैव चिन्मयीं मूर्तिं भावयन्नभिपूजयेत् ॥

4

यथा भावयन्ते मां तेषामस्मि तथैव हि ।

यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ॥

5

सदा करोमि सान्निध्यं प्रतिमायामपि प्रीत्या ।

अनुग्रहार्थं भक्तानां पूजयेन्मां यथाविधि ॥

6

प्रतिमायां विनष्टायां हृतायां वा चतुर्मुख ।

भिन्नायां नूतनामन्यां प्रतिमां स्थापयेन्मम ॥

7

अक्षरस्य न नाशः स्याल्लिपिनाशाच्चतुर्मुख ।

एवं हि प्रतिमानाशान्मम नाशो न विद्यते ॥

8

येन द्रव्येन यद्विम्बं क्रियते भुवि मानुषैः ।

न गृह्यते हि तद्द्रव्यं बिम्बमेव हि गृह्यते ॥

9

मांसेन कल्पितं रूपं न मांसं पूज्यते नरैः ।

मम माता पितेत्येवं रूपमेव हि पूज्यते ॥

10

शिलाभिः कल्पितां मूर्तिं वीक्ष्य सर्वैश्च मानवैः ।

तत्र सत्यं मत्स्वरूपं गृह्यते भक्तिपूर्वकम् ॥

11

यादृशी भावना तत्र क्रियते भुवि मानवैः ।

अवलम्ब्य ममाप्यर्चां सिद्धिर्भवति तादृशी ॥

12

महाराजं यथा दृष्ट्वा हृदये जायते भयम् ।

एवं मां वीक्ष्य सर्वेशं भयेनाराधयेत् सदा ॥

13

न मे क्षुद्वा पिपासा वा नाहं बद्धोऽस्मि कस्यचित् ।

अनुग्रहाय भक्तानां पूजां गृह्णामि सादरम् ॥

14

मया प्रोक्तं हि तच्छास्त्रं मदाराधनसिद्धये ।

तस्माच्छास्त्रोक्तमार्गेण पूजयेन्मां यथाविधि ॥

15

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥

16

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥

17

प्रेमभक्त्यैव मे पूजां शबरीविदुरादयः ।

चक्रुर्भक्ताः पुरा तेषामहमासं वशं गतः ॥

18

तादृशी प्रेमभक्तिस्तु लोकेऽस्मिन् बहुदुर्लभा ।

तस्माच्छास्त्रोक्तमर्यादां श्रद्धया परिपालयेत् ॥

19

विनैव श्रद्धया भक्त्या विहितां दंभपूर्वकम् ।

नैव गृह्णाम्यहं पूजां डाम्भिकैरर्चकैर्जनैः ॥

20

अनाचारा दुराचाराः पापिनो देवला जनाः ।

जीवनोपायसिद्ध्यर्थं कुर्वन्ति मम पूजनम् ॥

21

तेषां न मयि श्रद्धा वा भक्तिर्वा पद्मसंभव ।

मयैव वृत्तिर्विहिता देवलानां ममार्चने ॥

22

अपराधं सहे तेषामर्चकानां दुरात्मनाम् ।

आलयेषु च सर्वेषु तस्मात्तैरेव पूजयेत् ॥

23

अहं मन्त्रबलेनैव तथा भक्तिबलेन च ।

बिम्बे करोमि सान्निध्यं नान्यथा पद्मसंभव ॥

24

मन्त्रं भक्तिश्च यस्त्यक्त्वा मां वशीकर्तुमिच्छति ।

तस्य मूढस्य देवोहं न कदापि वशेऽस्म्यहम् ॥

25

वञ्चकानामर्चकानामहमस्मि हि वञ्चकः ।

आर्जवेनैव युक्तानामहमस्म्यार्जवेन च ॥

26

निश्चिन्तो निर्भरो नित्यं मामेव ननु पूजयेत् ।

अर्चकानां च भक्तानां योगक्षेमं वहाम्यहम् ॥

27

विसृज्य मयि विश्वासं यो डम्भेनैव पूजयेत् ।

अनार्जवं मन्दमतिं तं दृष्ट्वा प्रहसाम्यहम् ॥

28

मन्त्रहीनं क्रियाहीनं भक्तिहीनं ममार्चनम् ।

आर्जवेनैव संयुक्तं गृह्णामि चतुरानन ॥

29

अनार्जवेन यद्दत्तमनादरणपूर्वकम् ।

नात्ति श्वापि लोकेऽस्मिन् किमु देवो महेश्वरः ॥

30

वचस्येकं मनस्येकं कर्मण्येकं महात्मनाम् ।

वचस्यन्यन्मनस्यन्यत् कर्मण्यन्यद्दुरात्मनाम् ॥

31

महर्षीणां मन्त्रविदां मद्भक्तानां तपस्विनाम् ।

मङ्गलाशासनबलात् सान्निध्यं हि करोम्यहम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे पूजामाहात्म्यम् नाम अध्यायः ॥
Ch.07 Caturtha Bhāge Ch.09