Verses

पूजापद्धति: Pūjā Paddhati:

1

श्रीसद्गुरुरुवाच

एवं श्रीरङ्गनाथस्य निशम्य वचनं विधिः ।

पुनः पप्रच्छ सानन्दं बद्धाञ्जलिपुटो हरिम् ॥

2

ब्रह्मोवाच

भगवन् भक्तमन्दार कथमाराधनं तव ।

कर्तव्यमिति मे ब्रूहि त्वमेव करुणानिधे ॥

3

श्रीभगवानुवाच

वैदिकं तान्त्रिकं चैव पुराणोक्तमिति त्रयम् ।

आराधनं मे जानीहि कर्तव्यं मनुजैरज ॥

4

द्विजाः पुरुषसूक्तेन पूजां कुर्युः सदा मम ।

अत्र स्त्रीणाञ्च शूद्राणामधिकारो न विद्यते ॥

5

तन्त्रं च द्विविधं प्रोक्तमादौ देवगुरो मया ।

वैखानसं पाञ्चरात्रमिति पूजाविधानतः ॥

6

आलयेषु च सर्वेषु तन्त्रमार्गेण पूजयेत् ।

सुप्रसन्नो भविष्यामि तदा सरसिजासन ॥

7

येन येनागमेनैव प्रतिष्ठा विहिता मम ।

तेन तेनागमेनैव पूजयेत्तत्तदालये ॥

8

शबरीविदुराद्याश्च ददुर्मह्यं फलादिकम् ।

एवं प्रेम्णा पूजयेयुः स्त्रियः शूद्राश्च सन्ततम् ॥

9

स्वे स्वेऽधिकारे या निष्ठा सगुणः परिकीर्तितः ।

स्वमर्यादाऽतिक्रमणमपथ्यं स्यादिवौषधे ॥

10

ब्राह्मणक्षत्रियविशां शूद्राणां च चतुर्मुख ।

स्त्रीणां तथा पञ्चमानां पतितानां च पापिनाम् ॥

11

उद्धारणाय कृपया ह्यवतारः कृतो मया ।

येनकेनप्रकारेण दास्यं कृत्वा मम प्रभो ॥

12

संसारसागराद्धोरादुत्तीर्णाः स्युर्नरा भुवि ।

अर्चावतारे सुलभो भवामि चतुरानन ॥

13

ब्राह्मणाः पूजयेयुर्मां परिचर्यां च देवलाः ।

क्षत्रिया मम कुर्युश्च विशालं मन्दिरं बहु ॥

14

क्षत्तारो मम कुर्युश्च सर्वत्रा द्वारपालनम् ।

द्रव्यसंपादनं चापि वैश्याः कुर्युर्महानसे ॥

15

शूद्रा नानाविधं दास्यं कुर्युश्च मम मन्दिरे ।

स्त्रियः कुर्युर्मम गृहे मार्जनं लेपनं तथा ।

लेखनं मण्डलानां च श्रद्धया प्रेमपूर्वकम् ॥

16

पुष्पमालाकल्पनं च मन्दिरे पात्रशोधनम् ।

दीपानां ज्वालनं चापि स्त्रियः कुर्युर्दिने दिने ॥

17

तक्षका रथकाराश्च वाहनानि रथांस्तथा ।

कर्मारा भूषणान्येव कुलाला भाण्डमेव च ॥

18

वायका वस्त्रनिर्माणं रजका वस्त्रशोधनम्

निर्माय श्रद्धया दद्युर्भक्त्या च मम मन्दिरे ।

रङ्गकाराश्च मे रङ्गं कुर्युश्च मम मन्दिरे ॥

19

एवं मनुष्यगन्धर्वा वेश्याश्चापि दिने दिने ।

गानं च नर्तनं कुर्युर्वाद्यानां चापि वादनम् ॥

20

रथोत्सवेऽपि चण्डाला नराः पाषण्डिनस्तथा ।

मां पश्येयुर्भक्तिपूर्वं तदा पूता भवन्ति च ॥

21

कृषीवलाश्च मे क्षेत्रे सस्यं कुर्युर्यथाविधि ।

आहरेयुश्च धान्यानि मदर्थं चतुरानन ॥

22

गोपाला अपि मे गोष्ठे कुर्युर्गोरक्षणं तथा ।

पञ्चगव्यं प्रदास्यन्ति मम पूजाविधौ ननु ॥

23

मदर्चकाणां विप्राणां नापिताश्च मदालये ।

सेवां कुर्युर्यात्रिकानां बालानां मुण्डनं तथा ॥

24

सर्वेषामपि लोकेऽस्मिन् जीवनं मम मन्दिरम् ।

को न सेवेत मां मर्त्यः सर्वेषां जनको ह्यहम् ॥

25

यथाधिकारं मां नित्यमाराध्य चतुरानन ।

सर्वे जना जगन्नाथं भवन्ति सुखजीविनः ॥

26

इहापि सेवां कुर्वन्तो देहयात्रां विधाय च ।

परत्रापि गमिष्यन्ति पदं हि परमं मम ॥

27

अर्चावतारसेवा हि सुलभा भुवने नृणाम् ।

जन्मान्तरकृतेनैव पुण्येनैव हि लभ्या ॥

28

ध्यानं कर्तुञ्च ये शक्ता योगिनस्तु जितेन्द्रियाः ।

कुर्वन्तु ते ध्यानमेव नित्यं शैलगुहां गताः ॥

29

किन्तु मे मन्दिरं नित्यमुत्सवायैव सत्तम ।

तस्मान्नित्योत्सवं कुर्याद्गाननाट्यकुतूहलम् ॥

30

नानालङ्कारशृङ्गारैर्नेत्रानन्दप्रदैस्तथा ।

नानावाद्यैश्च गानैश्च श्रोत्रानन्दप्रदैस्तथा ॥

31

नानाधूपसुगन्धैश्च घ्राणानन्दप्रदैस्तथा ।

नानामहाप्रसादैश्च जिह्वानन्दप्रदैस्तथा ॥

32

आकृष्य मूढानखिलान् पामरानजितेन्द्रियान् ।

दर्शयेन्मां कृपासिन्धुं येनकेनापि कर्मणा ॥

33

पामराणां जनानां हि तारकोऽहं भवार्णवात् ।

अर्चारूपं गृहीत्वैवं तिष्ठामि चतुरानन ॥

34

येनकेनप्रकारेण मत्सेवां च यदृच्छया ।

प्राप्य मूढा मनुष्याश्च प्राप्नुयुर्मङ्गलं ननु ॥

35

काले वृष्टिर्भवेन्नूनं नदीषु च जलं तथा ।

पृथ्व्यां सस्याभिवृद्धिश्च भवेद्धि मम पूजनात् ॥

36

सर्वे जनाश्च सुखिनो भवेयुश्च निरामयाः ।

ऐश्वर्यमायुरारोग्यं धनं सन्तानमेव च ॥

37

तथा दारान् गृहांश्चैव सदा सन्तोषमेव च ।

लभन्ते मयि सुप्रीते नराः सर्वे तथा परम् ॥

38

तस्माद्देशेषु दिव्येषु कुरु त्वं चतुरानन ।

महोत्सवं प्रहर्षेण कुतूहलसमन्वितः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे पूजापद्धतिर्नाम सप्तमोऽध्यायः ॥
Ch.06 Caturtha Bhāge Ch.08