Verses

भगवदाविर्भावः Bhagavad Āvirbhāvaḥ

1

श्रीसद्गुरुरुवाच

एवं तदा स्तुन्वति वेदगर्भे ।

क्षीराम्बुराशेस्तरलस्य तूर्णम्

तरङ्गनादः सुमहांस्तदाऽभूत् ।

प्रचण्डवातेन समीरितश्च ॥

2

तथाऽम्बरेऽभूत् परमः प्रकाशः

प्रभाकराणां बहुकोटितुल्यः ।

प्रताडिताक्षाः प्रभया तया ते

तस्थुश्च देवा दिवि विस्मिताश्च ॥

3

पुष्पाणि देवा ववृषुस्तदा खे

सिद्धाश्च विद्याधरकिन्नराश्च ।

जगुश्च गन्धर्वगणाः प्रहृष्टा-

स्तैर्वादिता दुन्दुभयश्च नेदुः ॥

4

तदाविरासीत् प्रणवस्वरूपं

विमानमेतत् कलशैरुपेतम् ।

जाज्वल्यमानं बहुसुन्दरं च

क्षीराब्धिमध्यात् स्वयमेव जातम् ॥

5

विराजते यत्पुरतो गरुत्मान्

पार्श्वे तथाऽऽस्तां विजयो जयश्च ।

सेनापतिर्यज्ञवराहरूपो

बिभर्ति संरक्षति यन्मुकुन्दः ॥

6

गायत्रिमन्त्राक्षरसंयुतास्ते

स्तम्भाश्च तस्थुः परितो महान्तः ।

प्रपत्तिमन्त्रद्वयरूपमेतत्

द्वयं यस्य विराजतेऽन्तः ॥

7

माया जगन्मोहनकारिणी च

बद्धाञ्जलिर्भाति हरेः पदाब्जे ।

विश्वविघ्नविनाशकोऽयं

भूत्वा श्रितानां हरिदर्शनार्थम् ॥

8

उपासितं तत्परितो विमानं

दिवि स्थितैः सिद्धगणैश्च साध्यैः ।

देवैश्च पूर्व्येर्हरिपार्षदैश्च

संरक्षितं चक्रगदाधरैश्च ॥

9

तस्मिन् विमाने च फणासहस्र-

प्रदीप्तरत्नावलिकान्तिजालैः ।

प्रकाशयन् माधवसन्निधान-

मन्तर्गृहं भाति तदादिशेषः ॥

10

पर्यङ्कभूते भुजगाधिराजे

फणासहस्रेण कृतातपत्रे ।

शयानमेकं पुरुषं महान्तं

सुराश्च सर्वे ददृशुः पुराणम् ॥

11

ब्रह्मादिभिः सेवितपादपद्मं

पीताम्बरं पद्मदलायताक्षम् ।

सुवर्णकाञ्चीमणिनूपुराढ्यं

सरोजनाभं श्रितपारिजातम् ॥

12

विशालवक्षःस्थलशोभिरत्नं

श्रीवत्सचिह्नं जगतां शरण्यम् ।

विष्णुं वरेण्यं वरदं सुराणां

वेदान्तवेद्यं वनमालिनं च ॥

13

आजानुबाहुं च कृतोपधान-

मन्येन हस्तेन च योगनिद्राम् ।

कुर्वन्तमाद्यं जगतां त्रयाणां

नाथं च नारायणमादिदेवम् ॥

14

सुकुण्डलं हेमकिरीटयुक्तं

प्रसन्नवक्त्रं भगवन्तमेनम् ।

भक्तप्रियं भव्यगुणालयं च

प्रपन्नसंरक्षणबद्धदीक्षम् ॥

15

विलोक्य देवाः पुलकाङ्कितास्ते

तं पूजयामासुरजं मुकुन्दम् ।

मन्दारमल्लीतुलसीदलैश्च

जगुश्च नामानि मनोहराणि ॥

16

तदाविरासीद्भगवान् पुरस्ता-

द्विहाय निद्रां धृतशङ्खचक्रः ।

श्रिया च भूम्या सहितो मुकुन्द-

श्चतुर्भुजः सुन्दरदिव्यरूपः ॥

17

दत्वाऽभयं पद्मकरेण साक्षात्

पद्मापतिः पार्षदमुख्यसेव्यः ।

नित्योत्सवो नीरदनीलगात्रः

पप्रच्छ तेषां कुशलं पुरस्तात् ॥

18

तदा प्रहृष्टा विबुधाश्च सर्वे

प्रणम्य मूर्ध्ना पुलकाङ्किताङ्गाः ।

आनन्दबाष्पेण कृताभिषेका

ब्रह्मादयस्तुष्टुवुरादरेण ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे भगवदाविर्भावः नाम चतुर्थोऽध्यायः ॥
Ch.03 Caturtha Bhāge Ch.05