Verses

ब्रह्मस्तुतिः Brahma Stutiḥ

1

श्रीसद्गुरुरुवाच

तं विष्णुं परमात्मानं क्षीरसागरशायिनम् ।

तुष्टाव लक्ष्मीरमणं पद्मनाभं च पद्मभूः ॥

2

ब्रह्मोवाच

स्थूलं जगत्सकलमेतदहो निपीय ।

भावे निधाय परमः पुरुषो य ईशः

शेते च शेषशयने कृतयोगनिद्र- ।

स्तं सत्स्वरूपममृतं श्रुतिवेद्यमीडे ॥

3

केचिद्वदन्त्यसत एव सदुद्भवं च

तत्स्यात्कथं हि यदसत्तदभाव एव ।

भावस्थितस्य जगतः पुनरुद्भवः स्यात्

तत्कारणं हि सदिदं भगवत्स्वरूपम् ॥

4

या देवतैक्षत ह्यखिलसत्स्वरूपा

जीवात्मना जगदिदं निखिलं प्रविश्य ।

सर्वं त्रिवृत्करवाणि विचित्रमेत-

दित्येव तामनुभजामि च मे पुरस्तात् ॥

5

यस्यैव कारणतयापि च कार्यरूपे

सत्ता हिरण्मयविचित्रविभूषणेषु ।

हेम्नो यथाऽविकृतरूपतया विभाति

तस्माद्वदन्त्यनृतमित्यखिलं विकारम् ॥

6

पक्षी यथा क्वचन वृक्षनिबद्धपाद

उड्डीय सूत्रसहितश्च पुनः पुनः खे ।

अन्ते स्ववृक्षकुहरं प्रविशत्यथैवं

तस्मिन् विशन्ति हि नृणां सति सर्वभावाः ॥

7

नानाविधप्रसवजातमिदं स्वमूलं

वृक्षं यथा मधु न वेत्ति तथैव सर्वे ।

जीवाश्च तं न हि विदन्ति परं स्वरूपं

मूलं त्वदीयमकृतं कमलायताक्ष ॥

8

नद्यो यथा जलनिधिं प्रविशन्ति नाम-

रूपं विसृज्य ननु यान्ति लयं तथैवम् ।

यस्मिन् प्रविश्य निखिलानि जगन्ति लीना-

न्येतद्धि ते कमलनाभ परं स्वरूपम् ॥

9

शाखा यथा क्षितिरुहस्य भवेन्निकृत्ता

शुष्का तथा वपुरिदं रहितं चिदापि ।

सर्वात्मनो भगवतः प्रकृतिः परा सा

चिच्छक्तिरीश तव वारिजनाभ विष्णो ॥

10

बीजे निगूढमखिलं वटवृक्षरूपं

काले प्ररोहति बृहद्वपुरथ दृश्यम् ।

एवं हि सूक्ष्मवपुषा वपुषि स्थितं ते

काले बहिर्भवति वारिजनाभ साक्षात् ॥

11

क्षिप्तं जले लवणं परिदृश्यते हि

सर्वत्र पूर्णमखिलं किल चिद्रसेन ।

आत्मा त्वमेव जगतां ननु सर्वसाक्षी

शेषे भुजङ्गशयनेऽद्य तुरीयनिष्ठः ॥

12

आचार्यवांस्तव हि रूपमवैति नान्यः

संसारघोरविपिने बहुदुस्तरेऽस्मिन् ।

मायाऽभिनद्धनयनः प्रचरन् यथान्धो

निर्हेतुकीं तव कृपामवलम्ब्य कोऽपि ॥

13

एवं भवान् प्रलयकेलिकलारसज्ञो

भावे निधाय निखिलं जगदेकभावम् ।

स्थानत्रयात्परमुपेत्य विविक्तमुख्य-

प्राणाद् भुजगभोगवरे हि शेषे ॥

14

उद्बोधयामि भगवन्तममुं भवन्तं

सद्रूपमात्मनिरतं भुवनैकमूलम् ।

उत्फुल्लपद्मनयनं विकचय्य पश्य

स्वामिन् जगत्त्रयमिदं च हि मां प्रपन्नम् ॥

15

श्रीसद्गुरुरुवाच

एवं स्तुतः पद्मनाभः क्षीराब्धिशयनः प्रभुः ।

उत्थाय स्वागतं प्राह ब्रह्मणे कमलेक्षणः ॥

16

श्रीभगवानुवाच

सकलोपनिषद्वेद्यं मत्स्वरूपं चतुर्मुख ।

त्वमेवार्हसि संवक्तुं यतस्त्वं वेदविग्रहः ॥

17

किं कर्तव्यं मया ब्रह्मन् त्वं हि लोकनियामकः ।

त्वामाविश्य जगत्सर्वं सृजामि स्वयमप्यहम् ॥

18

ब्रह्मोवाच

भगवन् करुणासिन्धो भक्तवत्सल केशव ।

पापिनः पतितान् भ्रष्टान् समुद्धर भवार्णवात् ॥

19

पापिनामपि लोकेऽस्मिन् तथा पाषण्डिनामपि ।

म्लेच्छानां नास्तिकानां च कथं स्याद्दर्शनं तव ॥

20

श्रीभगवानुवाच

अहमर्चास्वरूपेण भविष्यामि तवेच्छया ।

तस्यैव दर्शनं भूयान्नृणामज्ञानिनामपि ॥

21

अर्चावतारमाश्रित्य कृत्वा भक्तिमकल्मषाम् ।

प्राप्स्यन्ति निखिला मर्त्या ममैव परमं पदम् ॥

22

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुः पुनरन्तर्दधे हरिः ।

अर्चा प्रतीक्षमाणस्तु तस्थौ तत्र तथा विधिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे ब्रह्मस्तुतिर्नाम तृतीयोऽध्यायः ॥
Ch.02 Caturtha Bhāge Ch.04