Verses

पद्मावतीपरिणयम् Padmāvatī Pariṇayam

1

श्रीसद्गुरुरुवाच

आकाशराजः परमं च हर्ष- ।

मवाप्य चानीय निजानमात्यान्

आज्ञापयामास सुताविवाह- ।

कर्माणि कर्तुं त्वरया नगर्याम् ॥

2

पद्माविवाहं सहसैव भृत्या

भेरीनिनादेन सहर्षमेवम् ।

पुरेषु सर्वत्र च नागरांस्ता-

न्निवेदयामासुरलं प्रहृष्टाः ॥

3

गृहे गृहे पौरजनाः सहर्षं

रसालपर्णैरपि रम्भया च ।

अलङ्कृत्य च पूर्णकुम्भान्

स्थापयामासुः पुरतः सुदीपान् ॥

4

मण्डपमादरेण

तत्र तु विश्वकर्मा ।

मायामयं स्तम्भसहस्रयुक्तं

विचित्रनानाविधशिल्पचित्रम् ॥

5

सर्वे जनाश्च कुतूहलेन

विवाहसन्दर्शनकाङ्क्षयैव ।

स्वलङ्कृताश्च प्रियभाषणाश्च

परस्परं प्रेमयुता बभूवुः ॥

6

राजा च राज्ञी च सहर्षमेव-

मानीय बन्धून् सुहृदश्च भृत्यान् ।

संपूजयामासतुरादरेण

यथोचितं वस्त्रविभूषणाद्यैः ॥

7

अनर्घ्यवस्त्राभरणादिभिश्च

स्वलङ्कृतौ प्रेमविकासिताक्षी ।

तौ दम्पती सर्वजनार्चितौ च

बभूवतुस्तत्र महोत्सवेऽस्मिन् ॥

8

पद्मावतीं तां प्रियभाषणेन

सखीजनाः प्रेमविलासयुक्ताः ।

आनन्दयामासुरनन्तलीलां

मुहुर्मुहुः सादरमालपन्त्यः ॥

9

सुगन्धतैलेन सुवासिनीनां

गणश्च नानाविधवाद्यघोषैः ।

संस्नापयामास च कन्यकां तां

पुण्येन तीर्थेन हरिद्रया च ॥

10

हंसाङ्कितक्षौमयुगं च सख्यः

पद्मावतीं वासितमुत्तरीयम् ।

सन्धारयामासुरलं च वेणीं

संपूरयामासुरथो सुपुष्पैः ॥

11

सखीजनैरेवमलङ्कृता सा

सुगन्धकाशमीरसुकुङ्कुमेन ।

लिप्ता च नेत्रे वरकज्जलेन

फालेन च सिन्दूरवरेण रेजे ॥

12

मुखारविन्दं मुकुरे विलोक्य

सौन्दर्यसर्वस्वनिधानभूतम् ।

अवाप लज्जामजितं स्मरन्ती

पद्मावती पद्मदलायताक्षम् ॥

13

ततो मुकुन्दो निजपार्षदैश्च

सर्वैश्च देवैः परिसेव्यमानः ।

आरुह्य पक्षीन्द्ररथं सहर्षं

तत्राययौ मङ्गलवाद्यघोषैः ॥

14

छत्रं च जग्राह सहस्रमौलिः

प्रदीपे चन्द्रदिवाकरौ च ।

संवीजयामासतुरस्य शौरेः

तिलोत्तमा चामरम् उर्वशी च ॥

15

चकार सारथ्यमजः शिवोऽपि

जामातृमित्रं स्वकरं ददौ च ।

शम्भोः करे स्वं च विधाय पाणिं

तत्राययौ शङ्खरथाङ्गपाणिः ॥

16

संबन्धिनो वीक्ष्य महीपतिश्च

समाययौ बन्धुजनेन साकम् ।

जामातरं वीक्ष्य धरा च देवी

ननन्द नन्दात्मजमादिदेवम् ॥

17

दत्वा ततो मङ्गलपूर्णकुम्भं

जामातरं मन्दिरमानिनाय ।

क्षीरं फलं तत्र ददौ धरा च

वराय तस्मै भुवनेश्वराय ॥

18

संबन्धिनोऽभ्यर्च्य ततो महात्मा

तत्रागतान् व्यासमुखान्महर्षीन् ।

यथोचितं तैरपि शंसितश्च

राजा बभौ प्रेमभराश्रुनेत्रः ॥

19

ततो हरिर्मङ्गलविग्रहोऽयं

सर्वैश्च देवैरभिसेवितश्च ।

सङ्कीर्तितो मङ्गलवाद्यघोषैः

वैवाहिकं मण्डपमाससाद ॥

20

पद्मावतीं भूषणभूषिताङ्गी-

मानिन्युराशु वै सखीजनाश्च ।

मृदुस्मितां शेषगिरीश्वरस्य

निवेशयामासुरिमां च पार्श्वे ॥

21

स्ववैजयन्तीं वृषशैलनाथः

सन्धारयामास तथैव पद्माम् ।

पद्मावती पङ्कजमालिकां स्वां

सन्धारयामास मुदा मुकुन्दम् ॥

22

तौ दम्पती चारुतमौ निवेश्य

डोलान्तरे प्रेमयुताः पुरन्ध्र्यः ।

चक्रुस्तदा मङ्गलकर्म नृणां

दुर्दृष्टिदोषस्य विनाशनाय ॥

23

विघ्नेशमाराध्य ततो वसिष्ठः

पुण्याहघोषेण च वाचयित्वा ।

वरस्य वध्वाः करयोश्च रक्षां

बद्ध्वाथ पूर्वाङ्गविधिं चकार ॥

24

आकाशराजो धरया समेतो

वरस्य पादावभिषिच्य विष्णोः ।

निवेद्य गां भूमिमथो सहर्षं

ददौ च कन्यां विधिपूर्वमेव ॥

25

माङ्गल्यसूत्रं वृषशैलनाथो

बबन्ध पद्मावतिकण्ठदेशे ।

तदा ववर्षुः कुसुमानि देवा

जगुश्च गन्धर्वगणाः सहर्षम् ॥

26

ततो वसिष्ठप्रभृतीन्मुनींश्च

ननाम चाकाशनृपं धरां च ।

ऊचुस्तदाशीर्वचनं च तेऽपि

विज्ञाय दिव्यौ हि दम्पती तौ ॥

27

समाप्य रात्र्यामपि शेषहोमं

विवाहदीक्षां विनिवर्त्य पश्चात् ।

धृत्वा च ताम्बूलमथो गिरीन्द्रं

संप्रस्थितो वेङ्कटशैलनाथः ॥

28

पद्मावतीं तां परिरभ्य राजा

जिघ्राय मूर्धानमथो धरा च ।

प्रेमाश्रुसिक्ताक्षियुगस्तनूजाम्

उवाच तां गद्गदरुद्धकण्ठः ॥

29

विज्ञाय पत्युर्हृदयं मृगाक्षि

सेवाम् कुरु त्वं स्वयमादरेण ।

तस्यैव सौख्ये भज सौख्यमेनं

तोषय त्वं पतिमेव देवम् ॥

30

पित्रा धरया चानुज्ञाता

सा प्रेमभरार्द्रनेत्री ।

प्रणम्य देवी पितरौ सहर्षं

ययौ स्वनाथेन निकेतनं सा ॥

31

आरार्तिकं वञ्जुलमालिका सा

विधाय गेहं विनिवेश्य हृष्टा ।

आरोप्य चाङ्कं मुदिता स्नुषां तां

पद्मावतीं गण्डतले चुचुम्ब ॥

32

अन्तःपुरे धूपसुगन्धयुक्ते

प्रकाशिते काञ्चनचारुदीपे ।

मञ्चे च मल्लीकुसुमैः सुगन्धे

तां रमेशः रमयाञ्चकार ॥

33

इदं पवित्रं पुरुषोत्तमस्य

कल्याणलीलाचरितं श्रियश्च ।

पठन्ति शृण्वन्ति च ये मनुष्या

भवन्ति तेषां ननु मङ्गलानि ॥

34

यच्छाश्वतं नित्यमनन्तमाद्यं

ज्योतिः परं निष्कलमप्रमेयम् ।

तदेतदानन्दविमानमध्ये

प्रकाशते ब्रह्म परं हि साक्षात् ॥

35

जगज्जनिस्थिति विनाशहेतु-

र्ब्रह्माच्युतेशानवपुः प्रविष्टा ।

शक्तिः परा या प्रविभाति सैव

साक्षादिहानन्दविमानमध्ये ॥

36

शैवा वदन्तीश्वरमेव देवं

शाक्ताश्च बालां च तथा कुमारम् ।

कौमारका विष्णुपराश्च विष्णुं

स्वं स्वं च सर्वे प्रियमिष्टदेवम् ॥

37

तं श्रीनिवासं बहुशो मनुष्या

म्लेच्छाश्च चीना यवनाः खसाश्च ।

द्वीपान्तरस्था अपि च इष्टदेवं

कलौ भजिष्यन्ति निजेष्टसिद्ध्यै ॥

38

माहात्म्यमेतत् परमं पवित्रं

श्रीवेङ्कटाद्रेः परमस्य धाम्नः ।

महाविपत्पापविनाशनं च

भक्त्या पठेन्मङ्गलमाप्तुकामः ॥

39

लोकत्रये सर्वजनार्चिताय

प्रत्यक्षदेवाय कलौ युगे च ।

यत्किञ्चिदेतत्कथितं चरित्रं

श्रीवेङ्कटेशाय समर्पयामि ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पद्मावतीपरिणयम् नाम त्रिचत्वारिंशोऽध्यायः ॥
Ch.42 Prathama Bhāge