Verses

पुरुषोत्तममाहात्म्यम् Puruṣottama Māhātmyam

1

श्रीसद्गुरुरुवाच

लवणाम्भुनिधेस्तीरे पुरुषोत्तमसंज्ञितम् ।

क्षेत्रमस्ति महापुण्यं स्वर्गादपि च दुर्लभम् ॥

2

स्वयमस्ति पुरे तस्मिन् यतः श्रीपुरुषोत्तमः ।

पुरुषोत्तममित्युक्तं तस्मात्तन्नामकोविदैः ॥

3

इन्द्रद्युम्नो महाराजः पाण्ड्यदेशेऽवसत्पुरा ।

अगस्त्यशिष्यो धर्मात्मा विष्णुभक्तिपरायणः ॥

4

तीर्थयात्रां चरन् राजा नीलाचलमुपागमत् ।

वैष्णवैर्मुनिभिः सार्धं ब्राह्मणैर्वेदपारगैः ॥

5

नीलाचलस्य माहात्म्यं श्रुत्वा नरपतिस्तदा ।

साक्षात्कर्तुं वासुदेवं चकार सुमहत्तपः ॥

6

विष्णुमाराधयामास द्वादशाक्षरविद्यया ।

भगवान् द्वादशाब्दान्ते ददौ च निजदर्शनम् ॥

7

शङ्खचक्रधरं श्यामं जगन्नाथं श्रियः पतिम् ।

विलोक्य परमप्रीतस्तुष्टाव विहिताञ्जलिः ॥

8

इन्द्रद्युम्न उवाच

निहत्य दैत्यौ मधुकैटभौ यो ।

वेदान् समुद्धृत्य ददौ विधात्रे ।

महाजले मत्स्यवपुर्धराय ।

तस्मै नमस्ते पुरुषोत्तमाय ॥

9

सुरासुराणाममृताय सिन्धुं

संमथ्नतां मन्दरधारणार्थम् ।

मध्येऽवतीर्णाय च कच्छपाय

तस्मै नमस्ते पुरुषोत्तमाय ॥

10

संप्रार्थितो यः कमलासनेन

जले निमग्नां भुवमुद्दधार ।

धृत्वा महत्सौकररूपमाद्यं

तस्मै नमस्ते पुरुषोत्तमाय ॥

11

सत्यं विधातुं निजभक्तवाक्य-

माविर्बभूवाखिलरक्षणाय ।

यो नारसिंहं कलयन् स्वरूपं

तस्मै नमस्ते पुरुषोत्तमाय ॥

12

त्रैविक्रमं रूपमुपेत्य यो वै

धरातलं संविममे पदेन ।

यत्पादतीर्थं त्रिजगत्पुनाति

तस्मै नमस्ते पुरुषोत्तमाय ॥

13

त्रिःसप्तकृत्वो रणलीलया यो

निःक्षत्रियां पृथिवीं सञ्चकार ।

भृगोर्महर्षेरवतीर्य वंशे

तस्मै नमस्ते पुरुषोत्तमाय ॥

14

इक्ष्वाकुवंशे ह्यवतीर्य धर्मं

सत्यं च लोके निजवैभवेन ।

संस्थापयामास च यो महात्मा

तस्मै नमस्ते पुरुषोत्तमाय ॥

15

भारं जिहीर्षुर्भुवनस्य युद्धे

कपिध्वजस्यन्दनसूतभूतः ।

गीतोपदेशं च चकार यो वै

तस्मै नमस्ते पुरुषोत्तमाय ॥

16

विमोहयित्वाऽनधिकारिणो यो

निवर्तयामास मखक्रियाभ्यः ।

बुद्धाय शुद्धाय कृपाकुलाय

तस्मै नमस्ते पुरुषोत्तमाय ॥

17

युगावसाने वैरिणो भूयो

निहत्य मूर्खान् यवनान् जगत्याम् ।

प्रवर्तयिष्यत्यमलं स्वधर्मं

तस्मै नमस्ते पुरुषोत्तमाय ॥

18

श्रीसद्गुरुरुवाच

एवं स्तुत्वा महाराजः पुरुषं जगदीश्वरम् ।

विलोचनजलस्निग्धो विरराम कृताञ्जलिः ॥

19

तदा पद्मपलाशाक्षो निर्व्याजकरुणानिधिः ।

उवाच ललितं वाक्यं मधुरस्मितभाषणः ॥

20

श्रीभगवानुवाच

आपातालब्रह्मलोकं दृश्यते यज्जगन्नृप ।

स्थूलरूपं ममैतद्धि क्षरः पुरुष उच्यते ॥

21

अक्षरः पुरुषस्त्वन्यः क्षेत्रज्ञ इति विश्रुतः ।

यस्यैव चित्प्रकाशेन सर्वमेतत्प्रकाशितम् ॥

22

एवं क्षराक्षरातीतं मां विद्धि पुरुषोत्तमम् ।

साक्षिणं सर्वलोकानां जडजीवनियामकम् ॥

23

तव भक्त्या प्रसन्नोऽस्मि तादृशः पुरुषोत्तमः ।

वरं वृणीष्व भद्रं ते यदिच्छसि ददामि तत् ॥

24

इन्द्रद्युम्न उवाच

पोषणाय च भक्तानां लोकांनां मङ्गलाय च ।

त्वमत्र कृपया विष्णो सान्निध्यं कुरु सर्वदा ॥

25

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।

अन्नं भवतु सर्वत्र भवन्तु सुखिनो नराः ॥

26

अन्नेन बहुना देव त्वां यजन्तु द्विजोत्तमाः ।

त्वयि तृप्ते जगन्नाथे तृप्तं स्याद्भुवनत्रयम् ॥

27

श्रीभगवानुवाच

एवमस्तु महाराज सान्निध्यं च करोम्यहम् ।

आलयं कारय त्वं च मन्निवासाय सुन्दरम् ॥

28

औदुम्बरी दारुरेका पूर्वसागरमध्यतः ।

आगमिष्यति भूपाल दिव्यब्रह्ममयी परा ॥

29

तां प्रतिष्ठापय त्वं च मन्दिरे विधिपूर्वकम् ।

तस्यां करोमि सान्निध्यमाचन्द्रार्कं न संशयः ॥

30

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् कृष्णस्तत्रैवान्तर्दधे हरिः ।

राजापि भक्तिसंयुक्तो ब्राह्मणैर्वैष्णवैः सह ॥

समुद्रतीरमासाद्य यज्ञं चक्रे महोत्सवम् ॥

31

तदा तत्राययौ दारुरौदुम्बरमयी परा ।

लेभिरे परमानन्दं दृष्ट्वा सर्वे जनास्तदा ॥

32

सङ्कर्षणं वासुदेवं विष्णुमायां च मन्दिरे ।

प्रतिष्ठाप्य महाराजः पूजयामास सादरम् ॥

33

सान्निध्यं कुरुते तत्र भगवान् पुरुषोत्तमः ।

अद्यापि सर्वलोकानां मङ्गलाय महाप्रभुः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पुरुषोत्तममाहात्म्यं नाम सप्तविंशोऽध्यायः ॥
Ch.26 Prathama Bhāge Ch.28