Verses

सप्ताचलवैभवम् Saptācala Vaibhavam

1

श्रीसद्गुरुरुवाच

ततो मुकुन्दः प्रजिघाय शेषं ।

पर्यङ्कभूतं वरमात्मनस्तम्।

नारायणस्य प्रियकाम्ययैव ।

महोरगः सप्तगिरिर्बभूव ॥

2

नारायणाद्रिर्गरुडाचलश्च

सिंहाद्रिरेवं ह्यथ वेङ्कटाद्रिः ।

शेषाद्रिरेवं वृषभाचलश्च

तथाञ्जनाद्रिश्च भवन्ति सप्त ॥

3

शिरः प्रदेशे खलु कालहस्ति

प्रकाशते यत्र शिवस्य लिङ्गम् ।

कालश्च हस्ती च समर्च्य रुद्रं

ह्यवापतुस्तत्पदमेव यत्र ॥

4

श्रीशैलमेतत् खलु पुच्छदेशे

यत्रार्जुनोऽभूच्छशिशेखरश्च ।

आश्लिष्य तिष्ठत्यपि यत्र रुद्रं

गिरीन्द्रकन्या वनमल्लिकेव ॥

5

अहोबिलं वक्षसि लक्ष्यतेऽस्य

प्रह्लादसंरक्षणपक्षपातात् ।

गुहान्तरादाविरभून्नृसिंहो

विराजते भक्तभयार्तिहारी ॥

6

श्रीवेङ्कटाद्रिं फणिराजमूर्तेः

शिरोमणिं विष्णुपदं वदन्ति ।

भूलोकवैकुण्ठमिदं पवित्रं

संसेवितं सर्वजनैश्च नित्यम् ॥

7

आकाशगङ्गा सततं स्रवन्ती

विष्णोः पताकेव विराजतेऽत्र ।

सर्वाणि तीर्थानि च तत्र तत्र

तापं च पापं च हरन्ति नृणाम् ॥

8

सहस्रशो भूमिरुहा महान्तः

चलन्ति वातेन च कम्पिताः ।

शेषाधिराजस्य फणासहस्रम्

इवोत्थितं विष्णुवराङ्गसङ्गात् ॥

9

संसारिसन्तापविनाशनार्थं

समुद्गताः क्षीरनिधेस्तरङ्गाः ।

यथा तथैवाम्बुधरा व्रजन्ति

श्रीवेङ्कटाद्रेः शिखरेषु शीताः ॥

10

गुहान्तरालेषु च रत्नभासा

निरस्तगाढान्धतमःसु तत्र ।

श्रीवैष्णवा भागवतं पठन्तो

हरन्ति चित्तोद्भवमन्धकारम् ॥

11

नृत्यन्ति कूजन्ति वदन्ति हर्षात्

शिखण्डिनस्तत्र पिकाः शुकाश्च ।

गान्धर्वविद्यासु निजस्वभावात्

प्रवीणतामत्र निदर्शयन्ति ॥

12

व्याघ्राश्च सिंहा हरिणाश्च तत्र

क्रीडन्ति गावो महिषाश्च कीशाः ।

परस्परं प्रेमविचेष्टितेन

विष्णुप्रजात्वं च निरूपयन्ति ॥

13

भृगुर्वसिष्ठोऽपि च नारदश्च

मृकण्डुसूनुर्भगवान् शुकश्च ।

तथैवमन्ये मुनयश्च सर्वे

स्ववासमिच्छन्ति गुहासु नित्यम् ॥

14

अप्राकृतं स्थानमिदं हि नूनम्

इह जनास्ते पशुपक्षिणश्च ।

अप्राकृतं रूपमुपेत्य विष्णुं

प्रवेशमात्रेण भजन्ति हन्त ॥

15

संसेवते चन्दनवृक्षवायुः

समागतान् विष्णुविलोकनाय ।

संसारतापं हरतीव सद्यः

प्रवेशमात्रेण वृषाद्रिशृङ्गे ॥

16

इतीदृशं शैलपदं विचार्य

भुवि स्थितं पुष्करपत्रनेत्रः ।

विहर्तुकामो रमया च सार्धं

ततः प्रतस्थे निजपार्षदैश्च ॥

17

आरुह्य चानन्दविमानमेतत्

दिव्यं तथा खेचरमात्मतुल्यम् ।

गन्धर्वविद्याधरकिन्नरैश्च

सुरासुरैः सेवितमादरेण ॥

18

जगत्पतिं तं परिसेवमानाः

सुनन्दनन्दादिकपार्षदाश्च ।

छत्रं च वालव्यजनं कराभ्यां

गृह्णन्त एवानुययुर्मुकुन्दम् ॥

19

जग्राह वर्षत्रमनन्त एवम्

चकार सारथ्यमथो खगेन्द्रः ।

वायुः सिषेवे वरचामरेण

दिवाकरो दीपधरो बभूव ॥

20

पपाठ वेदं कमलासनश्च

निनादयामास शिवः स्ववाद्यम् ।

ददर्श विष्णुं च सहस्रनेत्रः

सुरासुरैः सेवितपादपद्मम् ॥

21

नारायणाद्रेः शिखरेऽवतीर्य

नारायणो देवगणैश्च साकम् ।

आस्ते किलात्रैव युगे युगे च

निवारयन् दुःखमुपाश्रितानाम् ॥

22

तमेवमानन्दविमानसंस्थम्

उपासते देवगणाश्च सिद्धाः ।

नारायणं श्रीधरमप्रमेयं

ज्ञात्वा मुनीन्द्रा भुवि दिव्यदृष्ट्या ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे सप्ताचलवैभवम् नाम पञ्चत्रिंशोऽध्यायः ॥
Ch.34 Prathama Bhāge Ch.36