Verses

मधुरामाहात्म्यम् Madhurā Māhātmyam

1

श्रीसद्गुरुरुवाच

मधुरा सा विजयते नगरी भुवनत्रये ।

विष्णुर्वैकुण्ठमुत्सृज्य यस्यामवततार ह ॥

2

अस्मिन् वने मधुं दैत्यं जघान मधुसूदनः ।

तस्मान्मधुवनं नाम यमुनातीरमण्डले ॥

3

पुण्ये मधुवने त्वस्मिन् ध्रुवो भागवतोत्तमः ।

तपश्चकार गोविन्दं द्रष्टुकामो दृढव्रतः ॥

4

अस्मिन् मधुवने पूर्वमम्बरीषो महीपतिः ।

उद्यापनं व्रतस्यापि चकार द्वादशी तिथौ ॥

5

अस्मिन् वने पूर्वमासील्लवणो नाम दानवः ।

तं निहत्य च शत्रुघ्नो निर्ममे मधुरापुरीम् ॥

6

निवासयामास तत्र ब्राह्मणान् वेदपारगान् ।

अन्याः प्रजास्तथा तत्र शूद्रान् वैश्याश्च क्षत्रियान् ॥

7

रथवीथीः पण्यवीथीर्मण्टपान् महतीः सभाः ।

भवनानि विचित्राणि रम्याण्युपवनानि च ॥

8

विद्याशालां नाट्यशालां देवतायतनानि च ।

निर्ममे मधुरं तस्मान्मधुरेति भुवि श्रुता ॥

9

वासेऽपि मधुरा सेयं दर्शने मधुरा तथा ।

चिन्तने कीर्तने चैवं मधुरा मधुरा सदा ॥

10

राजधानी ततः साऽभूत् सर्वयादवभूभुजाम् ।

मधुरा नगरी यत्र नित्यं सन्निहितो हरिः ॥

11

अत्रैव देवकीं देवीं वसुदेवो महामनाः ।

उपयेमे तया सार्धं मुदितः स्वगृहं ययौ ॥

12

जग्राह रश्मीन् कंसोऽपि भगिन्याः प्रियकाङ्क्षया ।

रथं सञ्चारयामास वीथ्यां बहुजनावृतः ॥

13

देवक्यास्त्वष्टमो गर्भः कंसमृत्युरिति स्फुटम् ।

आकाशवाणीं श्रुत्वाथ कंसः कोपमवाप ह ॥

14

खङ्गमुद्यम्य तां हन्तुं प्रवृत्तं यदुपुङ्गवः ।

पुत्रान् समर्पयिष्यामि विसृजेति न्यवारयत् ॥

15

कारागृहे दम्पती तौ निवेश्य च दुराग्रहः ।

कृतकृत्यमिवात्मानं मेने कंसः सुदुर्मतिः ॥

16

जातं जातं शिशुं कंसो जघान क्रोधमूर्च्छितः ।

हिंसां चकार बहुधा यादवानां पुनः पुनः ॥

17

तदाऽऽविरासीद्भगवान् मुकुन्दः

संप्रार्थितो ब्रह्मशिवादिदेवैः, ।

भारं क्षमायाः सहसैव हर्तुं

भक्तप्रियः पद्मदलायताक्षः ॥

18

तमद्भुतं बालकमम्बुजाक्षं

चतुर्भुजं शङ्खगदाधरञ्च ।

पीताम्बरं कौस्तुभरत्नभूषं

श्रीवत्सलक्ष्माङ्कितवक्षसञ्च ॥

19

विलोक्य देवं मुदितान्तरात्मा

तुष्टाव बद्धाञ्जलिसंपुटोऽयम् ।

तदाज्ञया तं निशि बालकृष्णम्

आदाय गोष्ठं सहसा प्रतस्थे ॥

20

ववर्ष मेघो नितरां तदाऽपि

शेषोऽन्वगाद्वारि निवारयंश्च ।

मार्गं ददौ सा स्वयमेव कृष्णा

कृष्णस्य लोकत्रयनायकस्य ॥

21

विसृज्य कृष्णं निशि नन्दपत्न्याः

पार्श्वे तदीयामथ कन्यकां च ।

आदाय भूयो मधुरां ययौ स

यदूत्तमः सत्यवतां वरिष्ठः ॥

22

करे गृहीत्वाऽथ शिलातले तां

प्रहर्तुकामं करुणाविहीनम् ।

देवी तु सा कंसमुवाच मूढ

जातो रिपुस्ते क्वचिदस्ति गूढः ॥

23

तदिदं पावनं क्षेत्रं जन्मस्थानं जगत्पतेः ।

दर्शनाच्छ्रवणात्सद्यः सर्वपापविनाशनम् ॥

24

प्राचीनं विद्यते तत्र रम्यं केशवमन्दिरम् ।

यत्र सन्निहितो विष्णुर्भक्ताभीष्टफलप्रदः ॥

25

यः पश्येत् कार्तिके मासि केशवं केशिसूदनम् ।

मधुरायां महाभागः स एव भुवनत्रये ॥

26

दुर्लभः कार्तिकमासो दुर्लभा मधुरापुरी ।

तत्रापि दुर्लभं नूनं नृणां केशवदर्शनम् ॥

27

पवित्रे कार्तिके मासे भाग्यवन्तो नराः कलौ ।

कुर्वन्ति यमुनास्नानं मधुरायां वसन्ति च ॥

28

कार्तिके दीपमालाञ्च ये कुर्वन्ति दिने दिने ।

केशवस्यालये तेषां हृदि ज्ञानं प्रकाशते ॥

29

कार्तिके दीपदानञ्च कुर्वन्तीनाञ्च योषिताम् ।

अमङ्गलानि नश्यन्ति मङ्गलानि भवन्ति च ॥

30

पवित्रे कार्तिके मासे मधुरामण्डले वसन् ।

राधादामोदरौ नित्यं पूजयेद्भक्तिमान्नरः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे मधुरामाहात्म्यम् नाम सप्तदशोऽध्यायः ॥
Ch.16 Prathama Bhāge Ch.18