Verses

क्षीराब्धिमाहात्म्यम् Kṣīrābdhi Māhātmyam

1

श्रीसद्गुरुरुवाच

देवदानवगन्धर्वैः सिद्धविद्याधरैस्तथा ।

अगम्यं परमं धाम वैकुण्ठं मुनिभिर्नरैः ॥

2

विष्वक्सेनादिभिर्नित्यैर्मुक्तैश्च सह सूरिभिः ।

आस्ते हरिरचिन्त्यात्मा श्रिया भूम्या च नीलया ॥

3

कोटिसूर्यप्रकाशेऽत्र सहस्रस्तम्भमण्टपे ।

सहस्रफणसंयुक्ते नागराजवरासने ॥

4

मृदुलास्तरणे दिव्ये देवदेवो विराजते ।

शङ्खचक्रधरः श्रीमान् वासुदेवश्चतुर्भुजः ॥

5

प्रसन्नवदनो विष्णुः पद्मपत्रायतेक्षणः ।

हारकङ्कणकेयूरकुण्डलादिविभूषणः ॥

6

राजद्रत्नकिरीटश्च श्रीमत्कौस्तुभकन्धरः ।

श्रीवत्सवक्षा नित्यश्रीः पीताम्बरधरः प्रभुः ॥

7

वनमाली गदापाणिर्वैनतेयादिसेवितः ।

कर्ता सर्वस्य लोकस्य सर्वदेवनियामकः ॥

8

शास्ता सकलजीवानां सर्वकर्मफलप्रदः ।

सर्वज्ञः सर्वशक्तश्च सर्वसाक्षी सनातनः ॥

9

सर्वेश्वरः सर्वकर्ता सर्वस्वामी स्वयं प्रभुः ।

सर्वस्मात्परमः सर्वः सर्वस्यान्तर्बहिः स्थितः ॥

10

परं ब्रह्म परं ज्योतिः परं तत्त्वं परं पदम् ।

परं ध्येयं परं ज्ञेयं परं प्राप्यं परं शिवम् ॥

11

सदा पश्यन्ति यं देवा मुक्ताः सन्यासिनोऽमलाः ।

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥

12

प्रद्युम्नो ब्रह्मरूपश्च जगत्सृष्टिविधायकः ।

अनिरुद्धो विष्णुरूपो जगद्रक्षणतत्परः ॥

13

सङ्कर्षणो रुद्ररूपो जगत्संहारकारकः ।

वासुदेवः स्वयं ब्रह्म सर्वसाक्षी निरामयः ॥

14

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

विराट् सम्राट् विश्वरूपो विश्वस्यान्तर्बहिः स्थितः ॥

15

सूर्यमण्डलमध्यस्थो द्वादशात्मा जगत्पतिः ।

कर्मसाक्षी कालरूपः केशवादिस्वरूपधृक् ॥

16

आधारः सर्वलोकानामादिकूर्मः सनातनः ।

यस्य पृष्ठे जगत्सर्वमचलं वर्तते क्रमात् ॥

17

उद्धारको भुवश्चापि सर्वतः संप्लुतोदकात् ।

श्रीमानादिवराहोऽयं यज्ञरूपो जनार्दनः ॥

18

उपेन्द्रो वामनश्चापि विष्णुरित्यभिविश्रुतः ।

सर्वे वेदाः प्रशंसन्ति सर्वत्र यमुरुक्रमम् ॥

19

रामकृष्णादिरूपेण जगद्रक्षणतत्परः ।

व्यासादिमुनिरूपेण सर्वशास्त्रप्रकाशकः ॥

20

धर्मात्मा धर्महेतुश्च धर्मस्य प्रभुरच्युतः ।

प्रतिष्ठाता च धर्मस्य सत्यधर्मपरायणः ॥

21

वटपत्रशयः कृष्णः सर्वसंहारकारकः ।

यस्य कुक्षौ जगत्सर्वं वर्तते सचराचरम् ॥

22

सोऽयं सनातन विष्णुः शेते क्षीराम्बुधौ हरिः ।

उपासते तत्र देवाः सिद्धाश्च मुनयस्तथा ॥

23

शयानं शेषपर्यङ्के पुराणपुरुषं प्रभुम् ।

योगनिद्रामीलिताक्षं सर्वज्ञं सर्वसाक्षिणम् ॥

24

शुद्धस्फटिकसङ्काशं द्विभुजं पीतवाससम् ।

श्रीवत्सकौस्तुभधरं श्रिया भूम्या च लालितम् ॥

25

मन्दस्मितमुखाम्भोजं मधुरस्वरभाषिणम् ।

मङ्गलं मङ्गलानाञ्च महान्तं महतामपि ॥

26

ब्रह्मरुद्रादिभिः सेव्यं कीर्तितं नारदादिभिः ।

किरीटहारवलयनूपुरादिविभूषणम् ॥

27

आजानुबाहुं गोविन्दमुपधानभुजान्तरम् ।

पद्मनाभं परं शान्तं प्रभूणां प्रभुमीश्वरम् ॥

28

सेवन्ते वैष्णवा नित्यं श्वेतद्वीपनिवासिनः ।

देवतान्तरसंबन्धरहिताः शुद्धमानसाः ॥

29

गायन्तो हरिनामानि नृत्यन्तः परमोत्सवाः ।

भजन्ते तं भागवता भजनानन्दतत्पराः ॥

30

संसारवासनामुक्ताः सन्ततं कीर्तनप्रियाः ।

अन्योन्यप्रेमसंयुक्ताः कथामात्रैकजीवनाः ॥

31

विनीता दोषरहिता जितकामा जितेन्द्रियाः ।

सर्वेश्वरध्यानपराः सन्त्यक्तविषयान्तराः ॥

32

आनन्दबाष्पसुस्निग्धाः पुलकाञ्चितविग्रहाः ।

नृत्यन्ति देहं विस्मृत्य नामकीर्तनतत्पराः ॥

33

तान् विलोक्य तथा भूतान् कदाचिन्नारदो मुनिः ।

विस्मयं परमं प्राप्य स्वस्मिन् लज्जामवाप च ॥

34

तादृशी न हि मे भक्तिरिति दुःखमवाप्य सः ।

नारायणमुपागत्य पप्रच्छ बदरीवने ॥

35

नारायणो मुनिश्चापि नारदाय महर्षये ।

उवाच तेषां माहात्म्यं श्वेतद्वीपनिवासिनाम् ॥

36

परमैकान्तिनो ह्येते भजनानन्दतत्पराः ।

क्षीराब्धिशायिनं विष्णुं नित्यमेवमुपासते ॥

37

मोक्षेऽपि तेषां न प्रीतिः किमुतान्यफले तथा ।

तस्मात् विष्णुशरणाः विमुखा देवतान्तरे ॥

38

राजाधिराजपत्नीनां किमन्यैः पुरुषान्तरैः ।

एवं हि विष्णुभक्तानां किमन्यैर्देवतान्तरैः ॥

39

अहो भाग्यं नारद! एषां संप्राप्तं दर्शनं तव ।

अनन्यनिष्ठया त्वं च भज नारायणं प्रभुम् ॥

40

इत्युक्तो नारदोऽप्येवं वासुदेवपरायणः ।

कीर्तयामास गोविन्दं वसन् बदरिकाश्रमे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे क्षीराब्धिमाहात्म्यम् नाम तृतीयोऽध्यायः ॥
Ch.02 Prathama Bhāge Ch.04