Verses

गोपीचन्दनमाहात्म्यम् Gopīcandana Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिद्गोपनारीणां वियोगेन जनार्दनः ।

विविक्तदेशमासाद्य पीडितः प्रललाप ह ॥

2

गोकुलं यमुनाञ्चैव गोवर्धनगिरिं तथा ।

बृन्दावनं निकुञ्जञ्च स्मृत्वा स्मृत्वा रुरोद सः ॥

3

नन्दं यशोदां गोपालान् गोपीश्च प्रेमतत्पराः ।

प्रेमपूर्णां राधिकाञ्च स्मृत्वा स्मृत्वा रुरोद सः ॥

4

तं विलोक्योद्धवः कृष्णं सान्त्वयामास सादरम् ।

गोपीनां प्रेमभावं तं संस्तुवन् सुहृदां वरः ॥

5

तदा तत्रागतः कृष्णं नारदो मुनिसत्तमः ।

रासलीलां दर्शयितुं प्रार्थयामास केशवम् ॥

6

रुक्मिणीसत्यभामादिमहिषीभिर्यदूत्तमः ।

गोपीभावेन युक्ताभिः रासलीलां चकार सः ॥

7

समुद्रपुलिने तत्र नृत्यन्तीनां मुरारिणा ।

देवीनां नूपुराणां तु शुश्रुवे मधुरध्वनिः ॥

8

गायन्तीनां नटन्तीनां कृष्णेन सह सादरम् ।

समुद्रपुलिने रम्ये बभूव परमोत्सवः ॥

9

तासांमध्ये वासुदेवः शुशुभे नायकोत्तमः ।

वैडूर्याणां मणीनां तु मध्ये मरकतं यथा ॥

10

तासाञ्च तस्य कृष्णस्य पवित्रं हरिचन्दनम् ।

विशीर्णं भुवि सर्वत्र सुगन्धं सुमनोहरम् ॥

11

गोपीचन्दनमेतद्धि गोविन्दस्य मनोरमम् ।

ललाटे धारणादेव कृष्णभक्तिरसप्रदम् ॥

12

तदाप्रभृति तत्तीर्थं गोपीकुण्डमिति श्रुतम् ।

स्मरणाद्दर्शनात्सद्यः सर्वपापविनाशनम् ॥

13

गोपीकुण्डस्य तीरे तु चक्रपाणिर्विराजते ।

तच्चक्रचिह्नितं दिव्यं गोपीचन्दनमाप्नुयात् ॥

14

गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।

चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ॥

15

एवं संप्रार्थयन्नित्यं वैष्णवो भक्तिपूर्वकम् ।

धारयेद्द्वादशाङ्गेषु गोपीचन्दनमुत्तमम् ॥

16

सायं प्रातश्च माध्याह्ने गोपीचन्दनधारणात् ।

नश्यन्ति सर्वपापानि सत्यमेव वदाम्यहम् ॥

17

ऊर्ध्वपुण्ड्रं धरेद्भक्तो गोपीचन्दनलेपनात् ।

तस्य गात्रं मुकुन्दस्य पवित्रं मन्दिरं स्मृतम् ॥

18

येषां ललाटे भक्तानां दृश्यते गोपीचन्दनम् ।

तान् दृष्ट्वा वैष्णवान् मत्त्वा वेपन्ते यमकिङ्कराः ॥

19

गोपिकाचन्दनालिप्तललाटान् भुवि मानवान् ।

विलोक्य तु सुराः सर्वे सेवन्ते श्रद्धया सदा ॥

20

गोविन्दो गोमती गङ्गा गोपिकाचन्दनं तथा ।

गीता च भाग्यहीनानां गकाराः पञ्च दुर्लभाः ॥

21

ऊर्ध्वपुण्ड्रं वैष्णवानां गोपिकाचन्दनेन हि ।

विहितं सर्वपापघ्नं वैकुण्ठपददायकम् ॥

22

ये कण्ठलग्नतुलसीनलिनाक्षमाला

ये वा ललाटफलके लसदूर्ध्वपुण्ड्राः ।

ये बाहुमूलपरिचिह्नितशङ्खचक्राः

ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥

23

द्वारकादिनगरीकृतनित्यवासा

ये द्वादशीव्रत पवित्रितदिव्यगात्राः ।

ये विष्णुमूर्तिवरचक्रशिलार्चकाश्च

ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥

24

आकण्ठपीतवरभागवतामृता ये

वैकुण्ठनामपरिकीर्तनलोलुपा ये ।

आनन्दबाष्पपुलकाञ्चितविग्रहा ये

ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे गोपीचन्दनमाहात्म्यम् नाम त्रयोविंशोऽध्यायः ॥
Ch.22 Prathama Bhāge Ch.24