Verses

गोकुलमाहात्म्यम् Gokula Māhātmyam

1

श्रीसद्गुरुरुवाच

वरं हि गोकुलं धाम वैकुण्ठादपि मङ्गलम् ।

यत्र संलालितो विष्णुर्नन्देनापि यशोदया ॥

2

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥

3

कृष्णजन्मोत्सवे गोपा दधिक्षीरघृताम्बुभिः ।

अन्योन्यमभिषिञ्चन्तो नृत्यन्ति प्रेमपूर्वकम् ॥

4

गृहे गृहे रत्नडोला डोलायां बालमाधवः ।

मुखे मुखे कृष्णनाम ह्येतद्गोकुललक्षणम् ॥

5

वात्सल्यप्रेमपूर्णानां नृणां गोकुलवासिनाम् ।

गृहे गृहे च कृष्णस्य बाललीला प्रवर्तते ॥

6

धन्यं हि नन्दभवनं ब्रह्मादिसुरसेवितम् ।

यत्र साक्षात्परं ब्रह्म जानुभ्यामभिरिङ्गति ॥

7

अत्रैव घोरगरलेन च पूतनायाः

प्राणांश्च नन्दशिशुरद्भुतकेलिलोलः ।

पीत्वा ददौ करुणया परमं पदञ्च

तस्यै सदा सकलयोगिभिरर्थनीयम् ॥

8

अत्रैव तं शकटरूपमुपागतञ्च

दैत्यं पदा प्रहरणं कृतवान् मुकुन्दः ।

यत्पादपल्लवयुगं मुनयश्च नित्यं

स्प्रष्टुं रहस्यभिलषन्ति नियम्य चेतः ॥

9

अत्रैव शैशववयः कृतकेलिलोलो

वात्यास्वरूपमसुरं विनिहत्य कृष्णः ।

आकाशतः क्षितितले विनिपात्य गोप-

रामाभिरादरवशादभिचुम्बितास्यः ॥

10

अत्रैव गर्गमुनिरद्भुतबालकस्य

रामस्य चापि निदधे मधुरं हि नाम ।

यन्नामकीर्तनरसं त्वनुभूय भक्ता

वैकुण्ठलोकमपि नैव हि कामयन्ते ॥

11

अत्रैव बालकगणैः सह नन्दसूनु-

श्चौर्यं चकार नवनीतपयोघृतानाम् ।

कुम्भान्निपात्य भवनेषु च लीलयैव-

मारुह्य पीठकमुलूखलमादरेण ॥

12

अत्रैव नन्दगृहिणी व्रजसुन्दरीणां

नित्यं मुखाम्बुजविनिःसृतकृष्णलीलाम् ।

श्रुत्वा बबन्ध निजबालमुलूखले सा

चक्रे कुबेरसुतयोरपि शापमोक्षम् ॥

13

अत्रैव दारकगणैर्विहरन्मुकुन्दो

मृद्भक्षणञ्च कृतवान् कुपितां यशोदाम् ।

आस्यं विदार्य च निजं भुवनञ्च सर्वं

प्रादर्शयत् स्वजठरे जगदेकहेतुः ॥

14

अत्रैव नन्दशिशुकेलिरसं पिबन्त्यो

गोपाङ्गना सुखमनन्तमवाप्नुवन्ति ।

श्रीकृष्णपादसरसीरुहलाञ्छितं त-

च्छ्रीगोकुलं भुवनमण्डलभूषणं हि ॥

15

भोः कृष्णभक्त गोकुलं व्रजमण्डले ।

बालकरूपेण क्रीडति ब्रह्म निर्गुणम् ॥

16

नानासंसारदुःखैश्च सन्तप्तं भुवनत्रयम् ।

एकं हि गोकुलं धाम शीतलं कृष्णलीलया ॥

17

संसारमरुकान्तारसञ्चारश्रमदुःखिताः ।

यूयं गोकुलमाश्रित्य सुखं जीवत वैष्णवाः ॥

18

वात्सल्यप्रेमयुक्तानां श्रीकृष्णे परमात्मनि ।

शरणं गोकुलं धाम नेतरेषां कदाचन ॥

19

मङ्गलं गोकुलं धाम वैष्णवानां मनोहरम् ।

माधवध्यानमग्नानां मधुरं मधुरापुरे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे गोकुलमाहात्म्यम् नाम अष्टादशोऽध्यायः ॥
Ch.17 Prathama Bhāge Ch.19