Verses

हरिद्वारमाहात्म्यम् Haridvāra Māhātmyam

1

श्रीसद्गुरुरुवाच

गिरिकूटान्यतिक्रम्य देवी विष्णुपदी शुभा ।

भूमिं प्रयात्यत्र हरिद्वारे श्रिता जनैः ॥

2

हरिद्वारे यदाऽऽयाता देवी विष्णुपदी शुभा ।

तदेव तीर्थप्रवरं सुराणामपि दुर्लभम् ॥

3

देवाश्च मुनयः सिद्धा गन्धर्वाः किन्नरास्तथा ।

स्नानं कर्तुं हरिद्वारमागच्छन्ति दिने दिने ॥

4

हरिद्वारे हरिं पश्येत्सर्वदेवनमस्कृतम् ।

ब्रह्मरुद्रादिभिः सर्वैः पूजितं मुनिभिस्तथा ॥

5

मायेति भुवि विख्याता पुरी मोक्षप्रदायिनी ।

द्वारं ददाति मर्त्यानां हरिं गन्तुं मृतेः क्षणे ॥

6

पुण्यं कनखलं नाम स्थानमत्र विराजते ।

यत्र चक्रे महायज्ञं पूर्वं दक्ष प्रजापतिः ॥

7

आसीत्प्रजापतेः कन्या सती नाम वरानना ।

ददौ देवाय महते तां कन्यां विधिपूर्वकम् ॥

8

गतो जामातृभावं हि दक्षस्य परमेश्वरः ।

तस्मादवज्ञां संप्राप दक्षो रुद्रे सुगर्वितः ॥

9

कदाचिद्यज्ञशालायां निन्दां चक्रे महेशितुः ।

प्रतस्थे कैलासं भार्यया परमेश्वरः ॥

10

एवं बहुदिने प्राप्ते कदाचिद्दक्षकन्यका ।

आगता पितरं द्रष्टुं पुनर्यज्ञमहोत्सवम् ॥

11

अरुद्रभागं तं यज्ञं दृष्ट्वा दाक्षायणी तदा ।

कुपिता गर्हयन्ती च स्वयमेव बहिर्गता ॥

12

उपेक्षिता स्वपित्रापि शङ्करे विमुखेन सा ।

तस्माज्जातं शरीरं स्वं दग्धुकामा पतिव्रता ॥

13

ध्यायन्ती शिवपादाब्जं दग्ध्वा योगाग्निना वपुः ।

शिवमेव परं प्राप भवानी शिवयोगिनी ॥

14

तदिदं परमं स्थानं ज्वालापुरमिति श्रुतम् ।

यत्र दाक्षायणीदेवी ददाह वपुरुत्तमम् ॥

15

तच्छ्रुत्वा वीरभद्रस्तु दक्षयज्ञमुपागतः ।

शिरश्चिच्छेद दक्षस्य ताडयामास चामरान् ॥

16

दुद्रुवुश्चामरा भीता ब्रह्माणं शरणं ययुः ।

आशुतोषं तोषयितुं पप्रच्छुः साधनं सुखम् ॥

17

नमो नमो नम इति शब्दोच्चारणमात्रतः ।

प्रीणाति भगवाञ्छम्भुः पापानि क्षमते तथा ॥

18

इत्युक्ता ब्रह्मणा देवाः कैलासगिरिमागताः ।

भीतभीता नमश्चक्रुः प्रशान्तं परमेश्वरम् ॥

19

सुप्रसन्नोऽभवच्छम्भुर्देवैः सार्धमुपाययौ ।

यज्ञशालां पुनस्तत्र यजमानं ददर्श च ॥

20

विच्छिन्नशिरसं दृष्ट्वा कृपया चन्द्रशेखरः ।

योजयामास बस्तस्य शिरसा तत्कलेबरम् ॥

21

पुनश्च जीवितो दक्षस्तुष्टाव शशिशेखरम् ।

पापं क्षमापयामास प्रसन्नं परमेश्वरम् ॥

22

चकार यज्ञशेषं च तत्र दक्षः प्रजापतिः ।

पुरोडाशं ददौ होता विष्णवे परमात्मने ॥

23

तदा तत्र हरिः साक्षादाविर्भूतो जनार्दनः ।

दर्शनं प्रददौ तेषां सुराणामपि दुर्लभः ॥

24

शङ्खचक्रधरः श्रीमान्नीलजीमूतसन्निभः ।

पीताम्बरधरः स्रग्वी यज्ञो यज्ञफलप्रदः ॥

25

तं दृष्ट्वा सर्वलोकेशं देवदेवं जनार्दनम् ।

तुष्टाव प्रेमबाष्पेण स्निग्धो दक्षः प्रजापतिः ॥

26

दक्ष उवाच

स्वागतं सर्वदेवेश श्रीनिवास नमोस्तु ते ।

प्रसीदन्ति सुराः सर्वे प्रसन्ने त्वयि माधव ॥

27

त्वामेव यज्ञकर्तारं यज्ञं यज्ञफलप्रदम् ।

यज्ञाराध्यं च यज्ञेशं जानामि न हि संशयः ॥

28

तथापि जायते गर्वो दुःसहस्तव मायया ।

ईश्वरं मन्यमानः स्वं निन्दामि निखिलान् सुरान् ॥

29

त्वदङ्गभूता देवास्तु तेषामात्मा त्वमेव हि ।

भवेत्तवैव निन्दा हि देवतान्तरनिन्दनात् ॥

30

सर्वभूतस्थितं ये त्वां यजन्त्यद्वैतमानसाः ।

अहिंसामययज्ञेन त एव खलु पण्डिताः ॥

31

परस्परं द्वेषयुक्ता डम्भाचारसमन्विताः ।

विषयासक्तहृदयाः काम्यकर्मपरायणाः ॥

32

यज्ञं कुर्वन्ति लोकेस्मिन् मादृशाः पुरुषोत्तम ।

तेषामज्ञानमूढानां श्रम एव हि केवलम् ॥

33

कर्मप्लवं सुदृढं मन्यमानान्

कृपानिधे ज्ञानगतिं प्रदर्श्य ।

समुद्धर त्वं मादृशान् कर्ममूढान्

जगद्गुरो दीनदयानिधे त्वम् ॥

34

श्रीसद्गुरुरुवाच

एवं स्तुतो यज्ञमूर्तिर्दक्षेण प्रेमपूर्वकम् ।

उवाच मधुरं वाक्यं समदर्शी सनातनः ॥

35

श्रीभगवानुवाच

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

अस्माकमल्पभेदोऽपि ननु नास्ति प्रजापते ॥

36

ये मूढा भेदभावेन द्वेषं कुर्वन्ति पापिनः ।

तेषां नरकभोगः स्यादाचन्द्रार्कं न संशयः ॥

37

सर्वत्र समभावेन प्रशान्तो भव सन्ततम् ।

वासुदेवः सर्वमिति भावयन् ज्ञानचक्षुषा ॥

38

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुस्तत्रैवान्तर्दधे हरिः ।

शिवोऽपि सान्त्वयामास दक्षं शरणमागतम् ॥

39

सती च हिमवत्पुत्री भूत्वा स्वच्छन्दमीश्वरी ।

भक्त्या च तपसा रुद्रं पुनः प्राप महेश्वरम् ॥

40

मायापुरमिदं लोके हरिद्वारमिति श्रुतम् ।

यत्र क्रीडति गङ्गा सा सानन्दं भुवमागता ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे हरिद्वारमाहात्म्यम् नाम अष्टमोऽध्यायः ॥
Ch.07 Prathama Bhāge Ch.09