Verses

श्रीकूर्मक्षेत्रमाहात्म्यम् Śrī Kūrma Kṣetra Māhātmyam

1

भागवता ऊचुः

श्वेतराजस्य चरितं वद वैष्णवपुङ्गव ।

यस्य भक्त्या प्रसन्नात्मा श्रीकूर्मो दर्शनं ददौ ॥

2

श्रीसद्गुरुरुवाच

श्वेतराज इति ख्यातो राजाऽऽसीद्धर्मरक्षकः ।

तत्पत्नी सुन्दरी साध्वी नाम्ना चापि सुलोचना ॥

3

कूर्मनाथपदाम्भोजभ्रमरायितमानसा ।

नित्यमाराधयामास वैष्णवान् विष्णुमेव सा ॥

4

स्नात्वाऽप्यमृततीर्थे सा नित्यकर्म समाप्य च ।

अश्वत्थं च परिक्रम्य नागराजं तटस्थितम् ॥

5

पूजयन्ती श्रद्धयैव ब्राह्मणान् वेदपारगान् ।

दानानि दत्त्वा विनता विष्णुप्रीत्यै दिने दिने ॥

6

आलयं सुन्दरं दिव्यं प्रविश्य विधिपूर्वकम् ।

गोविन्ददर्शनं कृत्वा पूजयित्वा यथाविधि ॥

7

भूयो याति निजं वेश्म परिवारसमन्विता ।

सायं च दीपमालां च करोति हरिसन्निधौ ॥

8

एवमेकान्तमनसा विष्णुभक्तिं चकार सा ।

एकादशीव्रतपरा विरक्ता विजितेन्द्रिया ॥

9

एकादशीव्रते प्राप्ते कदाचित् स महीपतिः ।

आजगाम महाराज्ञीं रजन्यां कामलालसः ॥

10

तदा भीता महाराज्ञी विनीता विहिताञ्जलिः ।

प्रणम्य नृपतिं भक्त्या बभाषे बाष्पलोचना ॥

11

सुलोचनोवाच

एकादशीव्रतं राजन् करोमि नियतेन्द्रिया ।

व्रतभङ्गं महत्पापं मा कुरु प्राणवल्लभ ॥

12

श्वेतराज उवाच

ऋतुकालप्रतीक्षोऽहं रतिकामः सुलोचने ।

पत्युः किल महत्पापं ऋतुकालातिवर्तनम् ॥

13

सुलोचनोवाच

एकादश्यां पितृदिने शिवरात्र्यां महीपते ।

निषेद्ध्यते निषेको हि मुनिभिः शास्त्रकारिभिः ॥

14

श्वेतराज उवाच

अलं शास्त्रविचारेण धर्मेण नियमेन च ।

आगतोऽस्मि प्रिये सोहं नितरां कामपीडितः ॥

15

सुलोचनोवाच

कामः क्रोध एष रजोगुणसमुद्भवः ।

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥

16

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

17

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ ।

विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥

18

तस्मात्कामं परित्यज्य विरक्तो विजितेन्द्रियः ।

विष्णुभक्तिं कुरु स्वामिन् मोक्षकामो महीपते ॥

19

श्वेतराज उवाच

प्रत्यक्षं परमं दैवं सतीनां पतिरेव हि ।

मामतिक्रम्य ते भार्ये व्रतमात्रेण किं फलम् ॥

20

सुलोचनोवाच

शिष्याणां गुरवो दैवं प्रजानां नृपतिस्तथा ।

सतीनां च पतिर्दैवं पुत्राणां पितरौ तथा ॥

21

तेषु तेषां पूज्यबुद्धिं बोधयन्ति महर्षयः ।

न वारयन्ति तेषां तु साक्षाद्विष्णौ मतिं नृप ॥

22

विष्णुरेव पिता माता भर्ता भ्राता गुरुस्तथा ।

राजाधिराजः सर्वेषां सर्वबन्धुर्न संशयः ॥

23

मुख्यधर्मो नराणां तु सततं विष्णुसेवनम् ।

तद्भक्त्यास्त्वविरोधेन कुर्यादन्यन्महीपते ॥

24

श्वेतराज उवाच

कालक्षेपो न कर्तव्यो निशेयमतिवर्तते ।

कामं पूरय मे क्षिप्रं काम एव परो मम ॥

25

सुलोचनोवाच

कालक्षेपो न कर्तव्यः क्षीणमायुः क्षणे क्षणे ।

यमस्य करुणा नास्ति कर्तव्यं हरिकीर्तनम् ॥

26

क्वेदं कलेवरं तुच्छं कृमिविट्भस्मसंज्ञितम् ।

आत्मा ज्ञानमयः शुद्धो विचारं कुरु भूपते ॥

27

शरीरमिन्द्रियाण्येवं मनः संसारकारणम् ।

सन्त्यज्य सर्वथा विष्णुं शरणं याहि भूपते ॥

28

दुर्लभं मानुषं जन्म मुमुक्षुत्वं सुदुर्लभम् ।

बहूनां जन्मनामन्ते ज्ञानवान् भवति प्रभो ॥

29

ज्ञानहीनः पशुर्मर्त्यः सन्ततं कामलालसः ।

पशुबुद्धिमिमां त्यक्त्वा विवेकं वर्धयामलम् ॥

30

श्रीसद्गुरुरुवाच

इति पत्न्या महाराजो बोधितः प्रेमपूर्वकम् ।

विरक्तिं विषये विष्णो भक्तिं च प्राप तत्क्षणात् ॥

31

पश्चात्तापमवाप्याथ दृढवैराग्यसंयुतः ।

श्री कूर्मक्षेत्रमागत्य तपश्चक्रे महीपतिः ॥

32

भगवानादिकूर्मश्च प्रददौ निजदर्शनम् ।

शालग्रामशिलारूपी पृष्ठे चक्रान्वितः स्वयम् ॥

33

तस्य कृत्वा महाराजो मन्दिरं बहुसुन्दरम् ।

कारयामास पूजां च वैष्णवैर्विप्रसत्तमैः ॥

34

अवाप मोक्षं पत्न्या च सार्धं वैष्णवसेवया ।

तदिदं परमं क्षेत्रं पवित्रं पापनाशनम् ॥

35

अद्यापि दृश्यते लोके तीरे पूर्वमहोदधेः ।

नीलाचलसमीपे तु क्षेत्रं विष्णुसमाश्रितम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीकूर्मक्षेत्रमाहात्म्यम् नाम अध्यायः ॥
Ch.29 Prathama Bhāge Ch.31