Verses

शङ्खोद्धारमाहात्म्यम् Śaṅkhoddhāra Māhātmyam

1

भागवता ऊचुः

मधुरायाश्च माहात्म्यं तथा वृन्दावनस्य च ।

गोकुलस्य च माहात्म्यं तथा गोवर्धनस्य च ॥

2

गोविन्दस्य च माहात्म्यं यमुनायाश्च सद्गुरो ।

आकर्ण्य सुप्रसन्नाः स्मः कृष्णविन्यस्तमानसाः ॥

3

द्वारकायाश्च माहात्म्यं महापातकनाशनम् ।

वयं तु श्रोतुमिच्छामः परं कौतूहलं हि नः ॥

4

यत्रैव निवसन् कृष्णो वासुदेवो जगत्पतिः ।

नानाकेलिकलासक्तः सर्वं जगदपालयत् ॥

5

श्रीसद्गुरुरुवाच

वक्ष्यामि तां पुण्यकथां मुरारेः ।

श्रीद्वारवत्यां रचितां पवित्राम् ।

यां श्रोतुमिच्छन्ति सुराश्च नित्यं ।

सभान्तरे ब्रह्मशिवादयश्च ॥

6

अथोपनीतो भगवान् मुकुन्दो

रामेण सार्धं निजधर्मपालः ।

सान्दीपनेराश्रममाससाद

क्रमेण वेदाध्ययनं विधातुम् ॥

7

रामेण सार्धं सुहृदा सुदाम्ना

तथान्यबालैः सह वासुदेवः ।

पठंश्च शास्त्राणि चकार नित्यं

सान्दीपनेः सेवनमादरेण ॥

8

क्षिप्रा नदीतीरमुपेत्य नित्यं

संपादयामास तथेन्धनानि ।

वन्यानि मूलानि फलानि कृष्णः

स्वाचार्यकैङ्कर्यधुरन्धरोऽसौ ॥

9

गोविन्दपादाब्जपरागपूतां

पुरातनीं तां नगरीमवन्तीम् ।

स्तुवन्ति सर्वे विबुधा बुधाश्च

धन्यां नितान्तं भुवनत्रयेऽपि ॥

10

शिवो महाकालवपुर्धरोऽस्ति

शक्तिर्महाकाल्यपि वर्ततेऽत्र ।

तथापि कृष्णस्य हि वासमात्रा-

ज्जयत्यसावुज्जयिनी त्रिलोकीम् ॥

11

वासं नगर्यां रचयन्नवन्त्यां

रामानुजो वेदमधीत्य सर्वम् ।

संचोदयामास गुरुं च भक्त्या

स्वच्छन्दगामी प्रियदक्षिणार्थम् ॥

12

पुत्रं समुद्रे विनिपत्य नष्टं

पुनर्ययाचे निजदक्षिणां सः ।

आहर्तुकामो भगवान् प्रतस्थे

रामेण सार्धं रमणीयवेषः ॥

13

आज्ञापयामास ततः समुद्र-

मानेतुमेवं गुरुपुत्रमीशः ।

विज्ञापयामास तदा समुद्रो

महासुरं पञ्चजनं शिशुघ्नम् ॥

14

हत्वा च तं पञ्चजनं शिरःस्थं

हृत्वा च शङ्खं यमलोकमेत्य ।

श्रीपाञ्चजन्यं वदने निधाय

निनादयामास ततो मुकुन्दः ॥

15

आकर्ण्य शङ्खध्वनिमागतं त-

माज्ञापयामास जगन्नियन्ता ।

अभ्यर्च्य कृष्णं प्रददौ च पुत्रं

कृताञ्जलिर्हन्त कृतान्त एषः ॥

16

पुनश्च दत्वा गुरवे कुमारं

लब्ध्वा तदाशीर्वचनं मुकुन्दः ।

रामेण सार्धं मधुरामवाप

वेदान्तवेद्यो वसुदेवसूनुः ॥

17

तदिदं परमं क्षेत्रं शङ्खोद्धारमिति स्मृतम् ।

यत्र पञ्चजनं हत्वा शङ्खमुद्धृतवान् हरिः ॥

18

शङ्खपाणिं विलोक्यात्र श्रीनाथं द्वारकापतिम् ।

लाभस्तेषां जयस्तेषां सर्वत्र न हि संशयः ॥

19

गुरवे पुत्रदानं च यः पठेद्भक्तिसंयुतः ।

आयुष्मन्तमवाप्नोति पुत्रं सान्दीपनिर्यथा ॥

20

कोटयो ब्रह्महत्यानां गोहत्यानां च कोटयः ।

गोमतीसङ्गमे स्नात्वा सद्यो नाशमवाप्नुयात् ॥

21

गोमतीसङ्गमे कृष्णं शङ्खपाणिं जनार्दनम् ।

यः पूजयेन्नरो भक्त्या तस्य कालभयं न हि ॥

22

अकालमृत्युहरणं सर्वपापविनाशनम् ।

गोमतीसङ्गमे कृष्णदर्शनं परमं शुभम् ॥

23

शङ्खोद्धारं नरो गत्वा समुद्रस्नानमाचरेत् ।

शतजन्मकृतं पापं सद्य एव विनश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे शङ्खोद्धारमाहात्म्यं नाम एकविंशोऽध्यायः ॥ ॥
Ch.20 Prathama Bhāge Ch.22