Verses

काशीमाहात्म्यम् Kāśī Māhātmyam

1

श्रीसद्गुरुरुवाच

तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः ।

तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीम् ॥

2

यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम् ।

गङ्गायां तु कृतं नित्यं कोटिकोटिगुणं भवेत् ॥

3

गङ्गायां पिण्डदानेन पितॄणां च तिलोदकैः ।

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥

4

परदारपरद्रव्यपरबाधापरस्य च ।

गतिर्मनुष्यमात्रस्य गङ्गैव परमा गतिः ॥

5

वेदशास्त्रविहीनस्य गुरुनिन्दापरस्य च ।

समाचारहीनस्य नास्ति गङ्गासमा गतिः ॥

6

यस्तु गङ्गां समाश्रित्य सुखं तिष्ठति मानवः ।

जीवन्मुक्तः स एवेह सर्वेषामुत्तमोत्तमः ॥

7

धन्या जानपदा ये च पशवः पक्षिकीटकाः ।

स्थावरा जङ्गमाश्चान्ये गङ्गातीरसमाश्रिताः ॥

8

गङ्गास्नानाय सङ्गच्छन् पथि संम्रियते यदि ।

स च स्वर्गमवाप्नोति गङ्गास्नानफलं लभेत् ॥

9

जाह्नवीं ये च निन्दन्ति पाषण्डैर्हृतचेतसः ।

ते यान्ति नरकं घोरं पुनरावृत्तिदुर्लभम् ॥

10

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥

11

परं गुह्यतमं क्षेत्रं भुवि वाराणसी पुरी ।

सर्वेषामेव भूतानां संसारार्णवतारिणी ॥

12

जन्मान्तरसहस्रेषु यत्पापं पूर्वसञ्चितम् ।

अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥

13

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसङ्कराः ।

स्त्रियो म्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥

14

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।

कालेन मरणं प्राप्ताः काश्यां मुक्ता भवन्ति ते ॥

15

न विमुञ्चति विश्वेश्वरः प्रलयेऽपि कदाचन ।

तस्मादेतत्परं क्षेत्रमविमुक्तमिति श्रुतम् ॥

16

अस्याश्च वरणायाश्च गङ्गायां सङ्गमान्तरे ।

स्थितेयं नगरी पुण्या वारणासी ततः स्मृता ॥

17

प्रकाशते ज्ञानमस्यां विश्वेश्वरकृपाबलात् ।

तस्मात्काशीति विख्याता चाश्रिता च मुमुक्षुभिः ॥

18

आनन्दकाननं नाम प्रसिद्धं भुवनत्रये ।

यत्र विश्वेश्वरो देवः पार्वत्या सह मोदते ॥

19

महाश्मशानमित्येतन्महापातकनाशनम् ।

यत्रैव मृतिमात्रेण जन्तुर्मोक्षमवाप्नुयात् ॥

20

अग्निबिन्दुरिति ख्यातस्तपश्चक्रे महामुनिः ।

अविमुक्ते महाक्षेत्रे माधवध्यानतत्परः ॥

21

नीरमात्राशनो योगी कृष्णध्यानपरायणः ।

गङ्गातीरे वसन्नत्र जजाप द्वादशाक्षरीम् ॥

22

दामोदरस्तु दयया तस्य दृष्टिपथं ययौ ।

शङ्खचक्रगदापाणिः शरणागतवत्सलः ॥

23

मन्दस्मितमुखाम्भोजो माधवो भक्तवत्सलः ।

पीताम्बरधरः श्रीमान् कौस्तुभामुक्तकन्धरः ॥

24

तं दृष्ट्वा सर्वलोकेशं बाष्पसिक्तविलोचनः ।

प्रणम्य शिरसा विष्णुमग्निविन्दुर्जगाद सः ॥

25

अग्निबिन्दुरुवाच

यत्पादपद्ममकरन्दमयी तु गङ्गा ।

पापानि संहरति कीर्तनमात्रतोऽपि।

तं लोकनाथमनघं परमं पवित्रं ।

विष्णुं त्रिविक्रममहं शरणं भजामि ॥

26

यन्नामकीर्तनबलात्परमेश्वरोऽपि

मुक्तिं ददाति कृपया सहसा मृतानाम् ।

सर्वेश्वरं सरसिजायतलोचनं तं

संसारतारकमहं शरणं भजामि ॥

27

नारायणेति नरकार्णवतारणेति

दामोदरेति मधुसूदन माधवेति ।

विश्वम्भरेति सततं जपतां नराणां

प्राणप्रयाणसमये न कृतान्तभीतिः ॥

28

श्रीवत्सलाञ्छन हरेऽच्युत शार्ङ्गपाणे

गोविन्द तार्क्ष्यरथ केशव चक्रपाणे ।

लक्ष्मीपते नरकसूदन शङ्खपाणे

त्वद्भक्तिमेव मम देहि कृपाम्बुराशे ॥

29

वाचि नाम तव कामदमब्जनेत्र

यच्छ्रोत्रयोस्तव कथामधुराक्षराणि ।

यच्चित्तभित्तिलिखितं भवतः स्वरूपं

धन्यास्त एव भुवि भक्तवरास्त्वदीयाः ॥

30

प्राणप्रयाणसमये तव चिन्तनं हि

मुक्तिं ददाति किल माधव दीनबन्धो ।

कः शक्नुयाद्यमभटैः कुपितैर्गृहीतः

स्मर्तुं तवैव चरणं यमपाशबद्धः ॥

31

विश्वेश्वरः सकलजीवगणैकबन्धुः

प्राणप्रयाणसमये स्वयमागतोऽत्र ।

कर्णे त्वदीयभवतारकनामधेयं

गीत्वा ददाति सहसा परमां विमुक्तिम् ॥

32

तस्माद्विधेहि मरणं मम काशिपुर्यां

वासं च केशव सदा मरणान्तमेवम् ।

वा मास्तु मरणं भुवि यत्र कुत्र

त्वच्चिन्तनं मम विधेहि मृतेः क्षणेऽपि ॥

33

श्रीभगवानुवाच

अग्निबिन्दो मुनिश्रेष्ठ स्थास्याम्यहमिह ध्रुवम् ।

काश्यां मृतिमतां पुंसां मुक्तिमार्गं समादिशन् ॥

34

न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः ।

न नूनं लभ्यते मोक्षः काश्यां तु मृतिमात्रतः ॥

35

कलौ कलिमलध्वंसी ज्ञेयोऽहं बिन्दुमाधवः ।

कलौ कल्मषसंपन्ना न मां विन्दन्ति मानवाः ॥

36

ममैव मायया मूढा भेदवादपरायणाः ।

मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषन्ति वै ॥

37

विद्विषो मम ते ज्ञेयाः पैशाचीं गतिमाप्नुयुः ।

विश्वेशानुग्रहादेव ततो मोक्षमवाप्नुयुः ॥

38

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् सद्यो बिन्दुमाधवरूपधृक् ।

आस्ते गङ्गातटे काश्यां चक्रतीर्थसमीपतः ॥

39

चक्रतीर्थसमीपे तु वर्तते मणिकर्णिका ।

यस्यां स्नानैकमात्रेण विष्णुलोकमवाप्नुयात् ॥

40

गायं गायं मधुरमधुरं रामरामेति नाम

ध्यायं ध्यायं मनसि विमले तारकब्रह्मरूपम् ।

जल्पन् जल्पन् प्रकृतिविकृतौ प्राणिनां कर्णमूले

वीथ्यां वीथ्यामटति जटिलः कोऽपि काशीनिवासी ॥

41

विश्वेशं माधवं डुण्डिं दण्डपाणिं च भैरवम् ।

वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे काशीमाहात्म्यं नाम दशमोऽध्यायः ॥
Ch.09 Prathama Bhāge Ch.11