Verses

शालग्राममाहात्म्यम् Śālagrāma Māhātmyam

1

श्रीसद्गुरुरुवाच

शालग्रामस्य माहात्म्यं वक्ष्यामि परमं शुभम् ।

यस्य श्रवणमात्रेण महत्पापं विनश्यति ॥

2

गण्डकी नाम देवी सा नदीनामुत्तमा नदी ।

देवर्षिगणसंसेव्या महापातकनाशिनी ॥

3

स्तम्भोद्भवं नृसिंहञ्च मत्स्यं जातं महोदधौ ।

कौसल्यातनयं रामं गोविन्दं देवकीसुतम् ॥

4

रामञ्च रेणुकासूनुं व्यासं सत्यवतीसुतम् ।

रामञ्च रौहिणेयं तं कपिलं देवहूतिजम् ॥

5

अनसूयासुतं दत्तं नरनारायणावृषी ।

धर्मस्य मूर्त्यां सञ्जाताववतारांस्तथा परान् ॥

6

आविर्भूतांस्तत्र तत्र स्वयमेव धरातले ।

मातृसौख्यप्रदान् दिव्यान् विष्णोर्नारायणस्य तान् ॥

7

विज्ञाय गण्डकी देवी चकार सुमहत्तपः ।

वात्सल्यभावसंयुक्ता वासुदेवे जगद्गुरौ ॥

8

तृणपर्णाशना चैवं नीरमात्राशना तथा ।

वाताशनाऽभवद्भूयस्तस्थौ निरशना तथा ॥

9

अष्टाक्षरं जपन्ती सा द्रष्टुकामा श्रियःपतिम् ।

दध्यौ च हृदयाकाशे हरिं मीलितलोचना ॥

10

तस्या भक्तिं विलोक्यैव स्वतन्त्रोऽपि वशं गतः ।

भगवान् वासुदेवस्तु ब्रह्मरुद्रादिदुर्लभः ॥

11

श्रीभगवानुवाच

वरं वृणीष्व भद्रं ते वरदोऽहमुपस्थितः ।

तपसा सुप्रसन्नात्मा तापसानाञ्च दुर्लभः ॥

12

तव वात्सल्यभावेन प्रेम्णा च वशमागतः ।

जातं ते मयि वात्सल्यं सर्वलोकेश्वरेश्वरे ॥

13

गण्डक्युवाच

एष मे परमः कामो देवदेव जगत्पते ।

त्वामेव पुत्रं संप्राप्तुं तपः कृतमिदं प्रभो ॥

14

एवं जायमानोऽपि बहुधा जायसे प्रभो ।

लोके धर्मस्य रक्षार्थं स्वच्छन्दं तव मायया ॥

15

मत्स्यकूर्मवराहादिरूपाणि च धृतानि हि ।

पुरा लोकस्य रक्षार्थं स्वच्छन्दं मायया त्वया ॥

16

तानि सर्वाणि रूपाणि मम गर्भे जनार्दन ।

धर्तुमिच्छामि गोविन्द पुत्रो मे भव माधव ॥

17

कौसल्यायाश्च यद्भाग्यं देवक्याश्च तथा हरे ।

तथान्यासाञ्च मातृणां यद्भाग्यं तव जन्मभिः ॥

18

तदेव सर्वं भाग्यं मे देहि देवनियामक ।

मया कृतं तपः स्वल्पं महती करुणा तव ॥

19

अन्तर्हितानि रूपाणि यानि यानि जनार्दन ।

तानि तान्येव भूयस्त्वमाविष्कुरु मयि प्रभो ॥

20

अर्चा विधाय बहुधा प्राप्स्यन्ति परमां गतिम् ।

श्रीमूर्तिषु तव स्वामिन् भक्तिपूर्वं द्विजोत्तमाः ॥

21

श्रीभगवानुवाच

एवमस्तु महाभागे जननी त्वं नमोस्तु ते ।

ग्रावरूपेण जातोऽस्मि बहुधा न हि संशयः ॥

22

धृतानि यानि रूपाणि मया पूर्वं सहस्रशः ।

तानि सर्वाणि दिव्यानि त्वयि पश्य नदीवरे ॥

23

मत्स्यं कूर्मं वराहञ्च नरसिंहं हयाननम् ।

दत्तं व्यासञ्च कपिलमृषभं पृथुमेव च ॥

24

सङ्कर्षणं वासुदेवं प्रद्युम्नञ्च सुदर्शनम् ।

अनिरुद्धं भार्गवञ्च नरं नारायणं तथा ॥

25

लक्ष्मीनारायणञ्चापि शिवनारायणं तथा ।

हंसं परमहंसञ्च श्रीधरं केशवं तथा ॥

26

त्रिविक्रमं वामनञ्च पद्मनाभमधोक्षजम् ।

यज्ञं यज्ञेश्वरञ्चापि हृषीकेशं जनार्दनम् ॥

27

दामोदरं जगन्नाथं विष्णुञ्च मधुसूदनम् ।

रामञ्च कौसलेयञ्च जानकीवल्लभं तथा ॥

28

एकचक्रं त्रिचक्रञ्च षट्चक्रं चापि राघवम् ।

पट्टाभिरामं कोदण्डपाणिञ्च वनमालिनम् ॥

29

कृष्णं सन्तानगोपालं गोपालं रुक्मिणीपतिम् ।

राधापति गोपिकेशं गोवर्धनधरं तथा ॥

30

गोविन्दं यमुनालोलं वृन्दावनविहारिणम् ।

बलभद्रं रौहिणेयं यशोदानन्दनं तथा ॥

31

द्वारकेशं द्वारशिलां द्रौपदीमानरक्षकम् ।

पार्थञ्च पार्थदूतञ्च पार्थसारथिमच्युतम् ॥

32

हिरण्यगर्भं श्रीगर्भं रत्नगर्भं तथा हरिम् ।

अनन्तञ्च मुकुन्दञ्च बुद्धञ्च पुरुषोत्तमम् ॥

33

सहस्रचक्रं निश्चक्रं शिपिविष्टं सनातनम् ।

शङ्खपाणिं शार्ङ्गपाणिं पद्मपाणिं गदाधरम् ॥

34

कल्किञ्च कलिदोषघ्नं जगत्कल्याणकारिणम् ।

एवं नानाविधं रूपं पश्य देवि मया धृतम् ॥

35

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुर्धृत्वा रूपं सहस्रशः ।

आविर्बभूव गोविन्दः शालग्रामशिलामयः ॥

36

तदिदं तु महाक्षेत्रं मुक्तिनाथाह्वयं परम् ।

यस्य श्रवणमात्रेण सुलभं परमं पदम् ॥

37

न क्षीराब्धौ न वैकुण्ठे न ह्येवं सूर्यमण्डले ।

शालग्रामशिलाचक्रे नित्यं वसति केशवः ॥

38

न प्रीणाति जगन्नाथः केवलं बिम्बपूजया ।

यथा प्रीणाति गोविन्दः शालग्रामशिलार्चनात् ॥

39

कोटियज्ञफलं वापि कोटितीर्थफलं तथा ।

शालग्रामार्चनस्यास्य कलां नार्हति षोडशीम् ॥

40

नावाहनमुपस्थानं वासुदेवो ह्यपेक्षते ।

शालग्रामः स्वयं व्यक्तो विष्णुरेव न संशयः ॥

41

नित्यं पुण्यनदीतोये प्रातः स्नात्वा यथाविधि ।

शालग्रामार्चनं कुर्याच्छ्रद्धया ब्राह्मणोत्तमः ॥

42

गोक्षीरेणाभिषिञ्चन् शालग्राममयं हरिम् ।

गोविन्दभक्तो भूत्वाऽयं याति गोलोकमुत्तमम् ॥

43

पञ्चामृतेन यो नित्यमभिषिञ्चेद्द्विजोत्तमः ।

शालग्रामं श्रद्धयैवं मुच्यते पञ्चपातकात् ॥

44

तुलसीदलमात्रेण गङ्गायाश्चुलकेन वा ।

शालग्रामेऽर्चितो विष्णुर्भक्तस्य वशगो भवेत् ॥

45

शालग्रामाभिषिक्तं तु तीर्थं यः श्रद्धया पिबेत् ।

महापातकयुक्तोऽपि सद्यः पूतो भवेन्ननु ॥

46

नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ।

शालग्रामपयोमात्रप्राशनेन न संशयः ॥

47

पाषण्डिनाञ्च शूद्राणां स्त्रीणां चानुपवीतिनाम् ।

शालग्रामशिलास्पर्शे नाधिकारो हि विद्यते ॥

48

शालग्रामशिलां त्यक्त्वा गृहे मूढमतिर्द्विजः ।

तीर्थयात्रां प्रकुर्वाणो न तीर्थफलमाप्नुयात् ॥

49

शालग्रामार्चनं त्यक्त्वा यो भुङ्क्ते नित्यमोदनम् ।

गोमांसमेव भुङ्क्ते स प्राप्नुयान्नरकं ध्रुवम् ॥

50

शालग्रामार्चनं कर्तुमशक्तो यदि दुःखितः ।

वैष्णवायैव विप्राय दद्याद्विनयपूर्वकम् ॥

51

कोटिकन्याप्रदानञ्च कोटिगोदानमेव च ।

शालग्रामप्रदानेन न साम्यं क्वचिदाप्नुयात् ॥

52

शालग्रामं तथा भिन्नं न कदाचन वर्जयेत् ।

वात्सल्यपूर्णा माता तु यथा भिन्नकरं शिशुम् ॥

53

महापापानि नश्यन्ति शालग्रामशिलार्चनात् ।

दर्शनात्स्पर्शनाच्चापि श्रवणात्कीर्तनात्तथा ॥

54

शालग्रामशिलां त्यक्त्वा यो बिम्बं पूजयेद्धरेः ।

न प्रीणाति जगन्नाथः केशवो भक्तवत्सलः ॥

55

नित्यं पुरुषसूक्तेन द्वादशाक्षरविद्यया ।

अष्टाक्षरेण गायत्र्या शालग्रामं तु पूजयेत् ॥

56

अधिकारो द्विजानां हि शालग्रामशिलार्चने ।

अन्येषां तीर्थपानेन तत्फलं सिद्ध्यति स्वयम् ॥

57

अवैष्णवानां विप्राणामधिकारो न विद्यते ।

शालग्रामशिलापूजां कर्तुं क्वापि कदाचन ॥

58

कर्तव्यं वैष्णवैर्नित्यं शालग्रामशिलार्चनम् ।

विहितं नित्यकर्मेतत्तत्त्यक्त्वा पतितो भवेत् ॥

59

सन्ध्यामुपासनं नित्यं शालग्रामशिलार्चनम् ।

ब्रह्मयज्ञं वैश्वदेवमातिथ्यञ्च समाचरेत् ॥

60

अन्यथा ब्रह्मजन्मापि पाषण्डी पतितो भवेत् ।

आचारहीनं विप्रं तं विद्याच्चण्डालमेव हि ॥

61

शालग्रामशिलाचक्रे नित्यं केशवपूजनात् ।

प्राप्नोति वैष्णवो नूनं तद्विष्णोः परमं पदम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे शालग्राममाहात्म्यम् नाम त्रयोदशोऽध्यायः ॥
Ch.12 Prathama Bhāge Ch.14