Verses

बदरिकाश्रममाहात्म्यम् Badarikāśrama Māhātmyam

1

भागवता ऊचुः

बदरीवनमाहात्म्यं वद सद्गुरुपुङ्गव ।

नरनारायणौ यत्र कुरुवाते सुमहत्तपः ॥

2

तयोश्च श्रोतुमिच्छामश्चरितं परमाद्भुतम् ।

सर्वपापहरं पुण्यं ज्ञानभक्तिप्रदायकम् ॥

3

श्रीसद्गुरुरुवाच

ब्रह्मपुत्रस्य दक्षस्य मूर्तिरासीत्सुता पुरा ।

तां ददौ हि धर्माय दक्षो धर्मविदां वरः ॥

4

धर्मस्य भवति ग्लानिर्यस्य यस्य यदा यदा ।

तस्य तस्य स्थापनाय तत्तद्रूपो भवेद्धरिः ॥

5

सांख्यधर्मस्य रक्षार्थं भगवान् कपिलोऽभवत् ।

योगधर्मस्य रक्षार्थं दत्तात्रेयोऽभवत्पुरा ॥

6

शास्त्रसंरक्षणार्थं हि व्यासोऽभवदधोक्षजः ।

राजधर्मस्य रक्षार्थं रामः कृष्णोऽभवत्प्रभुः ॥

7

एवं वैष्णवधर्मस्य रक्षार्थं भगवान् हरिः ।

अवतारमिमं चक्रे नरनारायणात्मकम् ॥

8

धर्मस्य मूर्त्यां जायायामवतीर्णो हरिः स्वयम् ।

नरनारायणश्चेति रूपद्वयधरोऽच्युतः ॥

9

भ्रातरौ तौ महात्मानौ नरनारायणावृषी ।

उपनीतौ यथाशास्त्रं निगमागमपारगौ ॥

10

जटाकमण्डलुधरौ वल्कलाम्बरधारिणौ ।

ऊर्ध्वपुण्ड्रधरौ शुद्धौ सुन्दरौ कमलेक्षणौ ॥

11

हिमाचलप्रदेशेषु चरन्तौ मुनिपुङ्गवौ ।

तीरेऽप्यलकनन्दायाश्चरन्तौ मुनिभिः सह ॥

12

बदरीवनमासाद्य तत्र निर्माय चाश्रमम् ।

लोकक्षेमाय सानन्दं कुरुवाते सुमहत्तपः ॥

13

तदा नारायणमृषिं प्रणिपत्य नरो मुनिः ।

पप्रच्छ श्रद्धया भक्त्या विनीतो विहिताञ्जलिः ॥

14

नर उवाच

मोक्षमार्गं मम ब्रूहि भगवन् कृपया प्रभो ।

संसारार्णवमग्नस्य नानादुःखाकुलस्य च ॥

15

कर्माधीनस्य जीवस्य कथमुत्तारणं भवेत् ।

सर्वं त्वमेव जानासि शास्त्रार्थं न हि संशयः ॥

16

नारायण उवाच

नानाविधानि कर्माणि कृत्वा लोके पुनः पुनः ।

जायते म्रियते जीवः कालकर्मवशानुगः ॥

17

कर्मणां तारतम्येन तारतम्यं हि जन्मसु ।

तारतम्यं सुखे दुःखे दृश्यते मुनिपुङ्गव ॥

18

क्वचिद्देवः क्वचिन्मर्त्यः क्वचिद्वृक्षः क्वचित्तृणम् ।

क्वचित्पशुः क्वचित्पक्षी क्वचिद्दीनः क्वचित्प्रभुः ॥

19

क्वचित्सुखं क्वचिद्दुःखं क्वचिच्चिन्ता क्वचिद्भयम् ।

क्वचिन्मृतिः क्वचिज्जन्म क्वचिद्रोगः क्वचिज्जरा ॥

20

एवमुच्चावचत्वं हि दृष्ट्वा कर्मफलेष्वपि ।

विरक्तो विमुखो लोके सद्गुरुं शरणं भजेत् ॥

21

श्रोत्रियं ब्रह्मनिष्ठं च वासुदेवपरायणम् ।

शरण्यं सर्वजीवानां दयालुं सद्गुरुं भजेत् ॥

22

तत्र भागवतान् धर्माञ्छिक्षेद्गुर्वात्मदैवतः ।

त्यक्त्वा भागवतं धर्मं कलौ नान्यत्परायणम् ॥

23

संप्राप्य पञ्चसंस्कारान् भूत्वा श्रीवैष्णवोत्तमः ।

नमो नारायणायेति जपेन्मन्त्रं सनातनम् ॥

24

नरा जीवास्तथा तेषां निकरो नारमुच्यते ।

अयनं शरणं विद्धि तेन नारायणः स्मृतः ॥

25

नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।

नारायणः परं ज्योतिरात्मा नारायणः परः ॥

26

नारायणपरा वेदा देवा नारायणाङ्गजाः ।

नारायणो हि सर्वेषामन्तर्यामी न संशयः ॥

27

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।

जङ्गमस्थावरं चेदं नारायणमयं जगत् ॥

28

आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥

29

अनामरूपं चिन्मात्रं परमं ब्रह्म शाश्वतम् ।

नारायणाख्यं वेदेषु सर्वत्र प्रतिपाद्यते ॥

30

साकारं सगुणं भाति तदेव ब्रह्म शाश्वतम् ।

उपासकानां सुगमं शरण्यं दैवतं परम् ॥

31

शङ्खचक्रधरं देवं श्रीवत्साङ्कितवक्षसम्

32

पीताम्बरधरं विष्णुं पुराणं पुरुषोत्तमम् ।

चतुर्भुजं परं शान्तं मेघश्यामलविग्रहम् ॥

33

हृत्पुण्डरीकमध्यस्थं प्रसन्नं करुणार्णवम् ।

ध्यायन्नष्टाक्षरं मन्त्रं जपेद्भागवतोत्तमः ॥

34

जपात्सिद्धिर्जपात्सिद्धिर्जपात्सिद्धिर्न संशयः ।

अश्रद्दधानाः मूढास्तु विनश्यन्त्यलसा नराः ॥

35

यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ।

किमन्यच्छ्रद्धया साध्यं विष्णुभक्तिं विना कलौ ॥

36

साधनान्तरसंयुक्ता भक्तिमार्गपराङ्मुखाः ।

अनेकजन्मसंसिद्धास्ततो यान्ति परं पदम् ॥

37

प्रपत्तिमार्गसुलभं भावयन्तो हरिं परम् ।

अष्टाक्षरेण मन्त्रेण सद्यो मुक्तिमवाप्नुयुः ॥

38

अष्टाक्षरपराणां तु वैष्णवानां महात्मनाम् ।

नारायणं प्रपन्नानां पुनर्जन्म न विद्यते ॥

39

नान्यः पन्था विद्यते हि तर्तुं संसारसागरम् ।

नारायणं विना नृणां देवं संसारतारकम् ॥

40

तं तं नियममास्थाय तांस्तान् देवान् प्रपूजयेत् ।

नान्यथा सुलभा सिद्धिरेष धर्मः सनातनः ॥

41

तस्मान्नारायणं देवमुपासीत विशेषतः ।

संप्राप्य वैष्णवीं दीक्षां तत्पदं प्राप्तुमिच्छया ॥

42

नारायणमवाप्नोति नारायणपरायणः ।

तांस्तान् देवान् प्राप्नुवन्ति यान् यान् देवानुपासते ॥

43

सर्वदेवसमानां तु न क्वचिल्लीयते मनः ।

तस्मात्तेषां विमूढानां सालोक्यं दुर्लभं ननु ॥

44

एवमेकाग्रचित्तानां प्रपन्नानां महात्मनाम् ।

वैकुण्ठं सुलभं नूनं नान्येषां संशयात्मनाम् ॥

45

तस्मान्नारायणं देवं परमात्मानमव्ययम् ।

अष्टाक्षरेण मन्त्रेण द्वादशाक्षरविद्यया ॥

46

भज त्वं सन्ततं ध्यायन् हृदये पुरुषोत्तमम् ।

एष एव परो धर्मः सद्यो मोक्षप्रदायकः ॥

47

संप्राप्ते चरमे काले ज्ञानं दत्त्वा श्रियः पतिः ।

प्रापयत्येव वैकुण्ठमष्टाक्षरपरायणम् ॥

48

श्रीसद्गुरुरुवाच

एवमुक्त्वा जगन्नाथो नरं नारायणो मुनिः ।

स्वयं जजाप परमं मन्त्रमष्टाक्षरं शुभम् ॥

49

नारायणेन गुरुणा नरोऽपि नियमेन हि ।

जजाप परमं मन्त्रं श्रद्धयैव दिने दिने ॥

50

एवं वसन्तौ सानन्दं तस्मिन् बदरिकाश्रमे ।

विदधाते तपस्तीव्रं नरनारायणावृषी ॥

51

तत्रैव भगवान् व्यासो नारदश्चोद्धवस्तथा ।

मार्कण्डेयश्च दीर्घायुः कुबेरो यक्षसत्तमः ॥

52

कैलासवासी भगवान्नीलकण्ठो वृषध्वजः ।

अन्ये देवाश्च मुनयो नित्यं बदरिकाश्रमे ॥

53

सेवन्ते श्रद्धया भक्त्या तपोध्यानपरायणाः ।

अभीष्टफलसिद्ध्यर्थं नरनारायणौ ऋषी ॥

54

उष्णतोयवहाः नद्यः शीततोयवहाः शुभाः ।

सुवर्णसिकता यत्र विशालां बदरीमनु ॥

55

पुण्यं नारदकुण्डं च पश्येद्व्यासगुहां तथा ।

मार्कण्डेयाश्रमं चैव सर्वपापविनाशनम् ॥

56

पश्येद्ब्रह्मकपालं च तर्पयेत्तत्र वै पितॄन् ।

दानं कुर्याद्यथाशक्ति पितॄणां परितुष्टये ॥

57

पश्येत् कुबेरभण्डारं दारिद्र्यं नश्यति ध्रुवम् ।

नीलकण्ठाचलं दृष्ट्वा निर्मलं ज्ञानमाप्नुयात् ॥

58

पश्यन्नलकनन्दां च सर्वपापैः प्रमुच्यते ।

बदरीवनयात्रां तु को न कुर्यान्महीतले ॥

59

ईदृशं परमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।

अद्यापि दृश्यते यत्र नरो नारायणो मुनिः ॥

60

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे बदरिकाश्रममाहात्म्यम् नाम षष्ठोऽध्यायः ॥
Ch.05 Prathama Bhāge Ch.07