Verses

प्रीतिपुरमाहात्म्यम् Prīti Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

महोन्नतं दृश्यते हि कैलासशिखरं भुवः ।

तुषारवसनावीतं यथैव स्तनमण्डलम् ॥

2

तत्र तत्र विराजन्ते विविधा रत्नधातवः ।

स्तनमण्डललग्नानि मौक्तिकानीव योषिताम् ॥

3

आदित्यकिरणस्पर्शद्विगुणीकृतकान्तिमत् ।

कान्तस्पर्शेनेव कान्तं कान्तायाः स्तनमण्डलम् ॥

4

गङ्गा भवति शैलाग्रात्सर्वेषामन्नदायिनी ।

बालजीवनदात्रीव पयोधारा पयोधरात् ॥

5

आरुह्य शैलशिखरं नृत्यन्ति शिखिनो मुहुः ।

कूजन्ति कोकिलगणा वृक्षकोटसंस्थिताः ॥

6

नानावृक्षसमाकीर्णं तद्वनं मुनिमण्डितम् ।

भाति पुष्पसुगन्धाढ्यमन्दमारुतसेवितम् ॥

7

सरोऽपि मानसं नाम मनसा निर्मितं पुरा ।

शिवेन वारिलीलार्थमुमया सह वर्तते ॥

8

सरसीरुहमध्यस्थैः कूजितं हंससारसैः ।

मुनिमण्डलसंसेव्यं प्रसन्नसलिलाशयम् ॥

9

तत्र देवाश्च गन्धर्वाः सिद्धविद्याधरास्तथा ।

मोदन्ते परमप्रीता जलक्रीडापरायणाः ॥

10

तस्य तीरे महानास्ते वटवृक्षः सुमङ्गलः ।

बहुपल्लवशाखाढ्यः पक्षिजालसमाश्रितः ॥

11

छायायां तस्य लोकेशः शङ्करश्चन्द्रशेखरः ।

जटाधरः कृत्तिवासास्त्रिनेत्रो नागभूषणः ॥

12

पिनाकी नीलकण्ठश्च प्रशान्तः पार्वतीपतिः ।

जपं करोति लोकानां मङ्गलाय स्वयं हरः ॥

13

तं दृष्ट्वा सर्वलोकेशं जपन्तं मीलितेक्षणम् ।

पार्वती परिपप्रच्छ परमं शिवमीश्वरम् ॥

14

पार्वत्युवाच

त्वमेवासि महादेवः सर्वदेवनमस्कृतः ।

व्यर्थं जपसि किं मन्त्रं कं देवं ध्यायसि स्वयम् ॥

15

शिव उवाच

जपामि तारकं मन्त्रं राम रामेति पार्वति ।

संसारतारणोपायं नान्यं पश्यामि चात्मनाम् ॥

16

न देशकालनियमो नोपदेशः कथञ्चन ।

मुच्यते सर्वपापेभ्यो राम रामेति कीर्तनात् ॥

17

न जातिनियमस्तस्य नराः सर्वेऽधिकारिणः।

स्त्रियो बालाश्च वृद्धाश्च जडान्धबधिरास्तथा ।

कर्तुमर्हन्ति सर्वेऽपि राम रामेति कीर्तनम् ॥

18

रमन्ते योगिनोऽनन्ते चिदानन्दे परात्मनि ।

इति रामपदेनैव परं ब्रह्माभिधीयते ॥

19

पार्वत्युवाच

सीताविरहसन्तप्तो रामो दशरथात्मजः ।

रुदन्नास्ते वने घोरे नष्टराज्यमनोरथः ॥

20

संयुतं कष्टनष्टाभ्यां राममेकं नरोत्तमम् ।

श्लाघसे त्वं महादेव परमात्मेति लीलया ॥

21

शिव उवाच

न लीलया वदाम्येतत् सत्यमेव हि पार्वति ।

राम एव परं ब्रह्म नरलीलां करोति सः ॥

22

लीलामात्रमिदं सर्वमवतारविडम्बनम् ।

न दुःखं न सुखं तस्य निर्गुणस्य परात्मनः ॥

23

श्रीसद्गुरुरुवाच

इत्युक्त्वा पार्वतीदेवी परीक्षां कर्तुमिच्छया ।

प्राप पञ्चवटीं सद्यः सीतारूपधरा सती ॥

24

इतस्ततः प्रियां पत्नीं विचिन्वन् रघुपुङ्गवः ।

ददर्श पार्वतीमग्रे सीतारूपेण संस्थिताम् ॥

25

सद्य एव नमस्कृत्य विनीतो विहिताञ्जलिः ।

पूजयामास वै देवी पार्वतीं नरपुङ्गवः ॥

26

आगतासि किमर्थं त्वं त्यक्त्वा भर्तारमीश्वरम् ।

एवं पप्रच्छ देवीं तां रामो राजीवलोचनः ॥

27

सर्वज्ञत्वं राघवस्य जानन्ती सर्वमङ्गला ।

अन्तर्दधे सद्य एव देवी शिवमुपागता ॥

28

किन्तु तस्यां शङ्करस्य स्वेष्टदेवपरीक्षया ।

क्षीणाऽभवत्तदा प्रीतिः पार्वती दुःखिताऽभवत् ॥

29

पुनः प्रीतिं यथापूर्व संपादयितुमिच्छया ।

रामनामजपं चक्रे स्वयञ्च गिरिनन्दिनी ॥

30

तस्यां प्रीतिरभूद्भूयो गौर्यां रुद्रस्य धूर्जटेः ।

तस्मात्प्रीतिपुरं नाम स्थानमेतदभूत्परम् ॥

31

तीरे मानसतीर्थस्य देवदेवं चतुर्भुजम् ।

रामं राजीवपत्राक्षं शङ्खचक्रधनुर्धरम् ॥

32

समवेतं सीतया च प्रतिष्ठाप्य यथाविधि ।

पूजयामास गौरीशः प्रीतिपूर्वं दिने दिने ॥

33

तदिदं परमं क्षेत्रं दम्पत्योः प्रीतिवर्धनम् ।

दृश्यते परमं पुण्यं कैलासशिखरे सुरैः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे प्रीतिपुरमाहात्म्यं नाम द्वादशोऽध्यायः ॥
Ch.11 Prathama Bhāge Ch.13