Verses

पुष्करमाहात्म्यम् Puṣkara Māhātmyam

1

श्रीसद्गुरुरुवाच

नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् ।

पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥

2

दशकोटिसहस्राणि तीर्थानां पुष्करे जले ।

सदा कुर्वन्ति सान्निध्यं सर्वे देवा महर्षयः ॥

3

तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः ।

अश्वमेधाद्दशगुणं फलं प्रापुर्मनीषिणः ॥

4

दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः ।

दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥

5

आसीज्जगत्कारणमम्भ एव

तस्मिंस्तदा पुष्करमाद्यमासीत् ।

तत्राविरासीत्खलु वेदगर्भ-

श्चतुर्मुखः सर्वजगद्विधाता ॥

6

प्राणशक्तिं विबुधं महान्तं

स्वरूपं प्रवदन्ति विप्राः ।

यस्यैव पत्नीं प्रवदन्ति वाचं

सरस्वतीं सर्वकलास्वरूपाम् ॥

7

कर्तुं तदेच्छन् भुवनस्य सृष्टि-

माधारपीठं वरदमात्मनश्च ।

विधिर्विचिन्वंस्तमसः परस्ता-

ददर्श देवं भुवनैकहेतुम् ॥

8

तं शेषतल्पे पुरुषं शयान-

माजानुबाहुञ्च निमीलिताक्षम् ।

विशालवक्षःस्थलमादिदेवं

योगेश्वरं कौस्तुभकन्धरञ्च ॥

9

श्रीवत्सचिह्नं श्रितपारिजातं

श्रिया परिष्वक्तमनन्तमाद्यम् ।

पीताम्बरं दिव्यविभूषणाढ्यं

निःश्वासभूताखिलवेदशास्त्रम् ॥

10

बद्धाञ्जलिः प्रेमभरानेत्र-

श्चतुर्मुखश्चारु स्तुतिं चकार ।

तं पद्मनाभं पुलकीकृताङ्गः

प्रणम्य भक्तार्चितपादमूलम् ॥

11

ब्रह्मोवाच

जानामि मूलं जगतां त्रयाणां ।

सनातनं शाश्वतमाद्यमेकम्

अनाद्यनन्तं तमसः परस्ता- ।

ज्ज्योतिः परं यत्स्वयमेव भाति ॥

12

यस्य प्रमेयं भुवनं समस्तं

तस्य प्रमाणं किल तत्स्वरूपम् ।

स्वयंप्रकाशं त्वभिवीक्ष्य साक्षात्

प्रमातृभावञ्च कथं गतोऽस्मि ॥

13

तस्मादभिन्नं ननु चित्स्वरूपं

मैव पश्यामि हृदि प्रविष्टम् ।

विसृज्य सर्वं व्यवहारभेदं

मौनेन वर्तेय तदेव युक्तम् ॥

14

मनोवचोऽतीतमिदं स्वरूपं

मन्तुं च वक्तुं ननु शक्नुयात् कः ।

अस्तीति नास्तीति विचारणस्य

साक्षी स्वयं भाति परं तदेतत् ॥

15

यन्मूलमेतद्भुवनं समस्तं

नामानि रूपाणि बहूनि यत्र ।

भावाश्च यस्माद्बहवो भवन्ति

तमेव देवं हृदि भावयामि ॥

16

नामानि रूपाणि विधाय पूर्वं

स्वस्मिन् विचित्राणि विहृत्य तैश्च ।

ततश्च संहृत्य च शिष्यते य-

स्तमेकमाद्यं शरणं भजामि ॥

17

यन्नेति नेतीति विसृज्य सर्वं

प्रत्यक् स्थितं तद्धदि योगिनश्च ।

पश्यन्ति साक्षात्परमार्थदीपं

निरस्तमायानिबिडान्धकारम् ॥

18

त्यक्त्वा हृदम्भोजविकासहेतुं

ज्ञानप्रकाशं परमार्थरूपम् ।

ये द्रष्टुमिच्छन्ति घटादिवत् ते

क्लिश्यन्ति नाना तपसा वृथैव ॥

19

तस्माद्विसृज्याखिलसाधनानि

साध्यानि धीरा जितसर्वलोकाः ।

सदा रमन्ते हि निजस्वरूपे

शान्तिं परां सन्ततमाप्नुवन्ति ॥

20

पश्यामि साक्षादिह शेषतल्पे

समाहितं तत्परमार्थरूपम् ।

यस्यैव कुक्षौ निहितं समस्तं

ब्रह्माण्डजालं धृतसूक्ष्मरूपम् ॥

21

श्रीसद्गुरुरुवाच

एवं स्तुतो लोकपितामहेन ।

श्रीपद्मनाभो विकचय्य नेत्रम्

निरीक्ष्य मुग्धस्मितसुन्दरास्यो ।

ब्रह्माणमेवं मधुरं बभाषे ॥

22

श्रीभगवानुवाच

विज्ञानशक्तिं मम वेदरूपं ।

प्राणात्मकं तत्त्ववरं महान्तम्

त्वामेव जानामि सदा समर्थ ।

त्वमेव लोकान् सृज वेदगर्भ ॥

23

विराट्स्वरूपं मम पश्य पूर्व्यं

नामानि रूपाणि वसन्ति यत्र ।

प्रकाशय त्वं पुनरेव तानि

सृष्टिक्रिया सैव भवेद्धि नान्या ॥

24

अहं करिष्यामि मदीयसौख्य-

लाभाय कर्मेति जगत्प्रसिद्धम् ।

सङ्कल्पमेवं सततं विहाय

सृष्ट्वापि लोकान्न तु यासि बन्धम् ॥

25

श्रीसद्गुरुरुवाच

एवं मुकुन्देन निबोधितोऽज- ।

स्ततो जगत्स्रष्टुमुपक्रमञ्च

चकार तत् सर्वजनान्तरात्मा ।

प्रविश्य विष्णुः स्वयमेव चक्रे ॥

26

यत्कारणं वार्यभवत्तदेवं

यत्पुष्करं तत्र बभूव तच्च ।

निधाय मध्ये भुवनं ससर्ज

शिश्ये च तस्मिन् स्वयमेव भूयः ॥

27

सन्दृश्यते पुष्करतीर्थमेत-

न्नारायणस्याश्रयभूतमेव ।

पश्यन्ति गूढं खलु दिव्यदृष्ट्या

तपोधनाः संप्रति तत्र विष्णुम् ॥

28

तद्वैष्णवं तीर्थमिदं पवित्रं

साक्षात्कृतं पद्मभवेन पूर्वम् ।

श्रीपुष्करं नाम कलौ युगे च

पश्यन्ति मर्त्या भुवि पापनाशनम् ॥

29

स्नानेन पानेन च दर्शनाच्च

श्रीपुष्करं तीर्थमिदं नराणाम् ।

पापानि सर्वाणि विनाशयित्वा

पुण्यानि संवर्धयति स्वयं हि ॥

30

स्वच्छं चन्द्रावदातं करिकरमकरक्षोभसञ्जातफेनं

ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः ।

ओंकारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं

संभोगाभोगरम्यं जलमशुभहरं पौष्करं वः पुनातु ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पुष्करमाहात्म्यम् नाम षड्विंशोऽध्यायः ॥
Ch.25 Prathama Bhāge Ch.27