Verses

प्रयागक्षेत्रमाहात्म्यम् Prayāga Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

यत्र गङ्गा च यमुना यत्र चैव सरस्वती ।

तदेव तीर्थप्रवरं देवानापि दुर्लभम् ॥

2

ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ।

तीर्थानामुत्तमं तीर्थं प्रयागाख्यमिदं स्मृतम् ॥

3

चराचराश्च ये जीवास्तथैव मनुजादयः ।

प्रयागं तीर्थमाश्रित्य वैकुण्ठं यान्ति तेऽचिरात् ॥

4

ये वसिष्ठादयस्तत्र ऋषयः सनकादयः ।

तेऽपि प्रयागजं तीर्थं सेवन्ते च पुनः पुनः ॥

5

प्रयागे तु नरो यस्तु माघस्नानं करोति ।

स वै चतुर्भुजो भूत्वा वैकुण्ठे रमते चिरम् ॥

6

भरद्वाजः कुलपतिः प्रयागे निवसन् मुनिः ।

सार्धं शिष्यसहस्रेण तपश्चक्रे दृढव्रतः ॥

7

केचित्स्वाध्यायनिरताः केचिज्जपपरायणाः ।

केचिद्यज्ञकराः केचिद्योगाभ्यासपरास्तथा ॥

8

उपवासपराः केचित्केचित्पञ्चाग्निमध्यगाः ।

फलाहारपराः केचिच्छीर्णपर्णाशनास्तथा ॥

9

केचित्सलिलमग्नाश्च केचिद्वृक्षनिवासिनः ।

निराहारास्तथा केचिन्मुनयो वायुभोजनाः ॥

10

एकपादेन तिष्ठन्तः कुर्वन्तः शिरसाऽऽसनम् ।

नानाविधां तपश्चर्यां कुर्वन्ति मुनयः सदा ॥

11

साक्षात्कर्तुं जगन्नाथं माधवं मधुसूदनम् ।

अष्टाक्षरपराः केचिद्द्वादशाक्षरतत्पराः ॥

12

षडक्षरपराः केचिदेकाक्षरपरायणाः ।

गायत्रीजपनिष्ठाश्च पुरश्चरणतत्पराः ॥

13

जितेन्द्रिया जितक्रोधाः प्रशान्तहृदयाश्च ते ।

क्वचिद्ब्रह्मविचारं तं कुर्वन्ति च परस्परम् ॥

14

क्वचिन्मौनेन तिष्ठन्ति ध्यायन्तो ब्रह्म निष्कलम् ।

वानप्रस्था महात्मानो गृहस्थाश्च क्वचित्क्वचित् ॥

15

सन्यासिनो महाशान्ता नैष्ठिका ब्रह्मचारिणः ।

सर्वेऽपि सन्ततं तत्र तीव्रं कुर्वन्ति साधनम् ॥

16

साक्षात्कर्तुं श्रीनिवासं शमादिगुणसंयुताः ।

ऊर्ध्वपुण्ड्रधराः सर्वे जटावल्कलधारिणः ॥

17

पद्माक्षतुलसीमालाधारिणश्चोपवीतिनः ।

वर्णाश्रमकुलाचारनिरता वैदिकास्तथा ॥

18

पाषण्डदोषरहिता भगवद्ध्यानतत्पराः ।

अन्योन्यप्रेमसंयुक्ता जगत्कल्याणकारकाः ॥

19

विमुखा लोकधर्मेषु सन्ततं परमार्थिनः ।

यदृच्छालाभसन्तुष्टाः परिग्रहविवर्जिताः ॥

20

आर्जवेनैव संयुक्ताः सत्यधर्मपरायणाः ।

एवंभूता महात्मानो मुनयस्तु सहस्रशः ॥

21

प्रयागे निवसन्तस्ते तपश्चक्रुः सुमङ्गलम् ।

तेषां पादाब्जरजसा पवित्रं धरणीतलम् ॥

22

तेषाञ्च ब्रह्मघोषेण पवित्रं गगनं तथा ।

अष्टाक्षरजपं चक्रे भरद्वाजस्तु कोटिशः ॥

23

पुरश्चर्यां तथा चक्रे शिष्यैः साकं महामुनिः ।

अग्निकुण्डे हरिं साक्षाद्भावयन्मुनिपुङ्गवः ॥

24

पूर्णाहुतिं ददौ भक्त्या विष्णवे परमात्मने।

तदा नारायणः श्रीमान् शङ्खचक्रगदाधरः ।

आविर्भूतः प्रसन्नात्मा मुनीनां दर्शनं ददौ ॥

25

देवदेवं वासुदेवं सर्वदेवनमस्कृतम् ।

दृष्ट्वा चक्रे स्तुतिं पुण्यां भरद्वाजो महामुनिः ॥

26

भरद्वाज उवाच

अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।

नयनानन्दमूर्तेस्ते दर्शनं प्राप्तमीदृशम् ॥

27

देवदानवसिद्धानां किन्नराणां तथा नृणाम् ।

रक्षसामपि यक्षाणां दुर्लभं तव दर्शनम् ॥

28

प्राप्तुमर्हति को लोके भक्तिसाधनवर्जितः ।

दर्शनं तव गोविन्द सुराणामपि दुर्लभम् ॥

29

पाषण्डिनां नास्तिकानां लौकिकानां जगत्पते ।

अदृश्योऽसि सदैव त्वं विमुखानां त्वयि प्रभो ॥

30

ये तु त्वां द्रष्टुमिच्छन्ति भक्तिसाधनतत्पराः ।

तेषां दृष्टिपथं गत्वा ददास्यनन्दमीदृशम् ॥

31

आश्चर्याणां महाश्चर्यं सुखानां परमं सुखम् ।

साध्यानां परमं साध्यं भगवन् तव दर्शनम् ॥

32

फलं हि परमं साध्यमिदं सर्वोत्तमोत्तमम् ।

परमानन्दमूर्तेस्ते दर्शनं खलु माधव ॥

33

तथापि मायया मुग्धाः स्वल्पसौख्यपरायणाः ।

जीवन्ति लोकायतिनस्त्वयि नित्यं पराङ्मुखाः ॥

34

धिक् तेषां जीवनं लोके विमुखानां नृणां त्वयि ।

विवेकवर्जितानाञ्च पशुवज्जीवतामिह ॥

35

घोरं तपः कुर्वताञ्च नराणां हठयोगिनाम् ।

अष्टैश्वर्यविमुग्धानां दुर्लभं तव दर्शनम् ॥

36

कर्मठानां वैदिकानां काममोहितचेतसाम् ।

फलार्थिनां विमूढानां दुर्लभं तव दर्शनम् ॥

37

दृढवैराग्ययुक्तानां यतीनां च महात्मनाम् ।

तथा कैवल्यकामानां दुर्लभं तव दर्शनम् ॥

38

कुर्वताञ्च तपो घोरं वसतां च वनान्तरे ।

शापानुग्रहसिद्धानां दुर्लभं तव दर्शनम् ॥

39

वर्णाश्रमविहीनानां वृथा काषायधारिणाम् ।

पाषण्डिनां नास्तिकानां दुर्लभं तव दर्शनम् ॥

40

लोकधर्मपराणाञ्च काञ्चनासक्तचेतसाम् ।

कुटुम्बाक्रान्तचित्तानां दुर्लभं तव दर्शनम् ॥

41

देवानामपि दैत्यानां मुनीनां यक्षरक्षसाम् ।

सिद्धानां योगिनां चैवं दुर्लभं तव दर्शनम् ॥

42

साक्षात्कर्तुं जगन्नाथं स्वच्छन्दगतिमीश्वरम् ।

स्वानन्दरससंपूर्णं त्रिलोक्यामपि कोऽर्हति ॥

43

सत्सङ्गलाभनिरता कथाश्रवणतत्पराः ।

नामसङ्कीर्तनानन्दनिमग्नाः पुलकाञ्चिताः ॥

44

आनन्दबाष्पसुस्निग्धनयनाः प्रेमपूरिताः ।

गद्गदस्वरसंपन्ना दृढविश्वाससंयुक्ताः ॥

45

वैदिका धार्मिकाश्चैवं जितक्रोधा जितेन्द्रियाः ।

अष्टाक्षरजपप्रीता ध्यानसंलग्नचेतसः ॥

46

युक्ता विरहतापेन निद्राहारविवर्जिताः ।

कृशाः प्रलापसंयुक्ता नित्यं दर्शनकाङ्क्षया ॥

47

पुण्यतीर्थनिवासाश्च लोकसङ्गविवर्जिताः ।

सदाचारेण संयुक्ताः शास्त्रमार्गानुसारिणः ॥

48

द्वादशाक्षरविद्यायां निरता निर्मलाशयाः ।

दर्शनं कर्तुमर्हन्ति त्वदीयास्तव माधव ॥

49

अन्यसाधनदूरस्थो दुराराध्यः सुरैरपि ।

भक्तिमात्रप्रसन्नोऽसि भक्तवत्सल माधव ॥

50

काम्यार्थभक्तियुक्तानां ददासि त्वं तु कामितम् ।

तथा निर्व्याजभक्तानां ददासि तव दर्शनम् ॥

51

अत्रैव तव सान्निध्यं लोकानुग्रहकाम्यया ।

कुरु त्वं नित्यकल्याण निर्मलानन्दविग्रह ॥

52

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथ देवदेवः श्रियः पतिः ।

उवाच मधुरं वाक्यं भरद्वाजं महामुनिम् ॥

53

श्रीभगवानुवाच

युष्माकं साधनैः प्रीतो भूतोऽहं दृष्टिगोचरः ।

दुर्दर्शोऽहमभक्तानामलसानां कुयोगिनाम् ॥

54

अहमर्चावतारेण कुर्वन् सान्निध्यमत्र हि ।

ददामि कामितं सर्वं नृणामज्ञानिनामपि ॥

55

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना तत्र भरद्वाजो महामुनिः ।

माधवाख्यां प्रतिष्ठाप्य मूर्तिमानर्च सादरम् ॥

56

त्रिवेणीसङ्गमे पुण्ये वेणीमाधवमच्युतम् ।

पश्येद्भाग्यवतां श्रेष्ठो मङ्गलावसरे नरः ॥

57

सितासिते यत्र तरङ्गचामरे

विभाति यमुना भानुकन्यका ।

लीलातपत्रं वट एव साक्षात्

स तीर्थराजो जयति प्रयागः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे प्रयागक्षेत्रमाहात्म्यम् नाम अध्यायः ॥
Ch.08 Prathama Bhāge Ch.10