Verses

अहोबिलमाहात्म्यम् Ahobila Māhātmyam

1

श्रीसद्गुरुरुवाच

सर्वव्यापकरूपस्य विष्णोरमिततेजसः ।

तत्र तत्रापि सान्निध्यं व्यक्तमेव प्रकाशते ॥

2

अहोबिले महाक्षेत्रे गरुडाद्रेर्गुहासु सः ।

नरसिंहः कृपासिन्धुर्नवमूर्तिर्विराजते ॥

3

पूर्वं मातृविमोचनाय गरुडो हृत्वा सुधां निर्जरैः।

कृत्वा युद्धमथो मुकुन्दमधिकं ज्ञात्वा सुराणां तथा ।

विष्णोरप्युपरिध्वजे निजपदं संप्राप्तुकामो महा-

नस्मिन्नेव गिरौ चकार च तपो देवं नृसिंहं स्मरन् ॥

4

उत्तमं स्थानमारोढुं यः कामयति मानवः ।

श्रीनृसिंहं पूजयेद्भक्तवत्सलम् ॥

5

दंष्ट्राग्रेण धरां महाजलनिधौ मग्नां समुद्धृत्य च

स्वामी सर्वजनान् भवाम्बुधिजले मग्नान् वराहात्मना ।

उद्धृत्य गरुडाचलस्य शिखरे चास्ते गुहायां हरि-

र्भक्तानामभयप्रदः करुणया भूम्या स्वयं पूजितः ॥

6

वाराहं नरसिंहं तं वेदाद्रिशिखरे नरः ।

पश्यन् राज्यमवाप्नोति राजा नष्टां भुवं पुनः ॥

7

हत्वा दैत्यवरं कृपाजलनिधिः प्रह्लादसंपूजितो

दृष्ट्वोग्रं निजरूपमप्यभयदं भीतां श्रियं सान्त्वयन् ।

आरोप्याङ्कतले जगत्त्रयगुरुः शान्तः शरण्यः सतां

लक्ष्मीतीर्थतटे विराजति विभुर्लक्ष्मीविलोलो हरिः ॥

8

मालोलं नरसिंहं तमाश्रित्य कृपणो नरः ।

कुबेरतुल्यो भवति भक्तानां किं सुदुर्लभम् ॥

9

लोकान् स्रष्टुमुपस्थितः कमलजो बुद्धिं जडत्वं गतां

ज्ञात्वा दैत्यविमोहितां नरहरिं ह्यत्र प्रतिष्ठाप्य च ।

योगानन्दतनुं कृपाजलनिधिं संपूज्य भक्त्या पुनः

प्रज्ञां प्राप सुनिर्मलामपि तथा स्वं पारमेष्ठ्यं पदम् ॥

10

योगानन्दं हरिं दृष्ट्वा भक्तानां गरुडाचले ।

दुर्दमं बुद्धिचाञ्चल्यं विनश्यति न संशयः ॥

11

नानाशास्त्रविवेचनाकुलमना ज्ञानं च शुद्धं परं

प्राप्तुं गोभिलनामको मुनिवरो ध्यायन्नृसिंहं प्रभुम् ।

अस्मिन्नेव करञ्जवृक्षनिकटे संप्राप्य दिव्यां मतिं

साक्षात्कृत्य परं सनातनमजं तत्त्वं प्रशान्तोऽभवत् ॥

12

करञ्जवृक्षमूले तु नरसिंहं भजन्नरः ।

दिव्यज्ञानमवाप्नोति मुनीन्द्रो गोभिलो यथा ॥

13

चित्रे छत्रवटे विभुर्नरहरिः शक्रादिभिः सन्ततं

गीर्वाणैरभिगीयमानचरितो भक्तप्रियो राजते ।

हाहाहूह्वभिधानकौ नरहरेर्गानं वरं प्राप्य तौ

गन्धर्वाणां प्रधानौ दिवि च भवतः श्रीनृसिंहप्रसादात् ॥

14

नरसिंहं छत्रवटे ये पश्यन्ति नरा भुवि ।

लभन्ते गानशक्तिं ते सभायां वावदूकताम् ॥

15

देवं भार्गवतीर्थतीरनिलयं ध्यात्वा वसिष्ठादयः

पूर्वं स्थानमवापुरत्र महतीं विद्यां च कीर्तिं ततः ।

अद्याप्यच्युतभक्तिमात्रनिरतः संसेवते भार्गवो

भक्तानां सकलेष्टदायकममुं श्रीनारसिंहं प्रभुम् ॥

16

तीरे भार्गवतीर्थस्य नृसिंहं यो भजेन्नरः ।

स्थानं परमवाप्नोति प्राधान्यं स्वजनेषु च ॥

17

मुक्तिक्षेत्रनिवासिनं सुरवरं ज्वालानृसिंहं प्रभुं

पश्येत्तत्र घृतेन दीपममलं चोद्दीपयेन्मानवः ।

अत्रैवाच्युतभक्तियोगनिरता ब्रह्मर्षयो वैष्णवं

धाम प्रापुरिह मुमुक्षुरिह तं विष्णुं समाराधयेत् ॥

18

ज्वालानृसिंहं दृष्ट्वाग्रे दीपज्वालां समर्पयेत् ।

संसारदावज्वालाया मुक्तो भवति मानवः ॥

19

तीर्थं पावनमेतदत्र भगवानास्ते नृसिंहो हरि-

र्भरद्वाजमुनिः पुराऽत्र विदधे घोरं तपः संयतः ।

पुण्यं पापहरं प्रशस्तममलं ज्ञानप्रदं मौनिभिः

सेव्यं तापविनाशनं भुवि नरः को नाश्रयेद्भाग्यवान् ॥

20

तीरे पावनतीर्थस्य नरसिंहं पापनाशनम् ।

पश्येत् पापविनाशाय भारद्वाजप्रतिष्ठितम् ॥

21

पक्षीन्द्रं पोत्रिसंज्ञं जलधितनयासंयुतं योगसंज्ञं

कारञ्जक्षेत्रवर्यं फलितफलचयं छत्रपूर्वं वटं च ।

ज्वालाख्यं भार्गवाख्यं भगवदभिमतैर्भावितं योगिवर्यैः

पुण्यं तत्पावनाख्यं हृदि च कलयतां कल्पते सत्फलाय ॥

22

अहोबिले महाक्षेत्रे सर्वक्षेत्रोत्तमे भुवि ।

एवं नवनृसिंहानां दर्शनं पापनाशनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे अहोबिलमाहात्म्यम् नाम अध्यायः ॥
Ch.32 Prathama Bhāge Ch.34