Verses

कन्यावरणम् Kanyā Varaṇam

1

श्रीसद्गुरुरुवाच

ततो मुकुन्दो भगवान्मुनीन्द्रं ।

व्यासात्मजं श्रीशुकदेवमेव

पद्मावतीं तां परिणेतुकामः ।

सस्मार पद्मायतचारुनेत्रः ॥

2

तदैव तत्राविरभून्मुनीन्द्रः

श्रीकृष्णगाथामृतपूर्णकण्ठः ।

निरस्तसंसारसमस्तभेदः

स्वरूपमात्रोपरतानुभावः ॥

3

आनीय तं प्रेमभराश्रुनेत्रः

संपूज्य बद्धाञ्जलिरादरेण ।

श्रीतोण्डमानस्य कुलान्ममाद्य

कन्यां वृणीष्वेति जगाद कृष्णः ॥

4

तथेति चोक्त्वा सरसं शुकोऽपि

विज्ञाय विष्णोर्हृदयं तदैव ।

आकाशराजस्य सभां जगाम

संप्रेषितः साधुवरेण तेन ॥

5

आकाशराजः शुकदेवमीक्ष्य

प्रणम्य चाभ्यर्च्य विनीतभावः ।

उक्त्वा च सुस्वागतमादरेण

पप्रच्छ तस्यागमनस्य हेतुम् ॥

6

राजोवाच

अहो कृतार्थोऽस्मि जगद्गुरो ते ।

समागमेनात्र सुदुर्लभेन

हृष्यन्ति नूनं कुलदेवताश्च ।

तृप्यन्ति सर्वे पितरश्च देव ॥

7

जन्मान्तरे चेत् सुकृतं ह्यनन्तं

कृतं तदा तत्फललाभकाले ।

भाग्योदयेनैव नरा लभन्ते

सत्सङ्गमं मङ्गलकारणं हि ॥

8

ममेष्टदैवं कुलदैवतं च

श्रीवेङ्कटेशो भगवान् कृपालुः ।

मन्ये हि तस्यैव कृपावशेन

त्वमत्र मे दृष्टिपथं गतोऽसि ॥

9

दास्यं मया ब्रह्मविदां वरस्य

तवाद्य किं कार्यमिति स्वयं माम् ।

स्वच्छन्दमाज्ञापय योगिवर्य

सत्सेवया तुष्यति वेङ्कटेशः ॥

10

श्रीशुक उवाच

श्रीतोण्डमानस्य कुले नरेन्द्र ।

जातोऽसि तद्युक्तमिदं वचस्ते

समर्चनेनैव सतां नराणां ।

सञ्जायते मङ्गलमेव नूनम् ॥

11

अहो कृतार्थोऽसि महीपते त्वं

पद्मा च साक्षात्तव कन्यकाऽभूत् ।

अयोनिजा सा स्वयमाविरासीत्

सहस्रपत्रात् खलु दिव्यरूपा ॥

12

तां मन्यसे त्वं तनयां स्वकीयां

वात्सल्यभावेन हि मानुषीं नु ।

धन्योऽसि नूनं जनकेन तुल्यो

जगज्जनन्या जनकोऽसि राजन् ॥

13

स्वयं वृणीते जगदेकभर्ता

श्रीवेङ्कटेशः श्रियमेव साक्षात् ।

वक्षःस्थलस्थामिह ते गृहेऽपि

कृतावतारां कमलायताक्षीम् ॥

14

सुतां गृहीतुं तव कस्य शक्तिः

क्रूरग्रहस्यापि नरेन्द्र नूनम् ।

अनुग्रहस्यैव हि भाजनं सा

कृष्णस्य जानीहि जगत्पतेस्त्वम् ॥

15

पाणिग्रहं कारय शीघ्रमेव

पद्मावतीवेङ्कटनाथयोस्त्वम् ।

श्रियः पतेस्त्वं श्वशुरत्वभाग्य-

मवाप्नुहि ब्रह्मसुरेन्द्रसेव्यम् ॥

16

संप्रेषितस्तेन वरेण राज-

न्नभ्यागतोऽहं तव सन्निधानम् ।

कन्यां वृणीतुं कमलायताक्षीं

कृष्णाय तस्मै सुरपुङ्गवाय ॥

17

राजोवाच

दास्यामि दास्यामि तवाज्ञयाऽहं ।

पद्मावतीं मे तनयां तथाऽस्तु

कृष्णाय लोकत्रयनायकाय ।

श्रीवेङ्कटेशाय सुरोत्तमाय ॥

18

श्रीशुक उवाच

तथास्तु राजन्नहमेत्य विष्णुं ।

निवेदयित्वा तव निश्चयं च

आनीय शीघ्रं भवनं तवैत- ।

देष्यामि सर्वं कुरु सिद्धमेव ॥

19

कन्या तु राजन् मृगशीर्षजाता

वरस्य तारा श्रवणं हि तस्मात् ।

वैशाखमासोत्तरफल्गुनीयं

विवाहकल्याणशुभप्रदा हि ॥

20

सर्वैश्च देवैर्नररूपयुक्तैः

सर्वैश्च भक्तैर्भगवान् मुरारिः ।

पुरं तवायास्यति शीघ्रमेव

सिद्धं कुरु त्वं सकलं नरेश ॥

21

श्रीसद्गुरुरुवाच

एवं मुनीन्द्रोऽपि निवेदयित्वा ।

गत्वाऽथ शेषाचलमादिदेवम्

दृष्ट्वा सहर्षं सरसं बभाषे ।

सर्वानुकूल्यं पृथिवीपतेस्तत् ॥

22

कृष्णोऽपि सद्यः पुलकाञ्चिताङ्गः

शुकं सहर्षं परिरम्य पद्माम् ।

निधाय चित्तेऽपि कुतूहलेन

निद्रां न लेभे कृतयोगनिद्रः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे कन्यावरणं नाम द्विचत्वारिंशोऽध्यायः ॥
Ch.41 Prathama Bhāge Ch.43