Verses

पद्मावतीविरहः Padmāvatī Virahaḥ

1

श्रीसद्गुरुरुवाच

विद्रावितः प्रौढसखीजनेन ।

दुद्राव कृष्णस्त्वरया स्वगेहम्।

पद्मावतीमानसमम्बुजाक्षो ।

हरन् जगन्मोहनमन्दहासः ॥

2

पद्मावतीमानसचौर्यलीला-

चातुर्यसञ्जातसुसम्भ्रमेण ।

विस्मृत्य चित्तं निजमप्यनन्त-

स्तस्यां निधायैव जगाम गेहम् ॥

3

निद्रां न लेभे न च भोजनं च

चक्रे मुकुन्दो लुठति स्म भूमौ ।

मुहुर्मुहुर्निःश्वसिति स्वयं च

चिन्ताकुलो मुञ्चति बाष्पबिन्दून् ॥

4

कृष्णावतारे जननी यशोदा

सेयं पुनर्बकुलमालिकेति ।

वात्सल्यभावेन युता प्रसिद्धा

पप्रच्छ देवं निशि वेङ्कटेशम् ॥

5

वकुलमालिकोवाच

किं चिन्तया ग्रस्तमना नितान्तं ।

श्वासं च दीर्घं वितनोषि बाल।

नान्नं च भुक्तं न पयश्च पीतं ।

निद्रां न ते वेद्मि च किं मुकुन्द ॥

6

श्रीभगवानुवाच

आकाशराजस्य सुता सखीभिः ।

समन्विता केलिवने हि दृष्टा।

तदाप्रभृत्येवमभूवमम्ब ।

भ्रूभङ्गमात्रेण तया जितोऽस्मि ॥

7

वकुलमालिकोवाच

तामेव नूनं स्वयमेव गत्वा ।

वृणोमि ते भूपतिमेत्य वत्स।

विषीद मैवं च निपीय दुग्धं ।

निद्रां भज त्वं तु विसृज्य चिन्ताम् ॥

8

श्रीभगवानुवाच

अहं तु गोपः किल ते कुमारः ।

पद्मावती सा खलु राजपुत्री।

आकाशराजः कथमम्ब नौ तत् ।

संबन्धमेवं हृदि कामयेत ॥

9

वकुलमालिकोवाच

प्रातः पुलिन्दीव गताऽहमेव ।

पद्मावतीं तां च विलोक्य वत्स।

तस्याश्च भावं च नृपस्य राज्ञ्याः ।

विज्ञाय वक्ष्यामि भवन्तमेत्य ॥

10

श्रीभगवानुवाच

नूनं हि सा दर्शनमात्रतो मे ।

पद्मावती प्रेमरसेन मुग्धा।

सखीजनः किन्तु रुरोध पद्मां ।

विमूर्च्छिताऽभूत् सहसा किशोरी ॥

11

विलोक्य भूमौ पतितां किशोरीं

समीपमस्याः कृपयाऽगमं च ।

तावत् स्त्रियो मां तु शिलाप्रहारा-

द्विद्रावयामासुरमी जननि ॥

12

अहं समर्थोऽस्मि च कन्यकास्ताः

सर्वा मया साकमिहैव सद्यः ।

आहर्तुमेकोऽपि तथापि मातः

विसृज्य ते सन्निधिमागतोऽस्मि ॥

13

श्रीसद्गुरुरुवाच

ततः प्रभाते कृपयैव धात्री ।

जगाम राज्ञो भवनं पुलिन्दी।

आनीय तामादरपूर्वकं च ।

पप्रच्छ पद्माविषयं तु राज्ञी ॥

14

राज्ञ्युवाच

इयं तु कन्या न भुनक्ति चान्नं ।

निद्रापि नैवं भवति प्रमत्ता।

विमूर्च्छति क्रन्दति कम्पते च ।

तत्कारणं मे वद साधु शीघ्रम् ॥

15

अयं गदो वाप्युत भूतचेष्टा

पित्तोन्मदो वाऽप्यथवा ज्वरो वा ।

विमोचनं स्यात् कथमस्य शीघ्रं

कष्टस्य किं चौषधमद्य देयम् ॥

16

पुलिन्द्युवाच

नायं हि रोगो न च भूतचेष्टा ।

तापज्वरो वा न च पित्तकोपः।

कन्या तवेयं खलु कामबाण- ।

संपीडिता रोदिति पृच्छ तां च ॥

17

राज्ञ्युवाच

पद्मावति त्वं मम कन्यकाऽसि ।

मा भैर्वृथा ते हृदयस्थितं मे।

वद त्वमेवाशु सुसाधयामि ।

नूनं मनोव्याधिरियं हि बाले ॥

18

पद्मावत्युवाच

तस्मिन् दिने केलिवनं गतायां ।

वसन्तकाले मयि सायमम्ब।

यदृच्छया दृष्टिपथं जगाम ।

कश्चित्कुमारस्तुरगाधिरूढः ॥

19

श्यामो युवा मन्मथमोहनाङ्गः

पीताम्बरः पद्मदलायताक्षः ।

तद्दर्शनेनैव विमूर्च्छिताऽहं

नीता बलादत्र सखीजनैश्च ॥

20

तदाप्रभृत्यम्ब मनो ममेदं

स्वाधीनतां नैव हि याति हन्त ।

स्वप्ने तथा जाग्रति राजपुत्रः

स एव मे दृष्टिगतो विभाति ॥

21

राज्ञ्युवाच

अहो कुलीनाऽसि ममासि पुत्री ।

कञ्चिद्विलोक्यासि विमोहिता त्वम्।

नेदं कुलस्याप्युचितं च बाले ।

मनः समाधेहि शनैः शनैस्त्वम् ॥

22

अज्ञातकामाम् अबलां च बालां

साध्वीं विनीतां स्वयमेव भीरुम् ।

यः कश्चनागत्य यदृच्छयैवं

विमोहयामास च हन्त हन्त ॥

23

अस्याश्चरित्रं परिहासपात्र-

मभून्ममैवं च बभूव दुःखम् ।

कथं वदिष्यामि पतिं च गत्वा

वृत्तान्तमस्याः कुलकन्यकायाः ॥

24

पुलिन्द्युवाच

राज्ञि त्वमेवं बत मा विषीद ।

यः कोऽपि धूर्तो न हि राजपुत्रः।

दृष्टोऽनया कन्यया तवैव ।

सुशीलया त्वद्वशया सदैव ॥

25

वृषाचले नः कुलदैवमस्ति

तदेव तद् दृष्टिपथं गतं नु ।

तस्माद्धि सा भक्तिरसप्रवाह-

पूर्णा चिरं रोदिति कम्पते च ॥

26

अहं च गत्वा ननु वेङ्कटेशं

तमेव देवं करुणासमुद्रम् ।

कन्यामिमां रक्षितुमद्य राज्ञि

संप्रार्थयिष्यामि च मा विषीद ॥

27

श्रीसद्गुरुरुवाच

संसान्त्वयित्वा च तदा पुलिन्दी ।

पद्मावतीं तज्जननीं च राज्ञीम्।

पुनश्च शेषाचलनाथमेत्य ।

न्यवेदयत् सर्वमिदं सहर्षम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पद्मावतीविरहः नाम एकचत्वारिंशोऽध्यायः ॥
Ch.40 Prathama Bhāge Ch.42