Verses

पद्मावतीप्रथमसमागमः Padmāvatī Prathama Samāgamaḥ

1

श्रीसद्गुरुरुवाच

श्रीतोण्डमानस्य कुलेऽभिजातो ।

गोविन्दभक्तो निजधर्मनिष्ठः

आकाशराजो भुवनं शशास ।

नाम्ना धरण्या सह भार्यया च ॥

2

चकार यज्ञं पृथिवीपतिः स

चकर्ष भूमिं वरलाङ्गलेन ।

तत्रैव सीतान्तरपद्ममध्ये

प्रादुर्बभूवाखिललोकमाता ॥

3

पद्मावतीति प्रथितां जगत्यां

लालयामास महीपतिश्च ।

रूपेण शीलेन गुणेन चापि

पद्मावती चात्मसमा बभौ सा ॥

4

सखीजनैः साकमगस्त्यनाथं

दृष्ट्वा गृहं गच्छति सायमेषा ।

अगस्त्यतीर्थस्य समीपमेत्य

विहृत्य शेषाचलकानने च ॥

5

एवं कदाचित् स्वसखीजनैः सा

चिक्रीड लीलावनमेत्य कन्या ।

तदाऽश्वमारुह्य जगन्निवासो

लीलार्थमत्रागमदादिदेवः ॥

6

श्यामं युवानं कमलायताक्षं

सुवर्णनानाविधभूषणाढ्यम् ।

पीताम्बरं बाणधनुर्धरं च।

ददर्श कन्या स्वसखीजनैस्तम् ॥

7

सद्यः सिषेवे मलयानिलश्च

वसन्तकालो ह्यभवच्च तत्र ।

तत्रैव कामो विजयं चकार

द्रष्टुं वने मन्मथमन्मथं तम् ॥

8

फुल्लन्ति पुष्पाणि लतासु सद्यः

स्रवन्ति सद्यो मकरन्दधाराः ।

पिबन्ति भृङ्गाः परितो भ्रमन्ति

कूजन्ति वृक्षेषु च कोकिलाश्च ॥

9

नृत्यन्ति तत्रैव हि नीलकण्ठाः

पश्यन्ति देवं हरिणाः प्रियेण ।

फलं प्रयच्छन्ति च भूरुहाश्च

श्रीवेङ्कटेशस्य करे स्वयं हि ॥

10

आश्चर्यमेतत् सहसा विलोक्य

कन्याश्च तस्थुः प्रणयेन मुग्धाः ।

ततः प्रगल्भो भगवानुपेत्य

पप्रच्छ पद्मां प्रियभाषणेन ॥

11

श्रीभगवानुवाच

इतो गता वा हरिणी च काचि- ।

द्गृहीतुकामः अनुसराम्यहं ताम्

शेषाचलेऽस्मिन् मृगयाविहारी ।

वसामि मे ब्रूहि सरोजनेत्रि ॥

12

पद्मावत्युवाच

मृगा अत्र वसन्ति राजन् ।

वनेचरास्ते विपिने चरन्ति

गच्छ त्वमेतद्विपिनं विहाय ।

लीलास्थलं राजकुमारिकाणाम् ॥

13

श्रीभगवानुवाच

गन्धर्वकन्या सुरकन्यका वा ।

नागेन्द्रकन्या नृपकन्यका वा

का त्वं सखीभिश्चरसि प्रियाभिः ।

कान्तारदेशे वद कन्यके त्वम् ॥

14

पद्मावत्युवाच

गन्धर्वकन्या सुरकन्यका वा ।

नागेन्द्रकन्या मुनिकन्यका वा

नाहं सरोजादुदिता धरण्यामाकाशराजस्य ।

सुताऽस्मि राजन् ॥

15

श्रीभगवानुवाच

अयोनिजाताऽसि अत एव दिव्यं ।

सौन्दर्यमेतद्वहसि स्वगात्रे

विमोहयन्ती मम मानसं च ।

किमर्थमत्र भ्रमसि स्वयं त्वम् ॥

16

पद्मावत्युवाच

वसन्तकाले तु वने विहर्तुमागतास्मि ।

स्वसखीजनैश्च

कन्यागणाधीनमिदं वनं हि ।

गच्छ त्वमद्यैव बहिर्नरेन्द्र ॥

17

श्रीभगवानुवाच

वसन्तकाले तु वने विहारं ।

कर्तुं कुमारोऽप्यहमागतोऽस्मि

यूयं कुमार्यः सरसं मयैव ।

क्रीडां कुरुध्वं त्यजताशु लज्जाम् ॥

18

पद्मावत्युवाच

विसृज्य धर्मं च कुलं चरित्रं ।

बन्धूंश्च वृद्धान् पितरौ च पूज्यौ

कथं भजेयं स्वयमागतं त्वां ।

धर्मो हि लोकस्य सुखैकहेतुः ॥

19

श्रीभगवानुवाच

विसृज्य सर्वं नियमं च धर्मं ।

कुलं च मानं पितृबान्धवांश्च

मामेकमीशं शरणं भजेत ।

धर्मस्तु मत्प्रीतिफलैकहेतुः ॥

20

श्रीसद्गुरुरुवाच

एवं वदन्नन्तिकमाययौ स ।

पद्मावतीं तां परिरब्धुकामः

शिलाप्रहारेण सखीजनास्ते ।

विद्रावयामासुरनन्तमीशम् ॥

21

अवाप मूर्च्छां सहसा मुरारेर्वियोगखिन्ना

नृपतेः कुमारी ।

तां सान्त्वयामासुरमी च सख्यो

निन्युश्च कन्याभवनं च शीघ्रम् ॥

22

अहर्निशं सा रुदती कृशाऽभूद्वियोगदावानलदह्यमाना

निद्रां न लेभे न पपौ पयश्च ।

विसृज्य शय्यां लुठति स्म भूमौ ॥

23

किं नाम तस्य क्व च तस्य वासो

यामि भूयोऽपि कथं प्रियं तम् ।

कोऽयं प्रियो मे क्व गतः सखीति

सदा प्रलापं च करोति दीनम् ॥

24

विज्ञाय पद्मावतिभावमेतं

सख्यश्च सन्दर्भमवेक्ष्य राज्ञे ।

न्यवेदयन् भूपतिकन्यकायाः

कन्दर्पतापज्वरमादरेण ॥

25

आहूय राजा भिषजं स्वकन्यां

प्रदर्शयामास च रोगखिन्नाम् ।

परीक्ष्य वैद्यः कफपित्तवातान्

देव्या हृदिस्थं न विवेद तापम् ॥

26

भावं सुताया न शशाक वेत्तुं

चिन्ताकुलोऽभूत् पृथिवीपतिश्च ।

दिने दिने ग्लानिमवाप पद्मा

शशाङ्कलेखेव च कृष्णपक्षे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पद्मावतीप्रथमसमागमः नाम चत्वारिंशोऽध्यायः ॥
Ch.39 Prathama Bhāge Ch.41