Verses

स्वामितीर्थमाहात्म्यम् Svāmi Tīrtha Māhātmyam

1

श्रीसद्गुरुरुवाच

अमात्यमुख्यैरभिसेवितोऽय- ।

मासीत् सभायामथ चोलपुत्रः

यथा महेन्द्रः सुरबृन्दवन्द्यः ।

सिंहासने निर्जरराजधान्याम् ॥

2

तत्रागतः कश्चन विप्रवर्यः

कुर्वन् स्वपत्न्या सह तीर्थयात्राम् ।

आनीय तं ब्राह्मणमादरेण

पप्रच्छ तस्यागमनस्य हेतुम् ॥

3

उवाच विप्रो विनतं नरेन्द्रं

प्रदर्श्य पत्नीमपि बालकं च ।

प्रगल्भवाण्या निजधर्मनिष्ठः

स्वारब्धकर्मण्यभिमानयुक्तः ॥

4

ब्राह्मण उवाच

श्रीकृष्णशर्मा मम नाम राजन् ।

सिन्धोस्तटे चन्द्रपुरे वसामि

धर्मिणी नाम कुटुम्बिनी मे ।

त्रैमासिकोऽयं मम बालको हि ॥

5

अहं गमिष्यामि नरेन्द्र काशी-

मनित्यमेतन्नरजन्म नूनम् ।

तावत्त्वमेनां परिपाहि साध्वीं

शिशुं च निक्षिप्तधनं यथैव ॥

6

समाप्य शीघ्रं नृप काशियात्रां

प्राप्स्यामि भूयो गृहिणीं सुतं च ।

महोपकारं कुरु पुण्यकृत्ये

यास्यामि चिन्तारहितोऽहमद्य ॥

7

श्रीसद्गुरुरुवाच

अस्त्वेवमेवेति जगाद राजा ।

विसृज्य तां सान्त्वनपूर्वमेव

ययौ च विप्रो भयभारहीनः ।

तीर्थाटने निश्चयबुद्धियुक्तः ॥

8

विविक्ते निदधे च साध्वीं

धान्यं च पर्याप्तमतो ददौ च ।

कपाटबन्धं च विधाय राजा

ररक्ष निक्षिप्तधनं यथा ताम् ॥

9

कार्यान्तरे राज्यधुरन्धरोऽयं

गतो न सस्मार महीपतिस्ताम् ।

धान्ये समाप्ते पिहिते गृहे सा

ममार पुत्रेण क्षुधैव खिन्ना ॥

10

संवत्सरान्ते पुनरेत्य विप्रो

द्रष्टुं तनूजं गृहिणीमियेष ।

लब्धस्मृतिर्विप्रविलोकनेन

चिन्ताकुलोऽभूत् पृथिवीपतिश्च ॥

11

विधाय पूजां द्विजपुङ्गवस्य

ससंभ्रमं तद्गृहमेत्य राजा ।

अस्थीनि तस्याश्च शिशोश्च तत्र

विलोक्य दुःखेन विमूर्च्छितोऽभूत् ॥

12

उत्थाय सद्यो नृपतिर्भयेन

शोकेन विष्णोर्निलयं जगाम ।

आपन्नबन्धुं कमलानिवासं

सतां शरण्यं शरणं प्रपेदे ॥

13

राजोवाच

सत्यस्य धर्मस्य च रक्षणार्थं ।

सत्यात्मकं त्वामवतीर्णमत्र

सत्यस्य सत्यं ऋतसत्यनेत्रं ।

सत्यस्वरूपं शरणं प्रपद्ये ॥

14

सत्यं विधातुं निजभृत्यवाक्यं

स्तम्भेऽवतीर्णोऽसि कृपानिधे त्वम् ।

नृसिंहरूपेण निहत्य दैत्यं

दिवौकसामप्यभयप्रदोऽसि ॥

15

सत्यं विधातुं पितृवाक्यमेवं

वनं गतो जानकिलक्ष्मणाभ्याम् ।

मनुष्यलीलामनुसृत्य हि त्व-

मसह्यदुःखानुभवं गतोऽसि ॥

16

सत्यं विधातुं युधि भीष्मवाक्यं

निजप्रतिज्ञामपहाय चक्रम् ।

धृत्वा करे शान्तनवं निहन्तुं

दधाविथ त्वं हि गतोत्तरीयः ॥

17

ममापि भक्तस्य रमापते त्वं

सत्यप्रतिज्ञां परिपाहि देव ।

द्विजस्य पत्नीं च सुतं कृपाब्धे

सञ्जीवय त्वं परमौषधं हि ॥

18

श्रीभगवानुवाच

जानामि कष्टं तव भक्तवर्य ।

यदृच्छया जातमिदं च पापम्

करोमि सत्यं वचनं तवापि ।

शिशुं च साध्वीमपि जीवयामि ॥

19

अत्रास्थिकूटं किल नाम तीर्थं

ममाचले पापहरं चकास्ति ।

अस्थीनि तस्मिन् क्षिप मातृशिश्वोः

पुनश्च सञ्जीवनमाप्नुयाताम् ॥

20

श्रीसद्गुरुरुवाच

एवं रमानाथमुखाम्बुजात- ।

वाणीसुधास्वादनजीवितोऽयम्

पुनश्च तं ब्राह्मणमेत्य धीरो ।

वृत्तान्तमेतन्निखिलं जगाद ॥

21

अस्थीनि पत्नीसुतयोर्विलोक्य

रुरोद विप्रो विलपन् नितान्तम् ।

तं सान्त्वयामास महीपतिश्च

लक्ष्मीनिवासस्य कृपां निवेद्य ॥

22

अस्थीनि चिक्षेप तयोश्च तीर्थे

सञ्जीवितौ तौ बत मातृपुत्रौ ।

उत्थाय सद्यो निजगात्रयुक्तौ

तं ब्राह्मणं प्रापतुरादरेण ॥

23

आश्चर्यमेवं घटितं विलोक्य

सर्वे जना हर्षमवापुः ।

कारुण्यमेवं कमलापतेस्तद्

विज्ञाय संस्मार हरिं नृपश्च ॥

24

गङ्गादिविख्यातसमस्ततीर्थ-

स्वामीति गङ्गाजनकस्य विष्णोः ।

सान्निध्यमात्रेण परं पवित्रं

तत्स्वामितीर्थं प्रवदन्ति सन्तः ॥

25

आसीत् पुरा शङ्खणनामधेयो

राजा स्वधर्मे निरतो महात्मा ।

संरञ्जयन् सर्वजनान् गुणेन

शशास पृथ्वीं सचिवैः समेतः ॥

26

स हैहयानामधिपश्च वीरो

मृदुस्वभावः सचिवैश्छलेन ।

जितोऽक्षकेल्यां निखिलं विसृज्य

दधाव राज्यं विपिनं सुदीनः ॥

27

राज्यं धनं बन्धुजनं च वेश्म

त्यक्त्वा च सेनां सचिवान् भटांश्च ।

चकार तीर्थाटनमेव पत्न्या

सुतेन साकं नितरां विषण्णः ॥

28

अवाप्य शेषाचलमाश्रितानां

दुःखापहं केशवसन्निधानम् ।

स स्वामितीर्थस्य तटे सुपुण्ये

कुटीं विनिर्माय चकार वासम् ॥

29

दिने दिने स्वामिसरोवरे स

स्नात्वा त्रिवारं कमलानिवासम् ।

निषेवमाणो दृढभक्तियुक्तः

चकार तन्नामजपं सदैव ॥

30

तस्यैव भक्तिं सुदृढां विलोक्य

स्वप्ने ददौ दर्शनमादिदेवः ।

सशङ्खचक्रः सकिरीटहारः

पीताम्बरः कौस्तुभशोभिकण्ठः ॥

31

श्रीभगवानुवाच

राजन् प्रसन्नोऽस्मि तवैव भक्त्या ।

पुनश्च राज्यं च भजिष्यसि त्वम् ।

स्नानेन ते स्वामिसरोवरेऽस्मिन् ।

स्वामित्वमाप्तं पुनरेव भूम्याः ॥

32

पत्न्या च पुत्रेण सह त्वमद्य

प्रातः पुनर्याहि तवैव देशम् ।

दास्यन्ति ते मन्त्रिण एव राज्यं

स्वयं हि मच्छासनतो नरेन्द्र ॥

33

श्रीसद्गुरुरुवाच

स्वप्ने मुकुन्दस्य वचो निशम्य ।

राजा च लेभे परमां मुदं हि

प्रातः समुत्थाय रमानिवासं ।

नत्वा प्रतस्थे नगरं स्वमेव ॥

34

परस्परं ते सचिवा नृपस्य

राज्यं च हर्तुं कलहं विधाय ।

युद्धे हताः तेन जनाश्च सर्वे

राजानमैच्छन् पुनरेव पुर्याम् ॥

35

विलोक्य भूपं पुनरागतं तं

जनाश्च सर्वे मुदिताश्च भूयः ।

सिंहासने शङ्खणमभ्यषिञ्चन्

नष्टं च राज्यं पुनराप राजा ॥

36

विराजते सप्तगिरिर्जगत्यां

क्रीडाचलं सर्वजगत्पतेर्हि ।

यत्रैव विष्णुः कमलासहायः

करोति लीलां विपिनेषु नित्यम् ॥

37

भूलोकवैकुण्ठमिदं हि नूनं

वैकुण्ठनाथस्य परं निधानम् ।

यत्रैव सर्वे पशुपक्षिणश्च

वृक्षा लताश्चिन्मयरूपयुक्ताः ॥

38

यथा परं याति नरस्तु बन्धान्

विमुच्य सप्तावरणान्यतीत्य ।

तथा नराः सप्तगिरीनतीत्य

पश्यन्ति विष्णुं कमलानिवासम् ॥

39

विलोक्य चानन्दविमानमध्ये

विष्णुं परानन्दमयं शरण्यम् ।

संसारदुःखैः सहसा विमुक्ताः

गोविन्दनामानि च कीर्तयन्ति ॥

40

न वेङ्कटेशस्य समो हि देवः

क्षेत्रं तथा शेषगिरेः समानम् ।

सत्यं पुनः सत्यमिदं वदामि

श्रीवेङ्कटेशं शरणं प्रयात ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे स्वामितीर्थमाहात्म्यं नाम नवत्रिंशोऽध्यायः ॥
Ch.38 Prathama Bhāge Ch.40