Verses

पञ्चायुधतीर्थोत्पत्तिः Pañcāyudha Tīrtha Utpattiḥ

1

श्रीसद्गुरुरुवाच

ततः कदाचिन्नृपतेः सभाया- ।

मभ्याययुर्ब्राह्मणवेषगूढाः

सुराः साहाय्यार्थमेव ।

महीपतिं प्रार्थयितुं पुरस्तात् ॥

2

महीपतिः स्वागतसत्क्रियां च

विधाय पप्रच्छ शिवं च तेषाम् ।

बभाषिरे प्रीतियुताश्च देवा

बद्धाञ्जलिं चोलसुतं विनीतम् ॥

3

देवा ऊचुः

सिंहादनामा रजनीचरेन्द्रो ।

नारायणाद्रौ निवसन् जनानाम्

करोति हिंसां बहुधा नरेन्द्र ।

विधेहि युद्धे वधमस्य शीघ्रम् ॥

4

राजोवाच

न तादृशं मे बलमस्ति नूनं ।

स राक्षसेन्द्रस्त्वहमस्मि मर्त्यः

कथं करिष्याम्यहमद्य युद्धं ।

पर्याप्तसेनाबलविक्रमश्च ॥

5

देवा ऊचुः

तवैव राजन् खलु वेङ्कटेशः ।

सखा सुराणामभयप्रदो हि

बलेन तस्यैव हि संप्रविष्टः ।

कर्तुं समर्थोऽसि वधं खलस्य ॥

6

राजोवाच

सत्यं हि नूनं भगवान् कृपालुः ।

सखा मम श्रीपतिराप्तकामः

तं प्रार्थयन् तस्य बलेन युद्धे ।

यत्नं करिष्यामि न संशयो वा ॥

7

श्रीसद्गुरुरुवाच

विसृज्य देवानखिलान् नृपालो ।

गत्वा गिरिं वेङ्कटशैलनाथम्

विज्ञापयामास निजं चरित्र- ।

मभ्यागतानामभयप्रदानम् ॥

8

तदैव विष्णुर्नितरां प्रहृष्ट-

स्तस्मै निजं चक्रमतश्च शङ्खम् ।

कौमोदकीं नन्दकमेव शार्ङ्गं

पञ्चायुधानि प्रददौ परात्मा ॥

9

विवेश विष्णुर्हदयं च तस्य

तत्तेजसा शुशुभे भूमिपालः ।

आरुह्य चाश्वं गरुडांशभूतं

धीरः प्रतस्थे विजयाय तूर्णम् ॥

10

सर्वे सुराः केशवपार्षदाश्च

श्रीवेङ्कटेशस्य निदेशतो हि ।

तेनैव सार्धं ययुरायुधाढ्या

निशाचरेन्द्रस्य वधार्थमेव ॥

11

सिंहादनामाथ निशाचरेन्द्रः

श्रुत्वा रवं भूपतिसैनिकानाम् ।

क्रुद्धो भृशं राक्षससेनया च

समावृतः सङ्गरभूमिमाप ॥

12

शिलाप्रहारं च चकार घोरं

त्रिशूलहस्तो रजनीचरेशः ।

उन्मूल्य वृक्षान् परिचिक्षिपुश्च

रक्षोगणाः क्रोधसमाकुलाक्षाः ॥

13

रुरोध राजा निशितैः शरैः स्वैः

वृक्षप्रहारं च शिलाप्रहारम् ।

तत् साधु साध्वित्यमराः सहर्ष-

मुक्त्वा ननन्दुर्नृपतिं शशंसुः ॥

14

चिच्छेद बाहूंश्च शिरांसि हस्तान्

स तोण्डमानो लघुलीलयैव ।

रक्षांसि पेतुर्भुवि कोटिशश्च

निशाचरेशो नितरां चुकोप ॥

15

तदाऽनयन्मूलबलं दुरात्मा

मायामयं मोहकरं सुराणाम् ।

विलोक्य तत्खेदमवाप राजा

सस्मार लक्ष्मीपतिमिष्टदैवम् ॥

16

तन्मोहयामास च वेङ्कटेशः

स्वभक्तसंरक्षणदीक्षितो हि ।

परस्परं युद्धमिहापि कुर्वन्

नारायणाद्रेर्बलमस्ति पश्चात् ॥

17

तुण्डीरराजस्त्वथ चक्रहस्तो

सिंहादमागत्य रणे जघान ।

चक्रुश्च तस्योपरि पुष्पवर्षं

देवाश्च गन्धर्वगणा जगुश्च ॥

18

पुनश्च गत्वा पुरुषोत्तमं तं

प्रणम्य राजा विजयं बभाषे ।

बाष्पाकुलाक्षः परया च भक्त्या

पञ्चायुधानि प्रददौ च भूयः ॥

19

रमानिवासः कृपया स्वमित्र-

मालिङ्ग्य हृष्टो मधुरं बभाषे ।

पञ्चायुधाढ्यं पृथिवीपतिं च

तिष्ठन्तमग्रे प्रतिबिम्बवत् तम् ॥

20

श्रीभगवानुवाच

दत्तापहारं न करोमि पापं ।

पञ्चायुधानि त्वयि सन्तु नित्यम् ।

सारूप्यमेवं च गतोऽसि राजन् ।

न त्वादृशं मित्रमहं लभेय ॥

21

राजोवाच

चतुर्भुजं त्वामिह रिक्तहस्तं ।

विलोक्य खिन्नोऽस्मि च देवदेव

शङ्खं च चक्रं तव पाणिपद्म- ।

विभूषणं नूनमिदं मुकुन्द ॥

22

श्रीभगवानुवाच

अचिराद्धि कश्चिन्मम पाणिपद्मे ।

निधास्यति ब्रह्मविदां वरिष्ठः

ममैव भक्तो जलजं च चक्रं ।

हिरण्मयं संप्रति मा विषीद ॥

23

राजोवाच

अर्हामि नाहं तव शङ्खचक्रे ।

वोढुं कृपासागर वेङ्कटेश

विन्यस्यतां कुत्र तवायुधं तत् ।

आज्ञां निधेहि प्रियमादरेण ॥

24

श्रीभगवानुवाच

तथास्तु राजन्नुरगाचलेऽस्मिन् ।

मत्पादसञ्चारपवित्रिते च

पञ्चायुधान्यद्य निधेहि तत्र ।

तीर्थानि पञ्चाघहराणि च स्युः ॥

25

श्रीसद्गुरुरुवाच

एवं मुकुन्देन मुरारिणोक्तो ।

राजा च तस्मिन्निदधे गिरीन्द्रे ।

पञ्चायुधानि प्रकटीकृतानि ।

तीर्थानि पञ्चाघहराणि सद्यः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पञ्चायुधतीर्थोत्पत्तिः नाम अष्टात्रिंशोऽध्यायः ॥
Ch.37 Prathama Bhāge Ch.39