Verses

श्रीवेङ्कटेशाविर्भावः Śrī Veṅkaṭeśa Āvirbhāvaḥ

1

श्रीसद्गुरुरुवाच

ततः कदाचिद्गिरिकाननान्ते ।

विचित्रपत्रान्वितवृक्षकीर्णे

चचार नानामृगपक्षियुक्ते ।

कुर्वन् विहारं पथि चोलराजः ॥

2

ददर्श राजा भुजगेन्द्रकन्यां

यदृच्छया कामवशं गतोऽसौ ।

उद्वाह्य गान्धर्वविधानतस्तां

चक्रे वनान्ते विविधं विहारम् ॥

3

विसृज्य तां सान्त्वनपूर्वमेव

ययौ स्वदेशं पृथिवीपतिश्च ।

बिलं प्रविश्यैव ययौ स्वगेहं

रसातलस्थं रमणी सखेदम् ॥

4

श्रुत्वा तदीयं चरितं त्वहीन्द्रो

हर्षं प्रपेदे न तु कोपमस्याम् ।

कालेन सेयं सुषुवे कुमारं

स्वतेजसा वह्निमिव ज्वलन्तम् ॥

5

मातामहस्तस्य भुजङ्गराज-

श्चकार संस्कारमथोचितं च ।

तत्रैव बालो ववृधे सहर्षं

संलालितः सादरमेव मात्रा ॥

6

युवा विनीतो बहुसुन्दराङ्गो

ज्ञात्वा धनुर्वेदमथो महात्मा ।

विज्ञाय मातुर्वचनेन चोलं

भुवि स्थितं स्वं पितरं द्रष्टुमैच्छत् ॥

7

भूलोकमागत्य तथा कुमारः

समागमत् स्वं पितरं च चोलम् ।

राजा समाश्लिष्य सुतं प्रहृष्टः

पप्रच्छ भद्रं प्रददौ च राज्यम् ॥

8

स तोण्डमानो भुवि चोलपुत्रः

प्रख्यातिमाप प्रथितः प्रजाभिः ।

स्वभावतः श्रीधरपादपद्मे

बभूव विन्यस्तमना महात्मा ॥

9

शेषाद्रिसानौ निजराज्यमेष

संस्थापयामास ततो महात्मा ।

स्वधर्मनिष्ठान्निखिलान् जनांश्च

ररक्ष राजा त्वनुरञ्जयन् गुणैः ॥

10

ववर्ष काले भगवान् सुरेन्द्रः

सस्येन भूमिर्हरिता बभौ च ।

सर्वे जनाः संमुदितास्तदाऽऽसन्

पृथ्वीपतौ रक्षति तोण्डमाने ॥

11

कदाचिदागत्य नरेन्द्रमूचु-

र्गोरक्षणार्थं विपिने नियुक्ताः ।

गोपा महाश्चर्यविमुग्धचित्ताः

सगद्गदं ते पुलकीकृताङ्गाः ॥

12

वल्मीकमेकं विपिनेऽस्ति राजन्

गावस्तदागत्य यथा स्ववत्सम् ।

संस्रावयन्ति स्वयमेव दुग्धं

तत्कारणं चाशु विचार्यतां हि ॥

13

गोपालकानां वचनं महार्थं

विचारयन् भूपतिरास तूष्णीम् ।

कृषीवलः कश्चिदुपगतश्च

प्रणम्य राजानमुवाच वाक्यम् ॥

14

प्रियङ्गुकेदारमुपेत्य कोलो

धान्यं परं भक्षयति स्म राजन् ।

विद्रावितो हस्तविघट्टनेन

तत्रत्यवल्मीकबिलं विवेश ॥

15

आश्चर्यमेतत्परमं हि नूनं

विचार्यतां कारणमत्र राजन् ।

दैवं परं तत्र हि सन्निधत्ते

विधीयतां तस्य समर्चनं च ॥

16

श्रुत्वाऽथ वाक्यं च कृषीवलस्य

विसृज्य गोपानपि तं च राजा ।

विचारयन् चेतसि कारणं तज्जगाम

निद्रां हरिभक्तवर्यः ॥

17

स्वप्ने ददर्शाम्बुजपत्रनेत्रं

श्यामं युवानं वररत्नभूषम् ।

पप्रच्छ तं कस्त्वमिति प्रियेण

राजापि राजानमुवाच सोऽयम् ॥

18

शेषाचलेऽहं निवसामि राजन्

वल्मीकमध्ये जगतां हिताय ।

क्षीराभिषेकेन सुशोधय त्वं

तत्रैव मां द्रक्ष्यसि शीघ्रमेव ॥

19

अन्तर्दधे स्वप्नगतः कुमारो

राजा भृशं विस्मितचित्त आसीत् ।

प्रातः सहामात्यगणैर्जनैश्च

ददर्श वल्मीकमुपेत्य भक्त्या ॥

20

क्षीराभिषेकं च चकार राजा

विश्वासपूर्वं सहभक्तबृन्दैः ।

दैवात् वल्मीकबिले विशीर्णे

वराहमूर्तिर्ददृशे पुरस्तात् ॥

21

ततश्च वल्मीकवरेऽभिषिक्ते

श्रीवेङ्कटेशः स्वयमाविरासीत् ।

चतुर्भुजः सुन्दरदिव्यगात्रः

प्रसन्नहासाननपद्मनेत्रः ॥

22

श्रीवत्सचिह्नः श्रितपारिजात-

श्चतुर्भुजः शङ्खधरश्च चक्री ।

वरप्रदः कट्यवलम्बिहस्तः

कृपानिधिः कौस्तुभकन्धरश्च ॥

23

देवा ववर्षुः कुसुमानि भक्त्या

जगुश्च गन्धर्वगणाः सहर्षम् ।

मृदङ्गढक्कामुरजानि नेदुः

शङ्खध्वनिं चक्रुरनन्तदासाः ॥

24

गोविन्दनामानि च कीर्तयन्तः

श्रीवेङ्कटेशं ददृशुश्च भक्ताः ।

आनन्दबाष्पार्द्रविलोचनाश्च

रोमाञ्चगात्राश्च विमूर्च्छितास्ते ॥

25

एवं प्रसन्नं भगवन्तमीक्ष्य

बद्धाञ्जलिर्बाष्पकलाकुलाक्षः ।

श्रीवेङ्कटेशं वरदं वरेण्यं

तुष्टाव राजा जगतां शरण्यम् ॥

26

राजोवाच

नमो नमस्तेऽखिललोकसाक्षिन् ।

नमो नमस्ते नलिनायताक्ष

नमो नमस्ते वृषशैलनाथ ।

नमो नमस्ते भक्तवत्सलोऽसि ॥

27

न कर्मयोगो न च भक्तियोगो

न ज्ञानयोगो मयि देवदेव ।

त्वामेव तस्माच्छरणं प्रपद्ये

प्रतीक्षते मातृदयां शिशुर्हि ॥

28

वृतोऽस्मि पूर्वं कृपया त्वयैव

तस्मान्ममापि स्मरणं प्रजातम् ।

कथं सुगम्योऽसि विविक्तसाक्षिन्

मन्मेधया मद्वचनेन वापि ॥

29

निर्व्याजकारुण्यनिधिस्त्वमेवं

स्वभावतः श्रीधर वेङ्कटेश ।

यथाकथञ्चिद्रचितं मयापि

समर्चनं त्वं बहुमन्यसे हि ॥

30

अवाप्तकामोऽसि च नित्यतृप्तः

स्वयं निजानन्दरसामृतेन ।

प्रियङ्गुमात्रप्रियभक्षणेन

प्रीणासि च त्वं तुलसीदलेन ॥

31

कैवल्यदाताऽपि कृपानिधे त्वं

काम्यार्थिनां कामवरप्रदोऽसि ।

निर्व्याजभक्त्यापि सकृन्नतानां

ददासि चात्मानमपि प्रभो त्वम् ॥

32

कस्त्वत्पदाम्भोजयुगं विहाय

चान्यत्र गन्तुं भुवि कामयेत ।

सर्वत्र दुःखं च भयं च चिन्ता-

मवाप्य वैराग्यतो विवेकी ॥

33

तस्माच्छरण्यं जगतां त्रयाणां

त्वामेव देवं शरणं प्रपद्ये ।

संसारकूपे पतितं च दीनं

समुद्धर त्वं कृपया मुरारे ॥

34

श्रीसद्गुरुरुवाच

एवं स्तुतः पद्मदलायताक्षो ।

दृष्ट्वा स्वभक्तं कृपया नरेन्द्रम्

उवाच देवः करपल्लवेन ।

दत्वाऽभयं बिम्बफलाधरश्च ॥

35

श्रीभगवानुवाच

वशं गतोऽस्मि स्वयमेव राजन् ।

विलोक्य भक्तिं तव भावपूर्णाम्

ततः प्रसन्नोऽस्मि महीधरेऽस्मिन् ।

क्षेमं विधातुं शरणागतानाम् ॥

36

रामावतारेऽम्बुजबन्धुपुत्रः

कृष्णावतारेऽपि च पाण्डुसूनुः ।

यथा तथा त्वं मम मित्रभूतो

मत्प्रेमपात्रं च सदैव भूयाः ॥

37

निर्माय मे मन्दिरमत्र राजन्

नित्योत्सवादीन् नियतं विधेहि ।

दास्यामि सर्वत्र जयं तवाहं

कदापि ते शत्रुभयं च न स्यात् ॥

38

श्रीसद्गुरुरुवाच

इत्येवमुक्तः पृथिवीपतिश्च ।

जगत्पतिं भक्तिभराश्रुनेत्रः

प्रणम्य हृष्टो भवनं जगाम ।

मेने कृतार्थं निजजन्म पृथ्व्याम् ॥

39

निर्माय विष्णोः शुभमालयं च

नित्योत्सवं तत्र चकार राजा ।

दिने दिने भक्तजनाः सहर्ष-

मागत्य देवं ददृशुर्मुकुन्दम् ॥

40

अवापुरन्धाः पुनरेव दृष्टिं

रुग्णा बभूवुश्च विमुक्तरोगाः ।

वन्ध्याश्च सत्पुत्रमवापुरस्य

शेषाचलेशस्य हि दर्शनेन ॥

41

अभ्यर्चितानां सहसा वराणां

दाता वदान्यः करुणाम्बुराशिः ।

सर्वत्र लोके सततं जनानां

श्रीवेङ्कटेशः कुलदैवमासीत् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीवेङ्कटेशाविर्भावो नाम सप्तत्रिंशोऽध्यायः ॥
Ch.36 Prathama Bhāge Ch.38