Verses

श्रीवृषभाद्रिनारायणाद्रिऽञ्जनाद्रि वेङ्कटाद्रिवैभवम् Śrī Vṛṣabhādri Nārāyaṇādri Añjanādri Veṅkaṭādri Vaibhavam

1

श्रीसद्गुरुरुवाच

विज्ञाय सान्निध्यमथो मुरारे- ।

स्तत्राययुर्योगिवरा मुनीन्द्राः

तपोधनास्तत्र तपश्च चक्रु- ।

र्दिदृक्षया वेङ्कटनायकस्य ॥

2

चकार हिंसां वृषभासुरस्तु

तेषां मुनीनां भगवत्पराणाम् ।

विष्णुं शरण्यं शरणं ययुस्ते

विरोधनाशाय वृषासुरस्य ॥

3

तदा मुकुन्दः शबरेन्द्ररूपं

दिव्यं गृहीत्वा तुरगाधिरूढः ।

चचार धन्वी वरखड्गधृक् च

कुर्वन् महाद्रौ मृगयाविहारम् ॥

4

दृष्ट्वाथ माधवमीक्ष्य दैत्यः

क्रन्दन् सकोपं पथि तीक्ष्णशृङ्गः ।

विव्याध तं बाणवरेण विष्णु-

मारुरोज दैत्यः सहसा निपत्य ॥

5

रूपं सहसा विहाय

दैत्यस्वरूपेण बहिर्गतोऽसौ ।

तुष्टाव भक्त्या हरिमार्तबन्धुं

भक्तप्रियं भाग्यवतां वरिष्ठः ॥

6

वृषभासुर उवाच

जगत्पते त्वं कृपयावतीर्णो ।

विराजसे शेषगिरौ मुकुन्द

अनुग्रहार्थं च सतां मुनीनां ।

तथा खलानामपि निग्रहार्थम् ॥

7

तवैव हस्तेन वधो ममैवं

प्राप्तस्तदेतन्मम भाग्यमेव ।

विमुच्य पापादहमप्यनन्त

तवैव पादौ शरणं गतोऽस्मि ॥

8

मातुर्यथा शिक्षणमर्भकाणां

क्षेमाय वै देव तथाऽसुराणाम् ।

त्वया कृतं शिक्षणमप्यमोघं

भद्रं ददात्येव दयासमुद्र ॥

9

जानाम्यहं त्वां जगदेकनाथं

शिष्टाश्च दुष्टाश्च वसन्ति लोके ।

दुष्टोऽप्यहं तावक एव नूनं

तस्मादहं ते दयनीयजीवः ॥

10

श्रीभगवानुवाच

देहावसाने मम सन्निधाने ।

ज्ञानं तवाभूत्कृपया ममैव

माहात्म्यमेतत् खलु दैत्यवर्य ।

क्रीडाचलस्यैव ममाघहर्तुः ॥

11

अद्यप्रभृत्येष गिरिस्तवैव

नाम्ना भुवि ख्यातिमवाप्स्यतीह ।

त्वमप्यनन्ते मम धाम्नि वासं

अवाप्स्यसीत्येव वरं ददामि ॥

12

श्रीसद्गुरुरुवाच

एवं मुकुन्दो वृषभस्य दत्वा ।

वरं वरेण्योऽन्तरधात्तदैव ।

दिवं ययौ दैत्यवरोऽपि तस्मा- ।

द्वदन्ति सन्तो वृषभाचलं च ॥

13

वैखानसो विप्रवरः कदाचि-

न्नारायणो नाम सतां वरिष्ठः ।

द्विजातिमुख्योऽत्र तपश्चकार

नारायणस्यैव हि दर्शनार्थम् ॥

14

नारायणः शङ्खसुदर्शनाभ्या-

मलङ्कृतः कौस्तुभकन्धरश्च ।

वरप्रदः कट्यवलम्बिहस्तो

ददौ परात्मा निजदर्शनं च ॥

15

तं श्रीनिवासं जगदेकनाथं

तुष्टाव भक्त्या पुलकीकृताङ्गः ।

नारायणो विप्रवरो मुकुन्द-

मानन्दबाष्पाकुलकञ्जनेत्रः ॥

16

नारायण उवाच

सुरासुराणामपि दुर्लभं त्वां ।

पश्यामि देवं पुरतो ममैवम्

अहो कृतार्थोऽस्मि रमानिवास ।

कथं करिष्यामि समर्चनं ते ॥

17

सङ्कल्पहेतुं मनसोऽप्यतीतं

ध्यायाम्यहं त्वां कथमादिदेवम् ।

सर्वत्र संव्याप्तमजं च विष्णुं

आवाहयिष्यामि कथं क्वचित्त्वाम् ॥

18

आधारभूतस्य तवासनं च

समर्पयिष्यामि कथं ह्यनन्त ।

कथं प्रदास्यामि विशुद्धमूर्तेः

पाद्यं तथार्ध्यं च महाभिषेकम् ॥

19

आकाशरूपस्य दिगम्बरस्य

वस्त्रं कथं तेऽपि च धारयामि ।

प्रकृत्यलिप्तस्य तवापि गन्धं

कथं प्रलिम्पामि च सर्वगन्ध ॥

20

स्वयंप्रकाशस्य तवापि दीपं

प्रदर्शयिष्यामि कथं मुकुन्द ।

कालस्वरूपस्य च सर्वभोक्तु-

र्दास्यामि नैवेद्यमहं कथं ते ॥

21

सर्वत्र संव्याप्तं सदैकरूपं

कथं नमस्यामि विभिन्नदेशे ।

अनामरूपमगुणं च वाचा-

मगोचरं नौमि कथं तथा त्वाम् ॥

22

तस्माद्विसृज्याखिलसाधनानि

मौनेन तिष्ठामि सदा निरीहः ।

यदिच्छसि त्वं रचितां च पूजां

पूजाविधिं ते वद लोकनाथ ॥

23

श्रीभगवानुवाच

भूत्वा तथाहं मनसोऽप्यतीतो ।

विशामि भक्तस्य मनः स्वयं हि

व्याप्तोऽपि सर्वत्र कृपावशेन ।

सान्निध्यमेवं हि करोमि मूर्त्याम् ॥

24

आधारभूतोऽपि वसामि पीठे

भक्तार्पिते कूर्चमयेऽपि हृष्टः ।

सदा विशुद्धोऽपि च कामयेऽहं

पञ्चामृतस्नानमहं तथाऽर्घ्यम् ॥

25

पत्रं च पुष्पं च फलं च तोयं

अश्नामि दत्तं प्रियभक्तिपूर्वम् ।

स्वयंप्रकाशोऽपि घृतप्रदीपं

पश्यामि भक्तेन समर्पितं चेत् ॥

26

अनामरूपोऽपि च नामरूपं

स्वयं गृहीत्वा पुरतो वसामي ।

शृणोमि भक्तस्य च नामगानं

स्तुतिं च तत्प्रेमवशीकृतोऽहम् ॥

27

ममैव चित्ताद्विखना मुनीन्द्रः

पुराऽऽविरासीन्मम पूजनाय ।

पूजाविधिर्मे गदितो मयैव

तस्मै प्रपन्नाय विशारदाय ॥

28

स्वतः पवित्रे विखनः कुले त्वं

जातोऽसि पुण्यैर्बहुभिर्ममार्चाम् ।

विधेहि वैखानसशास्त्रमार्गं

आलम्ब्य सान्निध्यमहं करिष्ये ॥

29

यः शास्त्रमुत्सृज्य यथामतिर्मे

पूजां करोति श्रम एव नूनम् ।

गृह्णामि नैवाहमभक्तदत्तं

शास्त्रं प्रमाणं हि ममार्चनस्य ॥

30

श्रीसद्गुरुरुवाच

नारायणो विप्रवरो मुरारे- ।

राज्ञां वहन् सादरमेव मूर्ध्ना

वैखानसोक्तेन पथैव पूजां ।

चकार नित्यं पुरुषोत्तमस्य ॥

31

तस्यैव नाम्ना द्विजपुङ्गवस्य

नारायणाद्रिं प्रवदन्ति सन्तः ।

नारायणो यत्र सदा प्रसन्नो

भूदेवदेवो जगतां हिताय ॥

32

राजा पुरासीदिह वानराणां

नाम्ना प्रसिद्धः खलु केसरीति ।

तस्यापि भार्याभवदञ्जनेति

ख्याता जगत्यां गुणशीलरूपैः ॥

33

अपुत्रिणी पुत्रवरं च लब्धुं

तपश्चकारात्र कपीन्द्रपत्नी ।

अमूर्तिमानागत एव तस्यै

फलं ददौ तां परिरभ्य वायुः ॥

34

वायोः प्रसादात् सुषुवे च पुत्रं

महाबलं बुद्धिमतां वरिष्ठम् ।

अयोनिजं सुन्दरविग्रहं च

तेजस्विनं वायुसमं जवेन ॥

35

विलोक्य सूर्यं कपिनन्दनोऽयं

फलं च मत्वा सहसोत्थितः खे ।

पुप्लाव लीलाललितः प्लवङ्गो

दृष्ट्वा बिभेति स्म दिवाकरोऽपि ॥

36

न्यवारयत्तं त्वरया सुरेन्द्रः

प्रताडयित्वा पविना मुखाब्जे ।

पपात भूमौ सहसाऽर्भकोऽपि

विलोक्य माता प्रललाप दीनम् ॥

37

विलोक्य पुत्रं भुवि पातितं तं

सदागतिश्चैवमचञ्चलोऽभूत् ।

स्तब्धं समस्तं च समीरकोपा-

त्तदा जगत्प्राणनिरोधहेतोः ॥

38

ततो विधाता स्वयमेव गत्वा

समीरपुत्रं कृपया कराभ्याम् ।

आदाय संसान्त्व्य वरं ददौ च

सर्वे च देवाः प्रणतिं च चक्रुः ॥

39

कोदण्डपाणेः खलु सेवनाय

जातः कुमारः परमस्य विष्णोः ।

तस्मादमुं बुद्धिमतां वरिष्ठं

संश्रावयिष्यामि च सर्वशास्त्रम् ॥

40

इति स्वयं शिष्यवरं विधाय

निधाय चाग्रे च सहस्ररश्मिः ।

संश्रावयामास समस्तशास्त्रं

सर्वज्ञमेनं तु समीरपुत्रम् ॥

41

सद्ब्रह्मचारी स्वयमेव शुद्धः

समस्तशास्त्रार्थविशारदोऽयम् ।

प्रतीक्षमाणो भगवन्तमेव

प्रवर्षणाख्ये न्यवसद्गिरौ च ॥

42

जन्मस्थलं भागवतोत्तमस्य

महाचलं वायुकुमारकस्य ।

ततोऽञ्जनाद्रिं प्रवदन्ति सन्तो

यत्राञ्जना साधु तपश्चकार ॥

43

आसीत् पुरा माधवनामधेयो

विप्रो युवा चारुकलेबरश्च ।

क्वचिद्वै कामवशेन सञ्चरं-

श्चण्डालकन्यां ललितामवाप ॥

44

धर्मं सदाचारमथो कुलं च

लज्जां तथा बन्धुभयं विसृज्य ।

तामाजुहाव स्मरबाणखिन्नो

दुद्राव भीता द्विजमीक्ष्य सा तु ॥

45

यथाकथञ्चित्परिगृह्य कन्यां

रेमे तया कामवशं गतोऽसौ ।

जगाद गत्वा पितरं स्ववृत्तं

चण्डालकन्या रुदती सलज्जम् ॥

46

चण्डालकन्यामनुसञ्चरन्तं

सर्वे च तद्बन्धुजना निजघ्नुः ।

दुद्राव स प्राणभयेन पापी

तिरस्कृतो बन्धुजनैः स्वकैश्च ॥

47

इतस्ततो ग्रामकुटीषु सञ्चरन्

भिक्षामटन् दीनतमो बभूव ।

जातो महापापवशेन रोगः

चचार लोके व्रणखिन्नदेहः ॥

48

ब्रह्मबन्धुः कृपणो दुरात्मा

यदृच्छया सप्तगिरिं प्रपेदे ।

विसृज्य वैकुण्ठमनन्तमूर्ति-

र्विराजते यत्र नृणामघघ्नः ॥

49

प्रवेशमात्रेण तु तस्य पापं

ददाह वह्निर्गिरिवैभवेन ।

शुद्धोऽभवद्रोगविमुक्तदेहः

सद्ब्राह्मणत्वं कृपया मुरारेः ॥

50

ततो मुनीन्द्रैर्बहुमानितोऽयं

दृष्ट्वा समभ्यर्च्य च वेङ्कटेशम् ।

लब्ध्वाऽभ्यनुज्ञां पुनराप गेहं

संमानितो बन्धुजनैरभूच्च ॥

51

वेकारतः प्राहुरघं समस्तं

कटस्तु तद्दाह इतीर्यते बुधैः ।

नृणां महापापविनाशकत्वा-

दयं गिरिर्वेङ्कटनामधेयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीवृषभाद्रि-नारायणाद्रि-अञ्जनाद्रि-वेङ्कटाद्रिवैभवं नाम षट्त्रिंशोऽध्यायः ॥
Ch.35 Prathama Bhāge Ch.37