Verses

नारदाभ्यर्थनम् Nārada Abhyarthanam

1

श्रीसद्गुरुरुवाच

समस्तकल्याणगुणाभिरामं ।

रमानिवासं रमणीयगात्रम्

सशङ्खचक्रं जगतां शरण्यं ।

श्रीवेङ्कटेशं शरणं प्रपद्ये ॥

2

वक्ष्यामि शेषाचलवैभवं तत्

समस्तसन्मङ्गलदायकं च ।

तापत्रयस्यापि विनाशनं च

भक्तिप्रदं श्रीधरपादपद्मे ॥

3

आविर्भवस्थानमिदं रमाया-

स्तथा सुधायाः शशिनः सुरभ्याः ।

चिन्तामणेः कल्पतरोर्यदेव

विष्णोः परं धाम विराजते तत् ॥

4

तपोधनानां च दिवौकसां च

गन्धर्वविद्याधरकिन्नराणाम् ।

मुहुर्मुहुर्दैत्यविहिंसितानां

शरण्यमेतत् पदमेव विष्णोः ॥

5

क्षीराम्बुधेर्लोलतरङ्गजालै-

र्लाल्यमाने फणिराजतल्पे ।

सुखं शयानः पुरुषोत्तमोऽत्र

संदृश्यते योगनिमीलिताक्षः ॥

6

सदैव कुर्वन्नपि योगनिद्रां

संरक्षणार्थं शरणागतानाम् ।

शेते मुरारिर्ननु जागरूको

निद्रा कुतः कार्यधुरन्धराणाम् ॥

7

फणासहस्रस्थमणिप्रवेक-

पङ्क्त्यां सदैव प्रतिबिम्बभूतम् ।

मुखं मुरारेस्तु सहस्रशोऽपि

विलोक्य तृप्तिं कमला न लेभे ॥

8

नामानि गायन् मधुराक्षराणि

वीणां सहर्षं रणयन् सुरर्षिः ।

आयात् भागवतप्रधानो

दिदृक्षया सर्वगतस्य विष्णोः ॥

9

नारायणो नारदमीक्ष्य तूर्ण-

मुत्थाय सुस्वागतमब्रवीच्च ।

विराजयन् विद्रुमसंपुटाभ-

मोष्ठद्वयं मौक्तिकदन्तयुक्तम् ॥

10

तं देवदेवं जगदेकनाथं

पीताम्बरं पद्मदलायताक्षम् ।

प्रसन्नवक्त्रं पुरुहूतमित्रं

पद्माविलोलं भगवन्तमाद्यम् ॥

11

श्रीकौस्तुभालङ्कृतकम्बुकण्ठं

श्रीवत्सचिह्नाङ्कितवक्षसं च ।

विलोक्य नेत्रोत्सवनीलमूर्तिं

तुष्टाव बद्धाञ्जलिरादरेण ॥

12

नारद उवाच

अनामरूपोऽपि भवान्नराणा- ।

मुपासनार्थं धृतनामरूपः

करोति नानाविधकेलिकाश्च ।

भक्तप्रियो भक्तजनानुकूलः ॥

13

प्रभुत्वमिच्छन्ति तथैव पूजां

फलं प्रयच्छन्ति च कर्मदासाः ।

दयां न कुर्वन्ति सुराश्च सर्वे

किन्तु त्वमेको ननु दीनबन्धुः ॥

14

वेदं प्रमाणं प्रवदन्ति सर्वे

धर्मस्य लोकस्य च मङ्गलस्य ।

निहत्य दैत्यं मधुकैटभौ तौ

त्वया विना केन समाहृतः सः ॥

15

धरां निमग्नां प्रलयाम्बुराशौ

उद्धृत्य कस्तिष्ठति दंष्ट्रयैव ।

आधारभूतं जगतामपि त्वां

वराहमाद्यं बत न स्मरन्ति ॥

16

तवैव पृष्ठे विनिधाय शैलं

कृपाविहीना मथनं विधाय ।

सुधां पिबन्ति स्म सुराश्च सर्वे

परोपकारार्थमिदं वपुस्ते ॥

17

नृसिंह्यरूपेण पुरा त्वयैव

हत्वाऽऽदिदैत्यं ह्यभयं च दत्तम् ।

ततः प्रशंसन्ति निजं प्रभावं

देवास्त्वदग्रेऽपि किमत्र चित्रम् ॥

18

त्रैविक्रमं रूपमुपेत्य पूर्वं

संपादितं वज्रधराय राज्यम् ।

दत्वा बलेर्द्वारमुपेत्य हन्त

गदाधरस्तिष्ठसि भृत्यवत्त्वम् ॥

19

कुले च राज्ञां भुवि चोरभूते

निरादरे दीनजने समस्ते ।

स्वलीलया क्षत्रवधं विधाय

दत्तं जनानामभयं हि केन ॥

20

दत्वा वरं दानवेऽपि गूढे

शिवेऽपि तस्मिन् कृतपक्षपाते ।

गतेषु देवेषु च दासभावं

शक्तोऽभवत्को दशवक्त्रहत्यै ॥

21

कालीयनाट्येन दवाग्निपानाद्

गोवर्धनोद्धारणलीलया च ।

संरक्षितं गोकुलमेव बाल्ये

जारं च चोरं प्रवदन्ति च त्वाम् ॥

22

यदा यदा स्याद्भुवि धर्महानिः

भयेन तिष्ठन्ति सुराश्च सर्वे ।

तदा तदा त्वं ह्यवतीर्य लोके

भूयोऽपि धर्मं परिपासि देव ॥

23

केचिद्विधिं केचन रुद्रमेवं

केचित्तथान्याश्च सुरान् भजन्ते ।

काम्यार्थिनः क्षिप्रफलप्रदास्तां-

स्त्वां नैव जानन्ति किलात्मबन्धुम् ॥

24

न नाकपृष्ठं न च पारमेष्ठ्यं

न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीः अपुनर्भवं वा

वाञ्छामि भक्तिं सुदृढां प्रयच्छ ॥

25

न ध्यानयोगे न च कर्मयोगे

न ज्ञानयोगेऽपि मतिं गतोऽस्मि ।

त्यक्त्वा समस्तं ननु साधनं त्वां

शरण्यमेकं शरणं भजामि ॥

26

ब्रह्मादिदेवान् हृदि बद्धकामाः

ये त्वाश्रयन्ति ध्रुवमाश्रयन्तु ।

पश्यामि नान्यां गतिमादिदेव

संसारमोक्षाय विना भवन्तम् ॥

27

श्रीसद्गुरुरुवाच

एवं स्तुतः क्षीरपयोधिशायी ।

कृपानिधिः कञ्जदलायताक्षः

तं नारदं भक्तवरं मुनीन्द्र- ।

मुत्थानशायी भगवानुवाच ॥

28

श्रीभगवानुवाच

विहर्तुमिच्छामि भुवं गतोऽहं ।

श्रिया धरण्या सह पार्षदैश्च

योग्यं स्थलं त्वं वद योगिराज ।

यत्रैव वत्स्यामि सतां शरण्यः ॥

29

अनाद्यविद्याशयने प्रसुप्तान्

अचित्समान् वीक्ष्य कृपावशेन ।

मया हि दत्तं करणत्रयं च

तथापि मां नैव भजन्ति जीवाः ॥

30

कृत्वाऽवतारान् जनरक्षणाय

श्रान्तोऽहमस्म्याश्रितवत्सलोऽपि ।

अर्चावतारं परिगृह्य भूयो

भूमौ हि वत्स्यामि नृणां हिताय ॥

31

नारद उवाच

अन्तं न पश्यामि च ते कृपायाः ।

कृपाम्बुराशे जगदेकबन्धो

वैकुण्ठलोकं च विसृज्य दिव्यं ।

संसारिभिर्वासमिहेच्छसि त्वम् ॥

32

वासं तवेच्छामि मुकुन्द जम्बू-

द्वीपे च वर्षे भुवि भारताख्ये ।

वने पवित्रे च तटे सुवर्ण-

मुखीतटिन्या द्रविडे च देशे ॥

33

तत्रैव पूर्वं तव दर्शनार्थं

वासं प्रकुर्वन्ति तपश्चरन्तः ।

तपोधनास्तामरसाक्ष देहि

तेषां च ते दर्शनमद्य शीघ्रम् ॥

34

श्रीसद्गुरुरुवाच

आकर्ण्य वाक्यं भगवान् सुरर्षे- ।

र्हृदि स्थितं स्वस्य तथैव चोक्तम्

चकार सङ्कल्पमिहादरेण ।

तमेव देशं रमया च गन्तुम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे नारदाभ्यर्थनं नाम चतुस्त्रिंशोऽध्यायः ॥
Ch.33 Prathama Bhāge Ch.35