Verses

सिह्माचलमाहात्म्यम् Siṃhācala Māhātmyam

1

भागवता ऊचुः

भगवन् करुणामूर्ते सद्गुरो सर्वदर्शिन् ।

श्रुतानि स्थानमुख्यानि विष्णोर्भारतमण्डले ॥

2

अवतारवरिष्ठस्य नरसिंहस्य वेधसः ।

स्थानानि वद लोकेऽस्मिन् तत्र तत्र स्थितानि नः ॥

3

श्रीसद्गुरुरुवाच

नृसिंहरहितं क्षेत्रं न भूतं न भविष्यति ।

नृसिंहो भगवान् लोकं सर्वत्र व्याप्य तिष्ठति ॥

4

भूमौ नृसिंहो भुवने नृसिंहो

वायौ नृसिंहो वचने नृसिंहः ।

अग्नौ नृसिंहोऽप्यमृते नृसिंह

आकाशदेशेऽप्यखिले नृसिंहः ॥

5

छाया नृसिंहः सवनं नृसिंहः

कायो नृसिंहः कनकं नृसिंहः ।

वनं नृसिंहो वनिता नृसिंहो

यदस्ति यन्नास्ति च तन्नृसिंहः ॥

6

सर्वत्र पश्यन् सततं नृसिंहं

प्रह्लादनामा भगवत्प्रियस्तु ।

अवाप सर्वत्र च भद्रमेव

कुतोऽभद्रं हरिसेवकानाम् ॥

7

भागवता ऊचुः

प्रह्लादचरितं पुण्यं भक्तकर्णसुखावहम् ।

वद सद्गुरुराजेन्द्र हरिभक्तिविवर्धनम् ॥

8

श्रीसद्गुरुरुवाच

पुरा ब्रह्मपुत्राः कुमाराः प्रसिद्धा ।

ययुर्विष्णुलोकं हरिं द्रष्टुकामाः।

तदा द्वारपालौ सलीलं निरुद्ध्य ।

प्रशप्तौ तथा तैरभूतां च दैत्यौ ॥

9

हिरण्याक्षोऽनुजस्तु प्रभुं चक्रपाणिं

वराहावतारं परं योद्धुकामः ।

गदापाणिराराद्ययौ सङ्गरे तं

जघानादिदेवो जनानां हिताय ॥

10

ततो दैत्यराजो विधातारमीक्ष्य

विधायैव घोरं तपो दुष्करं च ।

न केनापि मृत्युर्भवेद्ब्रह्मसृष्टौ

इति प्राप्तगर्वो ययाचे वरं सः ॥

11

वरेण प्रमत्तः सुरान् आदिदैत्यो

वशीकृत्य बन्द्यां निधाय स्वयं हि ।

शशासाखिलं लोकमत्याग्रहेण

जनान् पीडयन् धर्मनिष्ठापरांश्च ॥

12

कदाचित्सुराः सिद्धविद्याधराश्च

मुनीन्द्रा मुकुन्दं शरण्यं प्रपन्नाः ।

हनिष्यामि शीघ्रं हि भक्तापराधात्

इति प्राह देवो भक्ताभिमानी ॥

13

भागवता ऊचुः

कोऽयं भक्तो देशिकेन्द्र विष्णुनाभिहितो महान् ।

यस्यापराधमात्रेण हिरण्यकशिपुर्हतः ॥

14

किमनेनापराद्धं च भक्तस्य वनमालिनः ।

भक्तापराधपापस्य प्रायश्चित्तं न विद्यते ॥

15

श्रीसद्गुरुरुवाच

प्रह्लादाख्यः पुत्रवर्यो बभूव ।

गर्भश्रीमान् विष्णुना वीक्षितो हि।

तं सर्वज्ञं पाठयामास बालैः ।

आचार्यौ हि शुक्रपुत्रौ नियम्य ॥

16

सर्वान् पाठान् संविहाय स्वयं स

विष्णोर्नामान्यादरेणैव गायन् ।

विद्याशालामागतान् बालकांश्च

श्रद्धापूर्वं गापयामास नित्यम् ॥

17

एतच्छ्रुत्वा दैत्यराजः स्वपुत्रं

नीत्वा गेहं साधु पप्रच्छ पाठम् ।

सारो विष्णोर्भक्तिरेवेति बालो

व्यक्तं प्राह ब्रह्मविद्यापरोऽयम् ॥

18

श्रुत्वा कोपं प्राप्य दैत्येश्वरोऽमुं

हन्तुं चक्रे दैत्यवीरान् निदेशम् ।

दैत्यास्तेऽपि ब्रह्मनिष्ठं च बालं

शूलैर्हन्तुं चक्रिरे यत्नमेव ॥

19

भग्नान्येवं शूलवर्याणि तस्मिन्

भक्त्या विष्णुं भावयत्यादिदेवम् ।

दैत्याः सर्वे विस्मयं प्राप्य भूयो

गत्वा प्रोचुर्दैत्यराजं सुतेन ॥

20

भागवता ऊचुः

निष्फलं तत्प्रयासं च श्रुत्वा किमकरोदथ ।

तादृशं विष्णुभक्तस्य बलं वीक्ष्यापि दैत्यराट् ॥

21

परमाश्चर्यमेतद्धि सुकुमारकलेबरे ।

शिशौ तस्मिन्निमग्नानां शूलानां भग्नता पुनः ॥

22

श्रीसद्गुरुरुवाच

तं पाययामास कयाधुनैव ।

हालाहलाख्यं विषमादिदैत्यः।

विषं च तस्मिन्नमृतं बभूव ।

सर्वत्र विष्णोः स्मरणेन हन्त ॥

23

कार्कोटकादीन् वरदन्तशूकान्

संप्रेषयामास सुतं निहन्तुम् ।

दष्टोऽपि तैर्हृष्टमना बभूव

सर्वत्र विष्णोः स्मरणेन हन्त ॥

24

पुत्रं निहन्तुं कुलिशाग्रदन्तान्

संप्रेषयामास गजान् प्रमत्तान् ।

न क्लेशलेशं समवाप बालः

सर्वत्र विष्णोः स्मरणेन हन्त ॥

25

तं पातयामास महीधराग्रात्

महीतले मन्दमतिः स दैत्यः ।

धरयैव साक्षादवितो बभूव

सर्वत्र विष्णोः स्मरणेन हन्त ॥

26

भागवता ऊचुः

एवं प्रह्लादमाहात्म्यं साक्षाद्दृष्ट्वापि दैत्यराट् ।

प्राप केशवे भक्तिं वात्सल्यं पुत्रकेऽपि वा ॥

27

देवानामपि दैत्यानां मुनीनां च नृणामिह ।

सर्वत्र समबुद्धिश्च विष्णुभक्तिः सुदुर्लभा ॥

28

श्रीसद्गुरुरुवाच

क्वासौ विष्णुः सकलजगतामीश्वरो दर्शय त्वं ।

सर्वत्रास्ते यदि मम पुरो दृश्यते नैव किं सः।

स्तम्भेऽप्यस्मिन्निवसति स किं दर्शय क्रोधपूर्वं ।

पृच्छन्नेवं सुतमथ खलस्ताडयामास मुष्ट्या ॥

29

आविर्भूतं सपदि निखिलस्तम्भनं स्तम्भमध्यात्

डिम्बस्यापि स्वयमिह वचस्तस्य सत्यं विधातुम् ।

सत्तामात्रं सकलजगतां कारणं ब्रह्म नित्यं

व्यक्ताव्यक्तं परमममृतं नारसिंहस्वरूपम् ॥

30

धृत्वा खड्गं दितिसुतवरे चागते तं गृहीत्वा

सन्ध्याकाले स खलु भगवान् स्वाङ्कपीठे निधाय ।

कृन्तन् घोरं स्वकरनखरैस्तद्वपामुद्हरंश्च

तद्रक्तेनाप्यरुणितमहाकेसरो भीकरोऽभूत् ॥

31

श्रुत्वा घोरं नरहरितनोर्गर्जनं तत्र विष्णो-

र्ब्रह्मा रुद्रोऽप्यमरनिकरा दुद्रुवुर्भीतभीताः ।

त्रस्ताः सर्वे निवसति रमा शङ्कया दूरदेशे

बालस्त्वेवं नृहरिनिकटं प्राप बद्धाञ्जलिः सः ॥

32

प्रह्लादं तं परमविनयं वीक्ष्य सद्यः प्रसन्नो

भूत्वा विष्णुः प्रियसुतमिवोत्थाप्य चाङ्के निवेश्य ।

पप्रच्छापि प्रणयविवशं भद्रमेवादरेण

बाष्पस्निग्धः पुलकिततनुः साधु तुष्टाव विष्णुम् ॥

33

प्रह्लाद उवाच

नमो भगवते तुभ्यं विश्वव्यापकविष्णवे ।

मयि वात्सल्यमात्रेण स्तम्भादाविर्बभूवुषे ॥

34

लोकानां मङ्गलाय त्वमाविर्भूतोऽसि माधव ।

स्तम्भे नृसिंहरूपेण भक्तानां पालनाय च ॥

35

गर्भस्थितस्य मम माधव साधुसङ्गं

दत्वा स्वयं स्वचरणाम्बुजभक्तिनिष्ठम् ।

कृत्वा ससर्जिथ विभो करुणैकसिन्धो

मां तावकं प्रियजनं सुजना वदन्ति ॥

36

हालाहलं विषमभूद् अमृतं तथाऽग्निः

शीतोऽभवत् क्षितितलं मृदुलं तथाऽभूत् ।

एवं स्वभावपरिवर्तनमेतदेव

किं मे पितुर्न हि भवेद्भगवन् त्वदिच्छा ॥

37

घोरैः कराग्रनखरैर्निहतः पिता मे

भक्तस्य ते तदुचितं खलु ते कृपालो ।

शापस्य मोचनमिहैव परं चिकीर्षो-

रेवं विधिस्तव कृपाजलधेः किलाभूत् ॥

38

तातोऽपि मे विधिमुखाच्च वरानवाप्य

त्वत्पाणिजैर्निजवधं स्वयमेव ह्यैच्छन् ।

दीपानले शलभवन्निपपात देव

भस्मीकृतो दिवमवाप विमुक्तपापः ॥

39

जानामि ते मयि कृपां भुवनप्रसिद्धाम्

एवं च मे पितरि ते करुणां च गूढाम् ।

सर्वात्मनः समदृशो न हि भेदबुद्धिः

भक्तप्रियो यदसि कल्पतरुस्वभावः ॥

40

नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।

तेषु तेष्वचला भक्तिरच्युतास्तु सदा त्वयि ॥

41

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।

त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥

42

श्रीसद्गुरुरुवाच

प्रसन्नो भगवान् विष्णुः प्रह्लादवरदः प्रभुः ।

अन्तर्दधे सद्य एव सर्वदेवनमस्कृतः ॥

43

आदौ स्तम्भसमुद्भवः कररुहैर्निर्भिद्य चाहोबिले

दैत्येन्द्रं कृतशौचमेत्य रुधिरप्रक्षालनं चाकरोत् ।

कृत्वा कल्मषनाशनं त्रिजगतां तीर्थं प्रसन्नाननः

श्रीयुक्तो नृहरिः स पातु भगवान् सिंहाचले संस्थितः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे सिंहाचलमाहात्म्यम् नाम द्वात्रिंशोऽध्यायः ॥ ॥
Ch.31 Prathama Bhāge Ch.33