Verses

भद्राचलमाहात्म्यम् Bhadrācala Māhātmyam

1

श्रीसद्गुरुरुवाच

अस्ति भद्राचलं नाम क्षेत्रं परमपावनम् ।

यत्र प्रवेशमात्रेण सर्वं पापं विनश्यति ॥

2

गोदावरीनदीतीरे नाम्ना भद्रगिरिः गिरिः ।

भाति नृणां भद्रकरो रामभद्रसमाश्रितः ॥

3

भद्राद्रिशिखरे रामं सीतालक्ष्मणसंयुतम् ।

यदृच्छयापि संवीक्ष्य पुनर्जन्म न विद्यते ॥

4

कालकाल इति ख्यातो ब्राह्मणः कामपीडितः ।

गुरुपत्नीसङ्गमेन कुष्ठरोगमवाप ह ॥

5

धिक्कृतो बन्धुभिर्लोके क्षुत्पिपासासमाकुलः ।

नितरां दुःखितः पापी पर्यटंस्तत्र तत्र ह ॥

6

श्रुत्वा भद्राचलक्षेत्रे नवम्युत्सववैभवम् ।

भोक्तुकामो धर्मसत्रे मन्दमन्दमुपाययौ ॥

7

गत्वा क्षेत्रसमीपं तु दृष्ट्वा गोपुरमुत्तमम् ।

क्षुत्पिपासातुरः श्रान्तः पपात पथि पापकृत् ॥

8

प्राप्तकालः महापापी मृतिं प्राप यदृच्छया ।

तमानेतुं यमभटाश्चाययुः पाशपाणयः ॥

9

तदा सर्वेश्वरो विष्णुः कृपया रघुपुङ्गवः ।

प्रजिघाय तमानेतुं स्वभक्तं पवनात्मजम् ॥

10

हनुमान् सहसा तत्र निवार्य यमकिङ्करान् ।

उवाच श्लक्ष्णया वाचा प्रगल्भं रामशासनात् ॥

11

हनुमानुवाच

कालकालो महाभागो भद्राचलमुपागतः ।

यदृच्छया मृतो ह्यत्र महापुण्यवशेन हि ॥

12

श्रीरामस्य कृपापात्रमभवत्पापिनां वरः ।

तस्मादिमं विसृज्यैव स्वयं यात निजं पदम् ॥

13

यमभटा ऊचुः

ब्रह्महत्या सुरापानं स्वर्णस्तेयं तथा कपे ।

असत्यभाषणं चैव गुरुतल्पनिवेशनम् ॥

14

एतानि पञ्च पापानि महान्ति खलु मारुते ।

नरके नियतं वासो महापातककारिणाम् ॥

15

हनुमानुवाच

ब्रह्मघ्नो वा सुरापो वा गुरुतल्पगतोऽपि वा ।

रामकीर्तनमात्रेण मुच्यते न हि संशयः ॥

16

किं पुनर्भद्रशैलं च दृष्ट्वा गोपुरदर्शनम् ।

मृतोऽयं भाग्यवान् लोके श्रीरामनवमीदिने ॥

17

यमभटा ऊचुः

एवञ्चेद्रामचन्द्रेण प्रभुणा धर्मभीरुणा ।

मर्यादा सर्वलोकानां किमर्थं संप्रदर्शिता ॥

18

हनुमानुवाच

सत्यमेव हि तत्सर्वं मर्यादापरिपालनम् ।

धर्मात्मनो धर्मभीरो रामचन्द्रस्य मत्प्रभोः ॥

19

अहल्याशापमोक्षेण रामचन्द्रस्य तु प्रभोः ।

कारुण्यं दृश्यते लोके महापातकनाशनम् ॥

20

श्रीरामरामरामेति कीर्तनेनैव केवलम् ।

विनश्यन्तीति पापानि वदन्ति मुनयः स्फुटम् ॥

21

यमभटा ऊचुः

सत्यमेव हि तच्छास्त्रं नाममाहात्म्यबोधकम् ।

जानीमस्तत्प्रभावं च ह्यजामिलचरित्रतः ॥

22

तथापि कालदूतत्वान्निदेशं स्वामिनो वयम् ।

करिष्यामो मुञ्चैनं कालकालं महाकपे ॥

23

हनुमानुवाच

रामदूतोऽस्म्यहं चापि कालदूतभयं न मे ।

नयामि कालकालं च निदेशात्स्वामिनो मम ॥

24

यमभटा ऊचुः

भृत्यद्वयविरोधो हि स्वामिद्वयविरोधतः ।

संप्राप्तः कालकालस्य विषये वायुनन्दन ॥

25

हनुमानुवाच

एक एव परः स्वामी भगवान् रघुनन्दनः ।

स एव मम युष्माकं कालस्यापि नियामकः ॥

26

यमभटा ऊचुः

धर्मविरोधेन जायते खलु संशयः ।

कथं भवेन्महापापी नष्टपापः क्षणादिह ॥

27

हनुमानुवाच

न संशयः कालदूताः कदापि हरिकीर्तने ।

कर्तव्यः क्षेत्रमाहात्म्ये महापातकनाशने ॥

28

तादृशी करुणा विष्णोर्देवदेवस्य शार्ङ्गिणः ।

पतितानां पावनस्य जानकीरमणस्य हि ॥

29

यथा शिशुं स्वयं माता पाति कूपान्तिकं गतम् ।

तथा रक्षति रामोऽपि जीवांश्च नरकान्तिके ॥

30

महापातकयुक्तोऽपि रामनामानुकीर्तनात् ।

दर्शनाद्भद्रशैलस्य मुच्यते न हि संशयः ॥

31

सामान्यधर्माचरणात्पूर्वपुण्यवशेन ।

जायते वैष्णवे धर्मे मतिर्नृणां यदृच्छया ॥

32

तस्माद्विरोधो नास्त्यत्र स्वल्पोऽपि यमकिङ्कराः ।

फलं हि सर्वधर्माणां विष्णुधर्मो न संशयः ॥

33

नामकीर्तनमाश्रित्य न कुर्यात्पातकं नरः ।

नामापराधो भवति भगवान् विमुखो भवेत् ॥

34

इमं भागवतं धर्मं जानाति भगवान् यमः ।

तं पृच्छथ स्वयं गत्वा मुक्त्वा यात द्विजं तथा ॥

35

श्रीसद्गुरुरुवाच

इत्युक्ता यमदूतास्तु रामदूतेन निर्भयम् ।

कालकालं द्विजं त्यक्त्वा काललोकं गताः पुनः ॥

36

कालकालमुपानीय हनुमान् रामसन्निधिम् ।

दर्शयामास रामं च रामसालोक्यमाप सः ॥

37

यदृच्छया भद्रशैलमागत्य परमं शिवम् ।

कालकालो दिवं प्राप किं पुनः श्रद्धया गतः ॥

38

भद्रशैलं परिक्रम्य रामभद्रं विलोक्य च ।

महापातकयुक्तोऽपि रामसालोक्यमाप्नुयात् ॥

39

वामाङ्कस्थितजानकीं परिलसत्कोदण्डदण्डं करे

चक्रं चोर्ध्वकरे बाहुयुगले शङ्खं शरं दक्षिणे ।

बिभ्राणं जलजातपत्रनयनं भद्राद्रिमूर्ध्नि स्थितं

केयूरादिविभूषितं रघुपतिं सौमित्रियुक्तं भजे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे भद्राचलमाहात्म्यं नाम एकत्रिंशोऽध्यायः ॥
Ch.30 Prathama Bhāge Ch.32