Verses

श्रीकूर्मक्षेत्रमाहात्म्यम् Śrī Kūrma Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

अस्ति पूर्वसमुद्रस्य तीरे परमपावनम् ।

श्रीकूर्ममिति विख्यातं क्षेत्रं पापविनाशनम् ॥

2

विष्णुरचिन्त्यात्मा भक्ताभीष्टफलप्रदः ।

विराजते कूर्मरूपी शालग्राममयः स्वयम् ॥

3

आराध्यते ब्राह्मणैश्च मुनिभिर्वेदपारगैः ।

भगवान् श्रद्धया भक्त्या भक्तानुग्रहतत्परः ॥

4

तत्रामृतसरो नाम तीर्थं परमपावनम् ।

क्षीराम्बुधिसमं दिव्यं सर्वरोगविनाशनम् ॥

5

भागवता ऊचुः

आदिकूर्मस्तु भगवान् कदा तत्र कृपानिधिः ।

आविरासीज्जगन्नाथस्तां कथां कथय प्रभो ॥

6

श्रीसद्गुरुरुवाच

आप एव इदं सर्वमासीदग्र इति श्रुतम् ।

आसीत् स्वयम्भूर्भगवान् तत्र पुष्करपर्णके ॥

7

कारणं सर्वजगतामाधारं चात्मनस्तदा ।

विचिन्वन् स्वयमेवासौ न लेभे पद्मसंभवः ॥

8

आत्मानमेव जगतामाधारं कारणं तथा ।

मेने क्षणं वेदगर्भो निवसन् प्रलयार्णवे ॥

9

तत्राविरासीद्भगवान् कूर्मरूपी सनातनः ।

इतस्ततः सञ्चरंश्च विजहार लयाम्बुधौ ॥

10

तं दृष्ट्वा कच्छपं ब्रह्मा पप्रच्छ प्रहसन् प्रभुम् ।

कस्त्वं चरसि कल्लोले निर्भयं वद बालक ॥

11

श्रीकूर्म उवाच

अहमाधारभूतोऽस्मि जगतां च तथा तव ।

मयैव ध्रियते पृष्ठे सर्वं कमलसंभव ॥

12

कर्ताहं सर्वजगतां सृष्टिकर्तुस्तवापि च ।

जानीहि मां महाकूर्मं सर्वकारणकारणम् ॥

13

ब्रह्मोवाच

स्वयमेव हि भूतोऽस्मि पश्य मां चतुराननम् ।

तवापि सर्वजगतामाधारः कारणं त्वहम् ॥

14

श्रीकूर्म उवाच

लीलया कूर्मरूपोऽस्मि विश्वरूपं च पश्य माम् ।

सहस्रशीर्षं पुरुषं सहस्रचरणं तथा ॥

15

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् कूर्मो विश्वरूपधरो हरिः ।

ददृशे प्रलयाम्भोधौ सहस्राक्षः सहस्रपात् ॥

16

सद्य एव स्वयं ब्रह्मा ज्ञात्वा तं कूर्ममव्ययम् ।

तुष्टाव प्रणतश्चापि देवदेवं सनातनम् ॥

17

ब्रह्मोवाच

आधारपीठपृष्ठाय जगतां कारणाय च ।

आदिकूर्माय देवाय विष्णवे ते नमो नमः ॥

18

त्वमेव सर्वजगतां कारणं नात्र संशयः ।

जानामि त्वां ज्ञानरूपं नित्यं चिन्मयविग्रहम् ॥

19

अहं वेदस्वरूपोऽस्मि सर्वविद्याप्रवर्तकः ।

विद्या वेद्यते ब्रह्म वेद्यते ब्रह्मणापि वा ॥

20

नाविद्वान् विन्दते ब्रह्मविदुषो विद्ययापि किम् ।

ब्रह्मणा भाति सा विद्या, विद्यया वेद्यते कथम् ॥

21

एतं मे संशयं विष्णो छिन्धि सर्वनियामक ।

त्वामेव परमं तत्त्वं जानामि श्रुतिदर्शितम् ॥

22

श्रीकूर्म उवाच

विद्यया वेद्यते नैव प्रमाणैरितरैरपि ।

स्वयंप्रकाशं तद्ब्रह्म चिद्रूपं जगतः परम् ॥

23

यस्य भासा सर्वमिदं भाति लोकत्रयं महत् ।

स्वयं भान्तं ज्ञानदीपं कथमन्यः प्रदीपयेत् ॥

24

अनात्मवस्तुसंरूढां चिद्बुद्धिं विनिवर्त्य च ।

स्वस्वरूपं वेदयति नेति नेतीति वै श्रुतिः ॥

25

तस्माद्वेदस्य वेदत्वं वेत्ता विष्णुः सनातनः ।

वेद्यते तेन वेदेन चेति वेदान्तनिश्चयः ॥

26

त्वमेव वेदरूपोऽसि वेद्योऽहं विष्णुरव्ययः ।

त्वदधीनं मम ज्ञानं द्विजानां मोक्षकाङ्क्षिणाम् ॥

27

त्वमेव शब्दरूपोऽसि तव पत्नी च वाक् तथा ।

नामरूपात्मकं सर्वमर्थभूतं जगत्त्रयम् ॥

28

एवं वागर्थयोर्लोके प्रकाशं कुरु सांप्रतम् ।

आधारभूतं ज्ञानं मां विद्धि वागर्थभासकम् ॥

29

मम पृष्ठे जगत्सर्वं स्थापयाम्बुजसंभव ।

धरामि कूर्मरूपेण जगदाधारविग्रहः ॥

30

श्रीसद्गुरुरुवाच

इत्युक्त्वोपरते विष्णौ ब्रह्मा लोकपितामहः ।

आदिकूर्मस्य पृष्ठे तु ससर्ज सकलं जगत् ॥

31

अद्यापि कूर्मो भगवान् धत्ते हि भुवनत्रयम् ।

तस्मादशिथिलं सर्वं वर्तते सुप्रतिष्ठितम् ॥

32

स एव कूर्मो भगवान् शालग्रामवपुर्धरः ।

श्वेतराजाय कृपया प्रददौ निजदर्शनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीकूर्मक्षेत्रमाहात्म्यम् नाम नवविंशोऽध्यायः ॥
Ch.28 Prathama Bhāge Ch.30