Verses

पुरुषोत्तममाहात्म्यम् Puruṣottama Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरुषोत्तममाहात्म्यं वक्तुं शक्नोति कः क्षितौ ।

यत्र प्रवेशमात्रेण नरो नारायणो भवेत् ॥

2

बहुनाऽत्र किमुक्तेन संक्षेपादुच्यते मया ।

सर्वेषामेव तीर्थानां वरिष्ठं पुरुषोत्तमम् ॥

3

शयने च तथोत्थाने तस्मिन् क्षेत्रे मनोरमे ।

हरिं पश्यति यो मर्त्यः स देवैरपि पूज्यते ॥

4

यः पश्यति जगन्नाथं रथस्थं कमलेक्षणम् ।

तस्य नास्ति पुनर्जन्म संसारे सर्वदुःखदे ॥

5

तत्र वेत्रप्रहारेण शरीरं यस्य लोहितम् ।

तं वन्दन्ते सुराः सर्वे ब्रह्मशक्रशिवादयः ॥

6

आसीत् पुरा काचन शौरसेनी

पितृष्वसा देवकीनन्दनस्य ।

उद्वाह्य कन्यां श्रुतदेविकाख्यां

गेहिनीं चकारोत्कलदेशराजः ॥

7

पितृष्वसुः प्रीतिकरो महात्मा

सुभद्रया सीरधरेण साकम् ।

आरुह्य दिव्यं रथमाययौ स

नीलाचलं पूर्वसमुद्रतीरे ॥

8

तौ भ्रातृपुत्रौ सुभगां सुभद्रां

आनीय हृष्टा श्रुतदेविका च ।

संमानयामास तदा नगर्यां

निवेशयामास निजे गृहे च ॥

9

तदैव बृन्दावनतो निवृत्तो

जगाद राधाविरहानुभूतिम् ।

आकर्ण्य देवर्षिमुखान्मुकुन्दः

शरीरवैकल्यमवाप तापात् ॥

10

अप्राकृतं मङ्गलविग्रहं त-

न्मुकुन्दगात्रं ननु शुद्धसत्त्वम् ।

तथापि राधाविरहेण कार्श्यं

अहो हि माहात्म्यमिदं नु तस्याः ॥

11

विलोक्य राधाविरहेण लीनं

मुकुन्दगात्रं सहसाऽऽकुलस्य ।

रामस्य गात्रं च विलीनमासीत्

प्रेम्णस्तु माहात्म्यमिदं हि नूनम् ॥

12

भ्रात्रोस्तयोरङ्गविकारमेवं

विलोक्य लीनाऽप्यभवत्सुभद्रा ।

तेषां त्रयाणाञ्च सहोदराणा-

मलौकिकं प्रेम पवित्रमेतत् ॥

13

विलोक्य देवर्षिरमून् सखेद-

मालोच्य किञ्चित्सहसा सहर्षम् ।

भैष्मीं च भामां निखिलाश्च देवीः

आनीय गोपीजनवेषयुक्ताः ॥

14

निवेदयामास तदा पुरस्तात्

कृष्णाय राधेति च वल्लवीति ।

ताभिः समं प्रेमविमूर्च्छितोऽयं

चकार रासोत्सवमत्र सिन्धौ ॥

15

संसान्त्वितः साधुवरेण तेन

देवर्षिणा देवकीनन्दनोऽयम् ।

गूढं च बृन्दावनमेतदेव

मेने स्थलं पूर्वसमुद्रतीरे ॥

16

तस्मादिह प्रेममयं स्वरूपं

धृत्वाऽङ्गवैकल्यतो मुरारिः ।

ददाति लोके निजदर्शनं च

दृष्ट्वा न निन्देच्छ्रियमाप्तुकामः ॥

17

बलभद्रं सुभद्राञ्च कृष्णञ्च कमलेक्षणम् ।

ये मानवाः प्रपश्यन्ति तेषां किञ्चिन्न दुर्लभम् ॥

18

चण्डालेनापि संस्पृष्टं प्राश्यं तत्रान्नमग्रजैः ।

तत्रान्नपाचिका लक्ष्मीः स्वयं भोक्ता जनार्दनः ॥

19

पवित्रं भुवि सर्वत्र यथा गङ्गाजलं वरम् ।

तथा पवित्रं सर्वत्र तदन्नं पापनाशनम् ॥

20

ब्रह्माद्यास्त्रिदशाः सर्वे तदन्नमतिदुर्लभम् ।

भुञ्जते नित्यमागत्य मानुषाणां च का कथा ॥

21

सप्तसप्तसु लोकेषु लोकालोके चराचरे ।

नास्ति नास्ति समं क्षेत्रमुत्तमं पुरुषोत्तमात् ॥

22

स्वपन् रङ्गे जाग्रद्विधिसदसि तिष्ठन् वृषगिरौ

प्रयागे संमज्जन्नथ बदरिभूमिष्वपि जपन् ।

जगन्नाथे भुञ्जन् क्षणम् अयम् अयोध्याम् अधिवसन्

सदा द्वारावत्यां विहरति सलीलं यदुपतिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे पुरुषोत्तममाहात्म्यम् नाम अध्यायः ॥
Ch.27 Prathama Bhāge Ch.29