Verses

कुरुक्षेत्रमाहात्म्यम् Kuru Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।

य एवं सततं ब्रूयात् सर्वपापैः प्रमुच्यते ॥

2

पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः ।

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥

3

दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च ।

ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥

4

अस्मिन् क्षेत्रे क्षत्रियाणां विनाशं

कृत्वा रामस्तीर्थमुत्पादयंश्च ।

नृणां पापं क्षालयामास पूर्वं

कुण्डं ह्येतच्छोणितोदं ह्रदम् ॥

5

अस्मिन् क्षेत्रे भूमिपालः कुरुश्च

चक्रे यज्ञं सर्वलोकप्रसिद्धम् ।

तस्मात्तस्य क्षेत्रमेतत्तु नाम्ना

ख्यातं लोके धार्मिकैः सेव्यमानम् ॥

6

अस्मिन् क्षेत्रे शूरसेनस्य पुत्रः

चक्रे यज्ञं चक्रपाणेः पिता सः ।

यस्मिन् यज्ञे कृष्णभक्ताश्च सर्वे

सङ्गम्यासन्नत्र कृष्णेन सार्धम् ॥

7

अस्मिन् क्षेत्रे गोकुलादागता सा

गोपी राधा संयुता माधवेन ।

भैष्मीमुख्यैः पूजिता कृष्णदारैः

प्रीता चासीत्प्रेमपूर्वं सखीभिः ॥

8

अस्मिन् क्षेत्रे काञ्चनस्यन्दनस्थो

गीताशास्त्रं बोधयामास पार्थम् ।

गीताचार्यो वासुदेवो मुकुन्दो

मध्ये राज्ञां सेनयोर्यादवेन्द्रः ॥

9

अस्मिन् क्षेत्रे देवकीनन्दनोऽयं

सारथ्यञ्च प्रेमपूर्वं चकार ।

कुन्तीसूनोः केशवः शङ्खपाणिः

रश्मीन् गृह्णन् सुन्दराणां हयानाम् ॥

10

अस्मिन् क्षेत्रे भीष्मयुद्धे महात्मा

धृत्वा चक्रं हन्तुकामो दधाव ।

भीष्मेणापि प्रार्थितो भक्तबन्धुस्त्यक्त्वा

भूमौ संभ्रमादुत्तरीयम् ॥

11

अस्मिन् क्षेत्रे ब्रह्मचारी महात्मा

पार्थेनायं पातितो भूमिभागे ।

ध्यायन् कृष्णं बाणतल्पेऽनुशिश्ये

तस्मै पार्थो बाणतीर्थं ददौ च ॥

12

अस्मिन् क्षेत्रे पार्थसूतः परात्मा

कृत्वा तीर्थं स्नापयित्वा तुरङ्गान् ।

चक्रे सौत्यं लीलया देवदेवः

सर्वान् वीरान् साधु विस्मापयित्वा ॥

13

अस्मिन् क्षेत्रे सिन्धुराजं निहन्तुं

दृष्ट्वा क्लृप्तां फाल्गुनेन प्रतिज्ञाम् ।

चक्रच्छन्नं भास्करं संविधाय

चक्रे पार्थं सत्यसन्धं मुकुन्दः ॥

14

अस्मिन् क्षेत्रे ब्राह्मणो द्रोणनामा

धृष्टद्युम्नप्राप्तमृत्युः प्रशान्तः ।

ध्यायन् विष्णुं योगमार्गेण देहं

तत्याजान्ते पुत्रशोकेन युक्तः ॥

15

अस्मिन् क्षेत्रे भौमपुत्रप्रयुक्तमस्त्रं

दीप्तं वैष्णवं वक्षसैव ।

धृत्वा मालां वैजयन्तीं चकार

पार्थप्रेष्ठः पद्मनाभो मुरारिः ॥

16

अस्मिन् क्षेत्रे द्रोणपुत्रप्रयुक्तं

दृष्ट्वा दूरे हन्त नारायणास्त्रम् ।

पार्थं भीमं वन्दयित्वैव सद्यो

वीरान् सर्वान् वासुदेवो ररक्ष ॥

17

अस्मिन् क्षेत्रे दानवीरं च कर्णं

मग्नं भूमौ स्यन्दनं संवहन्तम् ।

कृष्णस्याज्ञाकारणात् सञ्जघान

वीरः पार्थः प्राप सद्यो जयञ्च ॥

18

अस्मिन् क्षेत्रे भीमसेनो महात्मा

युद्धे घोरे धार्तराष्ट्रं निहत्य ।

चक्रे सत्यं स्वप्रतिज्ञां पुरस्ताद्

गोविन्दस्य द्वारकेशस्य शौरेः ॥

19

अस्मिन् क्षेत्रे धर्मकामा महान्तः

कृत्वा युद्धं स्वर्गमापुर्हि पूर्वम् ।

भीष्मो मोक्षं प्राप कृष्णं प्रणम्य

धर्मान् उक्त्वा धर्मराजाय हृष्टः ॥

20

अस्मिन् क्षेत्रे पाण्डवस्यन्दनस्थः

चक्रे घोषं वायुसूनुर्महात्मा ।

यस्यावासादेव नारायणास्त्रादिदग्धः

पूर्वं स्यन्दनो रक्षितोऽभूत् ॥

21

अस्मिन् क्षेत्रे धर्मसंस्थापनं च

चक्रे हत्वा कौरवेन्द्रं कलिं तम् ।

साक्षी भूत्वा सारथिः पाण्डवानां

चक्रे भूमिं भारहीनां मुरारिः ॥

22

कुरुक्षेत्रस्य माहात्म्यं यः पठेच्छृणुयान्नरः ।

यः स्मरेत् प्रातरुत्थाय कलिस्तस्य विनश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे कुरुक्षेत्रमाहात्म्यम् नाम पञ्चविंशोऽध्यायः ॥
Ch.24 Prathama Bhāge Ch.26