Verses

प्रभासक्षेत्रमाहात्म्यम् Prabhāsa Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

प्राची सरस्वती पुण्या सर्वपापविनाशिनी ।

यत्तीरे कर्दमः पूर्वं चकार सुमहत्तपः ॥

2

सरस्वतीसङ्गमे च स्नात्वा मर्त्यो यदृच्छया ।

सर्वपापविनिर्मुक्तः पुण्यलोकमवाप्नुयात् ॥

3

सोमनाथं तत्र पश्येल्लिङ्गं ज्योतिर्मयं शिवम् ।

सोमयागफलं लब्ध्वा स्वर्गं पदमवाप्नुयात् ॥

4

गुरुशापेन वै सोमः क्षयरोगमवाप्य च ।

शिवपूजामत्र कृत्वा रोगान्मुक्तोऽभवत्पुरा ॥

5

तदिदं परमं स्थानं प्रभासक्षेत्रमुत्तमम् ।

अवश्यं तत्र गन्तव्यं कर्तव्यं पुण्यकर्म च ॥

6

ततस्तु साम्बप्रमुखा यदूद्वहाः

स्त्रीवेषगूढास्तु वञ्चयित्वा ।

मुनींश्च तैः कोपयुतैः प्रशप्ताः

प्रभासतीर्थं समवाप्पुरज्ञाः ॥

7

स्नात्वा च तीर्थे विधिवद्विधाय

दानादिकं ते मधुपानमुग्धाः ।

अन्योन्यमाहत्य निपेतुरुर्व्यां

नष्टं कुलं स्यान्मधुसेवनेन ॥

8

तत्रैव रामो भगवान् हलायुधो

नीलाम्बरः श्वेतगिरिप्रभश्च ।

निमील्य नेत्रे निजरूपचिन्तनात्

विलं विवेशाथ सहस्रवक्त्रः ॥

9

ततः प्रशान्तो भगवान् मुकुन्दो

योगासनस्थो जगतां गुरुश्च ।

अश्वत्थमूले निजरूपमेव

दध्यौ च संमीलितपद्मनेत्रः ॥

10

तदा विचिन्वन् सचिवो मुरारे-

स्तमुद्धवो भागवतप्रधानः ।

ददर्श कृष्णं वसुदेवसूनुं

दामोदरं दर्शितयोगमार्गम् ॥

11

असह्यगोविन्दवियोगखिन्नं

तमुद्धवं भक्तिमतां वरिष्ठम् ।

प्रदर्शयित्वा निजभक्तिमार्गं

संसान्त्वयामास तदा मुकुन्दः ॥

12

वैराग्यमेवं विषयेष्वनित्ये

स्वरूपमात्रस्य पृथक् स्थितिं च ।

भक्तिं च कृष्णे पुरुषार्थमुख्या-

मत्रोद्धवायाह जगद्गुरुश्च ॥

13

ततः स्वभर्तुः पुरुषोत्तमस्य

निदेशतस्तच्चरणाङ्कितां च ।

श्रीपादुकां प्राप्य तथोद्धवश्च

सद्यः प्रतस्थे बदरीवनाय ॥

14

अश्वत्थमूले भगवान् मुकुन्दो

योगेश्वरो योगनिमीलिताक्षः ।

अप्राकृतं मङ्गलरूपमेत-

दाच्छादयामास च योगशक्त्या ॥

15

अन्तर्हितं तद्भगवत्स्वरूपं

पूर्वं यथा रासविलासमध्ये ।

पुनश्च तद्वीक्षितुमात्तकामा

ब्रह्मादयो देवगणा न शेकुः ॥

16

भैष्म्यादयः कृष्णमहिष्य एवमागत्य

तत्रैव वियोगखिन्नाः ।

स्वच्छन्दमन्तर्दधिरे पुनश्च

वैकुण्ठमापुः परमं पदं तत् ॥

17

सर्वे च देवा यदुवंशजाता

नष्टं कुलं स्यान्मधुसेवनेन ।

एवं प्रदर्श्याथ कलौ जनाना-

मन्तर्हितास्ते दिवमेव जग्मुः ॥

18

प्रभासनाम प्रथितं हि तीर्थं

यत्रैव कृष्णोऽन्तरधात्परात्मा ।

मोक्षप्रदं मौनिवरैश्च सेव्यं

मुकुन्दभक्तैर्भजनीयमेतत् ॥

19

प्रभासाख्यमिदं तीर्थं प्रथितं भुवनत्रये ।

सरस्वतीसङ्गमेऽत्र स्नानं कर्तव्यमादरात् ॥

20

पितरस्तस्य तृप्यन्ति पिण्डदानेन केवलम् ।

प्राचीसरस्वतीसङ्गे समुद्रे पश्चिमे तथा ॥

21

अन्नदानं च गोदानं वस्त्रदानं यथाविधि ।

कृत्वाऽनन्तफलं याति प्रभासे श्रद्धया जनः ॥

22

द्वारकायाश्च माहात्म्यं यः शृणोति पठत्यपि ।

तस्य देवाश्च पितरो मोदन्ते हि दिने दिने ॥

23

आयुरारोग्यमैश्वर्यं पुत्रान् पौत्रान् धनं यशः ।

द्वारकायास्तु माहात्म्यं श्रुत्वा नूनमवाप्नुयात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे प्रभासक्षेत्रमाहात्म्यम् नाम अध्यायः ॥
Ch.23 Prathama Bhāge Ch.25