Verses

द्वारकामाहात्म्यम् Dvārakā Māhātmyam

1

श्रीसद्गुरुरुवाच

माहात्म्यं द्वारकापुर्याः शृणुध्वमिह साधवः ।

यत्रैव निवसन् कृष्णो नानालीलां चकार सः ॥

2

कंसस्य श्वशुरो मूढो जरासन्धो महाबलः ।

गिरिव्रजे वसन् लोकं पीडयामास मागधः ॥

3

श्रुत्वा कंसवधं राजा कुपितः केशवे भृशम् ।

महत्या सेनया सार्धमागतो मधुरापुरीम् ॥

4

तेनैव प्रेरितः कालयवनोऽपि समागतः ।

रक्षितुं यादवान् सर्वान् चिन्तयामास माधवः ॥

5

सहसा विश्वकर्माणमाहूय भगवान् हरिः ।

आज्ञापयामास पुरीं निर्मातुं द्वारकां तदा ॥

6

द्वारकां प्रापयामास विश्वकर्मविनिर्मिताम् ।

स्वजनान् यादवान् सर्वान् भगवान् निजमायया ॥

7

आनीय कालयवनं मुचुकुन्दमुखाग्निना ।

दग्ध्वा तं लीलया कृष्णो द्वारकां प्रविवेश ह ॥

8

तत्रैव न्यवसत्कृष्णः सानन्दं यादवोत्तमः ।

सैषा द्वारवती पुण्या सेवकानन्ददायिनी ॥

9

अस्यां नगर्यां निवसन् मुकुन्दः

स्वयंवरस्थां च विदर्भकन्याम् ।

आहृत्य युद्धे परिभूय शत्रून्

रेमे तया प्राप्तगृहस्थधर्मः ॥

10

अस्यां नगर्यां भगवान् मुरारिः

स्यमन्तकाख्यानमिषेण जित्वा ।

ऋक्षाधिपं जाम्बवतीमवाप

तां सत्यभामां सुगुणां सुरूपाम् ॥

11

अस्यां नगर्यामथ वासुदेवः

सत्यां च भद्रां च कालिन्दकन्याम् ।

तां मित्रविन्दामपि लक्ष्मणां च

क्रमेण रेमे परिणीय कृष्णः ॥

12

अस्यां नगर्यां किल पारिजातं

संस्थापयामास विजित्य देवान् ।

आहृत्य भामाप्रणयेन बद्ध-

स्तुलामतुल्यः प्रविवेश चेशः ॥

13

अस्यां नगर्यामजितो मुरारि-

र्निहत्य युद्धे नरकासुरं च ।

आहृत्य तं द्व्यष्टसहस्रसंख्यं

स्त्रीणां गणं तेन रतिं चकार ॥

14

अस्यां नगर्यां भगवान् सुरर्षि-

र्गृहे गृहे कृष्णमवेक्ष्य मुग्धः ।

अनन्तमूर्तिं समवाप्तकामं

योगेश्वरं भक्तिमवाप तस्मिन् ॥

15

अस्यां नगर्यां सुषुवेऽथ भैष्मी

प्रद्युम्नमादाय गतो हि दैत्यः ।

निहत्य तं शम्बरमाजहार

मायावतीं स्वां दयितां पुनश्च ॥

16

अस्यां नगर्यां सुषुवेऽथ साम्बं

स्कन्दात्मकं जाम्बवती व्रताढ्या ।

स्वयंवरे बद्धममुं विसृज्य

सलक्ष्मणं चानयदादिदेवः ॥

17

अस्यां नगर्यामनिरुद्धमेवं

नीतं च कन्यानिवहेन रात्र्याम् ।

बद्धं बाणेन विमुच्य कृष्णः

समानिनाय स्नुषया उषया च ॥

18

अस्यां नगर्यां पतितं स्वकूपे

नृपं नृगाख्यं कृकलासरूपम् ।

विमोचयामास हरिश्च शापात्

प्रख्यापयन् ब्रह्मधने च पापम् ॥

19

अस्यां नगर्या निवसंश्च कृष्णः

स्वयंवरे राजसभामुपेत्य ।

विजित्य पार्थाय ददौ स्वदृष्ट्या

विवाहयामास च तां मुकुन्दः ॥

20

अस्यां नगर्यां धृतभिक्षुवेषम्

उपागतं पाण्डवमादरेण ।

आनीय गेहे विनिवेश्य काले

प्रस्थापयामास सुभद्रया तम् ॥

21

अस्यां नगर्यां निवसंश्च कृष्णः

पुण्यं कुरुक्षेत्रमवाप्य पूर्वम् ।

सूर्योपरागे सकलांश्च बन्धून्

सन्तोषयामास महोत्सवेन ॥

22

अस्यां नगर्यां मृतपुत्रमेकं

विप्रं विलोक्याथ कृतप्रतिज्ञम् ।

पार्थं समाधाय परं पदं च

गत्वा जहार अस्य कुमारकान् तान् ॥

23

अस्यां नगर्या समुपागताय

कुचेलनाम्ने कृपया द्विजाय ।

स्वयं गृहीत्वा पृथुकान् मुकुन्दो

ददौ सहर्षं परमं धनं च ॥

24

अस्यां नगर्या निवसन् कृपालु-

र्भीमेन हत्वा मगधाधिपं तम् ।

विमोचयामास गुहान्तरालात्

नृपेन्द्रपुत्रान् कृपणान् मुकुन्दः ॥

25

अस्यां नगर्यां निवसन्नृपस्य

प्रवर्तयामास च राजसूयम् ।

चिच्छेद चक्रेण च चेदिराजं

पूर्वं प्रशप्तं सनकादिभिश्च ॥

26

अस्यां नगर्यामपि दन्तवक्त्रम्

अभ्यागतं युद्धमथाचरन्तम् ।

निहत्य सौभं च तथा यदूनां

ददौ प्रमोदं करुणासमुद्रः ॥

27

अस्यां नगर्यां निवसन्नृपाणां

सभान्तरे दुष्टगृहीतवस्त्राम् ।

आर्तां च भीतां शरणागतां तां

ररक्ष कृष्णां सहसा शरण्यः ॥

28

अस्यां नगर्या स्थित एव गत्वा

दुर्वाससः शापभयेन खिन्नान् ।

भुक्त्वा च शाकान्नमपालयत् तान्

कृत्वा सशिष्यं मुनिमाशु तृप्तम् ॥

29

अस्यां नगर्यां निवसन् विराटे-

ऽप्यज्ञातवासं निजबान्धवानाम् ।

विवाहं स्वभागिनेयस्य चकार कृष्णः ॥

30

अस्यां नगर्या निवसन्नृपाणाम्

उद्योगमालोक्य कृतादरश्च ।

जगाम दौत्याय च पाण्डवानां

गजाह्वयं तन्नगरं मुकुन्दः ॥

31

अस्यां नगर्यां निवसन् सहर्षं

गत्वा कुरुक्षेत्रमपि प्रियाय ।

सारथ्यवृत्तिं च वहन् चकार

गीतोपदेशं जगतां गुरुर्हि ॥

32

अस्यां नगर्यां पुनरेत्य हृष्टो

भूभारभूतान् विनिहत्य भूपान् ।

एवं स्वाराज्येऽप्यभिषिच्य धर्मम्

उवास सर्वैः सह यादवैश्च ॥

33

सेयं द्वारवती पुण्या स्मरणात्पापनाशिनी ।

राजधानी मुकुन्दस्य तद्बाहुयुगपालिता ॥

34

वैकुण्ठमेव भूलोके पुण्या द्वारवती स्मृता ।

यस्यां षोडशसाहस्रदेवीभिः सेव्यते हरिः ॥

35

क्षणार्धमपि यो भक्त्या द्वारवत्यां वसेन्नरः ।

कः कुर्याद्गणनं तस्य भाग्यानां भुवनत्रये ॥

36

यदृच्छया द्वारवतीं गत्वापि कृपणो नरः ।

धनेश्वरो भवेन्नूनं कुचेलो ब्राह्मणो यथा ॥

37

कल्याणराजं श्रीनाथमाश्रित्य द्वारकापतिम् ।

विमुच्यते सर्वकष्टात् सहसा पाण्डवाः यथा ॥

38

आपद्बन्धुः कृपासिन्धुर्द्वारकायां विराजते ।

कल्याणमूर्तिः श्रीनाथः श्रितकल्याणकारकः ॥

39

कामधेनुं कल्पकं च नैव चिन्तामणिं भजेत् ।

कल्याणकृष्णमाश्रित्य सर्वकल्याणमाप्नुयात् ॥

40

वृथा द्वारवतीं त्यक्त्वा परिव्रजसि दुःखितः ।

कल्याणकृष्णमाश्रित्य कार्पण्यं नाशय स्वयम् ॥

41

सफला द्वारका यात्रा सफलं कृष्णदर्शनम् ।

सफलं नरजन्मेदं न कदाचन निष्फलम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे द्वारकामाहात्म्यं नाम द्वाविंशोऽध्यायः ॥
Ch.21 Prathama Bhāge Ch.23