Verses

गोविन्ददेवमाहात्म्यम् Govindadeva Māhātmyam

1

श्रीसद्गुरुरुवाच

निहत्य भारं भुवनस्य देवे ।

गते च वैकुण्ठपदं मुकुन्दे

शुशोच देवी धरणिश्च धर्मं ।

संपीडितं कालवशं विलोक्य ॥

2

राजा परीक्षित्कुरुमण्डले च

श्रीवज्रनाभो व्रजमण्डले च ।

तदाऽभिषिक्तौ मुनिभिः प्रजानां

संरक्षणायैव हि तत्र तत्र ॥

3

श्रीद्वारकानाथवियोगखिन्नौ

कुलेऽवशिष्टौ कुलवर्धनौ तौ ।

मृतेषु सर्वेषु नृपेषु युद्धे

बृन्दावनं प्रापतुरार्तिशान्त्यै ॥

4

तत्रैव शाण्डिल्यमुनिं प्रणम्य

पप्रच्छतुः कृष्णवियोगशान्तिम् ।

स कारयामास गिरीन्द्रसानौ

कृष्णप्रतिष्ठां कृतसान्त्वनौ तौ ॥

5

गोविन्ददेवं हरिमार्तबन्धुं

गोवर्धने निर्मितमन्दिरे सः ।

तूर्णं प्रतिष्ठाप्य जगन्मुरारेः

विमोचयामास वियोगदुःखात् ॥

6

राजा परीक्षिच्छुकदेववक्त्रा-

च्छ्रीकृष्णलीलामृतमादरेण ।

निपीय मृत्युं सहसा विजित्य

पदं प्रपेदे परमं मुरारेः ॥

7

नान्या गतिर्भागवतात्पुराणा-

त्कलौ जनानां बहुदुःखितानाम् ।

इतीव सन्दर्श्य नृपः परीक्षित्

सप्ताहमात्रेण हरिं प्रपेदे ॥

8

गोविन्दनामावलिकीर्तनाद्वा

गोविन्ददेवस्य च दर्शनाद्वा ।

गोविन्दलीलाश्रवणेन वा स्या-

न्मुक्तिर्नराणां कलिपीडितानाम् ॥

9

प्रतिष्ठितं गोकुलराजधान्यां

गोविन्दमानन्दनिधिं मुकुन्दम् ।

स वज्रनाभो विहिताञ्जलिस्तं

तुष्टाव बाष्पाकुललोचनाब्जः ॥

10

वज्रनाभ उवाच

गोवर्धनाद्रेः शिखरे वसन्तं ।

गोगोपगोपीजनसेवितञ्च

गोपालकं गोकुलसार्वभौमं ।

गोविन्ददेवं प्रणमामि कृष्णम् ॥

11

वक्त्रं वनिताजनानां

विमोहयन्तं हृदयं मुकुन्दम् ।

वक्षःस्थलामोदितदिव्यगन्धं

वन्दे यशोदाकरलालितं तम् ॥

12

पीताम्बरं पद्मदलायताक्षं

पद्मापरिष्वक्तसुवक्षसञ्च ।

पट्टाभिषिक्तं सुरनायकेन

बालं मुकुन्दं प्रणमामि कृष्णम् ॥

13

मयूरपिञ्छाङ्कितनीलकेशं

माधुर्यसंपूरितमन्दहासम् ।

मनोज्ञनानाविधचारुवेषं

मायाविनं माधवमाश्रयेऽहम् ॥

14

व्यत्यस्तपादं वनमालिनञ्च

वृतं सदा वल्लवसुन्दरीभिः ।

वटस्य मूले ललितत्रिभङ्ग्या

वन्दे विराजन्तमहं मुकुन्दम् ॥

15

राधाप्रियं रासविलासलोलं

राजीवनेत्रं रमणीयगात्रम् ।

रामानुजं रक्षितगोकुलं तं

राजन्तमीडे ललिते निकुञ्जे ॥

16

गुञ्जास्रजालङ्कृतवक्षसञ्च

शिञ्जानमञ्जीरधरं कुमारम् ।

पिञ्छावतंसं वरमन्दहासं

कुञ्जे वसन्तं कलये मुकुन्दम् ॥

17

बृन्दावने सूर्यसुताटे च

गोवर्धने गोकुलराजधान्याम् ।

वंशीवटे कुञ्जगृहे चरन्तं

वन्दे हरिं वल्लवराजसूनुम् ॥

18

ब्रह्मादिभिर्देवगणैश्च नित्यं

संसेवितं सर्वजनाश्रयञ्च ।

भक्तप्रियं भव्यगुणं मुकुन्दं

बर्हावतंसं भगवन्तमीडे ॥

19

नन्दात्मजं नन्दितसर्वलोक-

मानन्दकन्दं वरदं मुकुन्दम् ।

बृन्दावनान्ते विहरन्तमेनं

गोविन्ददेवं प्रणमाम्यनन्तम् ॥

20

श्रीसद्गुरुरुवाच

गोविन्ददेवाननदर्शनेन ।

प्रसन्नचित्तः स तु वज्रनाभः

वासं प्रकुर्वन् मधुरानगर्यां ।

शशास भूमिं स्वजनं सुखेन ॥

21

गोविन्दमाहात्म्यमिदं पवित्रं

यः कीर्तयेद्वा शृणुयान्मनुष्यः ।

अवाप्नुयात् सुखमेव नित्यं

कृष्णप्रसादान्न कदापि दुःखम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे गोविन्ददेवमाहात्म्यम् नाम विंशोऽध्यायः ॥
Ch.19 Prathama Bhāge Ch.21