Verses

श्रीबृन्दावनमाहात्म्यम् Śrī Bṛndāvana Māhātmyam

1

श्रीसद्गुरुरुवाच

बृन्दावनमिदं रम्यं ब्रह्मादिसुरवाञ्छितम् ।

यत्र सर्वं दिव्यमेव लतावृक्षतृणादिकम् ॥

2

श्रीकृष्णपार्षदा एव पशुपक्षिस्वरूपिणः ।

कृष्णसेवां प्रकुर्वन्ति लीलया यमुनावने ॥

3

सत्यलोकाधिपो ब्रह्मा तृणजन्मापि वाञ्छति ।

तस्य बृन्दावनस्यास्य माहात्म्यं भुवि को वदेत् ॥

4

काशीं त्यक्त्वा महादेवो वटवृक्षतलं गतः ।

अस्मिन् वृन्दावने नित्यं कृष्णध्यानं करोति हि ॥

5

स्वयं वैकुण्ठनाथोऽपि यत्र रक्षति गोकुलम् ।

बृन्दावनस्य तस्यैतन्माहात्म्यं गणयेत् कथम् ॥

6

अस्मिन् वने प्रतिदिनं भगवान् मुकुन्दः

पीताम्बरः स्मितमुखः कृतवेणुनादः ।

गाश्चारयन् सह सुहृद्भिरितस्ततश्च

क्रीडां करोति विविधां शिखिबर्हचूडः ॥

7

अस्मिन् वने किल जघान बकासुरं च

वत्सासुरं सह गणैः सुहृदां सहर्षम् ।

कृष्णश्चखाद च कपित्थफलानि पूर्वं

गुञ्जावतंसबहुसुन्दरगोपवेषः ॥

8

अस्मिन् वने भुजगरूपमघं च दैत्यं

हत्वाऽथ यामुनजले सह गोपबालैः ।

तिष्ठंश्चकार वनभोजनकेलिमेवं

दृष्ट्वा स्वयं बत मुमोह चतुर्मुखोऽपि ॥

9

अस्मिन् वने सरसबालककेलिलोलः

सङ्कर्षणोऽपि विनिपात्य च तालवृक्षान् ।

भूम्यां फलानि च धेनुकपीडनेन

भुङ्क्ते स्म बालकगणैः सह केशवेन ॥

10

अस्मिन् वने ह्रदतटस्थितनीपवृक्ष-

मारुह्य पीतवसनेन निबद्धकच्छः ।

कालीयचञ्चलशिरःफणरङ्गमध्ये

नाट्यं चकार भगवान् सुरबृन्दगीतः ॥

11

अस्मिन् वने करुणया भगवान् दवाग्निं

पीत्वा ररक्ष निखिलं स्वजनं मुकुन्दः ।

लीलान्तरेऽप्युपगतं दनुजं प्रलम्बं

रामो जघान सहसा करकुट्टनेन ॥

12

अस्मिन् वने कुलधनाभिजनक्रियादि-

मत्तान् द्विजान् स्वविमुखानपि वञ्चयित्वा ।

तेषां सतीर्ललितभावविमुग्धचित्ताः

नीत्वा स्वयञ्च बुभुजेऽथ तदाहृतान्नम् ॥

13

अस्मिन् वने कुपितशक्रप्रवर्षात्

संरक्षितुं निजजनं कृपया मुकुन्दः ।

गोवर्धनं निजकराङ्गुलिपल्लवेन

स्मेराननः खलु दधार दिनानि सप्त ॥

14

अस्मिन् वनेऽथ यमुनापुलिने मुकुन्दो

वंशीकलस्वनवशीकृतवल्लवीभिः ।

रासोत्सवं सुविदधे रसिकस्वभावो

राधापयोधरविमर्दनरम्यवक्षाः ॥

15

अस्मिन् वने वृषभरूपमरिष्टमेव-

अश्वरूपमपि केशिनमागतञ्च ।

कृष्णो जघान निजमुष्टिनिबर्हणेन

शक्रादिदेवविनुतो लघुलीलयैव ॥

16

अस्मिन् वने ललितमाधवपादचिह्न-

सन्दर्शनेन पुलकीकृतसर्वगात्रः ।

मूर्च्छामवाप्य लुठति स्म हि गान्दिनेयः

बाष्पाकुलाक्षियुगलो गलगद्गदश्च ॥

17

अस्मिन् वने निहितचित्तमनन्तलीलं

कंसं निहत्य जगतामभयञ्च दत्त्वा ।

संसान्त्वयन्निजसखं तदनुज्ञयैव

गोष्ठं विवेश किल सादरमुद्धवश्च ॥

18

अस्मिन् वने तु तृणजन्मवरं हि मेने

श्रीकृष्णपार्षदवरः स्वयमुद्धवोऽपि ।

गोविन्दकेलिरसगानविमुग्धचित्त-

गोपीपदाम्बुजपरागविभूषिताङ्गः ॥

19

पादरेणुः केशवस्य द्वारकायाञ्च लभ्यते ।

पादरेणुर्गोपिकानामन्यत्र किल दुर्लभः ॥

20

गोपिकानां पादरजः स्पर्शमात्रेण केवलम् ।

प्रजायते कृष्णभक्तिस्तस्या नान्यद्धि साधनम् ॥

21

प्रवर्तिता प्रेमभक्तिर्गोपीभिः केवलं भुवि ।

प्रेमभावं न जानन्ति देवा ब्रह्मादयोऽपि हि ॥

22

जगन्नाथप्रसादश्च जाह्नवीसलिलं तथा ।

बृन्दावनरजश्चापि त्रयं ब्रह्ममयं स्वयम् ॥

23

अवजानन्ति ये मूढास्त्रयमेतत्सुपावनम् ।

घोरं नरकं यान्ति विमुखा हरिकीर्तने ॥

24

सत्यं सत्यं पुनः सत्यं वदामि न हि संशयः ।

ब्रह्मादीनां सुराणाञ्च दुर्लभं यमुनावनम् ॥

25

चण्डालोऽपि वराकोऽपि दुराचारपरोऽपि च ।

श्रीकृष्णकृपयैवात्र लभते वासमुत्तमम् ॥

26

पश्यन्ति ये दोषमल्पमज्ञानाद्व्रजवासिषु ।

दुष्टाः पापिनो लोके तेषां सङ्गं परित्यजेत् ॥

27

गोविन्दकरुणापात्रं नन्वेते व्रजवासिनः ।

एवं ज्ञात्वा नमस्कुर्यान्म्लेच्छानपि कृताञ्जलिः ॥

28

आनन्दचिन्मयं ह्येतद्वृन्दावनमनामयम् ।

वैष्णवा एव जानन्ति विमलज्ञानवीक्षणाः ॥

29

रे मूर्ख निजदोषेण न दूषय सुपावनम् ।

बृन्दावनमिदं दिव्यं श्रीकृष्णपदलाञ्छितम् ॥

30

हरिं गोविन्ददेवञ्च वज्रनाभप्रतिष्ठितम् ।

यः पश्येद्यमुनातीरे भुवने स हि भाग्यवान् ॥

31

शाण्डिल्यमुनिसंसेव्यं वज्रनाभप्रतिष्ठितम् ।

गोविन्दं पूजयेद्भक्त्या हरिं बृन्दावनेश्वरम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीबृन्दावनमाहात्म्यम् नाम एकोनविंशोऽध्यायः ॥
Ch.18 Prathama Bhāge Ch.20