Verses

यमुनामाहात्म्यम् Yamunā Māhātmyam

1

श्रीसद्गुरुरुवाच

वक्ष्यामि यमुनादेव्या माहात्म्यं परमं शुभम् ।

यत्र स्नात्वा नरः क्वापि न दुर्गतिमवाप्नुयात् ॥

2

कामधेनुर्यथा कामं यथा चिन्तामणिस्तथा ।

ददाति यमुनास्नानं नृणां सर्वमनोरथम् ॥

3

व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः ।

यमुनास्नानमात्रेण यथा प्रीणाति केशवः ॥

4

प्रीतये वासुदेवस्य सर्वपापापनुत्तये ।

कालिन्द्यां मज्जनं कुर्यान्मधुरायां तु वैष्णवः ॥

5

किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।

अघेण सुदेहेन यमुनामज्जनं विना ॥

6

यमुना मोक्षदा प्रोक्ता मधुरासङ्गता यदि ।

अन्यत्र यमुना पुण्या महापातकहारिणी ॥

7

पितरस्तस्य तृप्यन्ति तृप्ताः कल्पशतैर्दिवि ।

ये पिबन्ति नराः पुण्यं यमुनासलिलं शुभम् ॥

8

विवस्वतो भगवतो दुहिता यमुना स्मृता ।

यमश्च श्राद्धदेवश्च तस्या देव्याः सहोदरौ ॥

9

वैकुण्ठे विरजा या सा भूलोके यमुना स्मृता ।

गोविन्दस्यैव सेवार्थं सूर्यपुत्र्यभवत्स्वयम् ॥

10

बाल्यात्प्रभृति सा देवी गोविन्दे रूढमानसा ।

कलिन्दपर्वतं गत्वा चकार सुमहत्तपः ॥

11

गोविन्दमेव भर्तारं प्राप्तुं सुदृढनिश्चया ।

अन्यदेवेषु विमुखी सुमुखी शुद्धमानसा ॥

12

भगवान् वासुदेवश्च ददौ तस्यै स्वदर्शनम् ।

शङ्खचक्रधरः श्रीमान् वैजयन्तीविभूषितः ॥

13

विलोक्य पुण्डरीकाक्षं प्रसन्नं जगतां पतिम् ।

तुष्टाव यमुनादेवी बाष्पपूरितलोचना ॥

14

यमुनोवाच

यत्पादपङ्कजरजः परमं पवित्रम् ।

अद्यापि वाञ्छति सुमङ्गलमाप्तुकामा

साक्षाच्छ्रुतिर्भगवते पुरुषाय तस्मै ।

तुभ्यं नमोस्तु विभवे श्रितवत्सलाय ॥

15

यत्पादपद्ममनिशं भजते स्वयं श्री-

र्लब्ध्वापि वक्षसि पदं तुलसीव नित्यम् ।

तस्मै नमोस्तु वरमङ्गलविग्रहाय

देवाय देवमुनिमण्डलसेविताय ॥

16

यत्पादपद्मगलितं सलिलं पवित्रं

मन्दाकिनीति दिवि भोगवतीति चाधः ।

भागीरथीति भुवि कीर्तिमवाप पुण्यां

लोकत्रयेऽपि पुरुषाय नमोस्तु तस्मै ॥

17

यत्पादपद्ममकरन्दनिषेवणेन

मत्ता मधुव्रतसमा भुवने महान्तः ।

सन्त्यक्तसर्वविषयात्मकभोगलेशा

मौनेन सन्ति पुरुषाय नमोस्तु तस्मै ॥

18

यत्पादपोतमवलम्ब्य सुखेन भक्ताः

संसारसिन्धुमतिदुस्तरमार्तिमूलम् ।

उत्तीर्य शाश्वतसुखं पदमाप्नुवन्ति

तस्मै नमो भगवते पुरुषाय तुभ्यम् ॥

19

श्रीसद्गुरुरुवाच

एवं स्तुतो यमुनया श्रीमान्नारायणः प्रभुः ।

ऊचे वरं वृणीष्वेति मन्दहासवराननः ॥

20

तदा बद्धाञ्जलिर्देवी यमुना हृष्टमानसा ।

उवाच मधुरं वाक्यं ललितस्मितभाषिणी ॥

21

यमुनोवाच

दिने दिने ते चरणाब्जसेवा- ।

मिच्छामि नान्यं वरमर्थयेऽहम्

त्वमेव नाथो भव मे मुकुन्द ।

निधेहि पादाम्बुरुहं मदङ्के ॥

22

लज्जाविहीनाऽद्य वदामि केशव

कामातुराणां न भयं त्रपा च न ।

इच्छामि सर्वावयवोपगूहनं

दृष्ट्वा जगन्मोहनविग्रहं तव ॥

23

तस्मादहं ते कृपया मुकुन्द

तपोबलेनापि मया कृतेन ।

नदी भविष्यामि सखीजनैस्त्वं

तस्यां विहारं कuru नित्यमेव ॥

24

एतावतालं तव देवदेव

केनापि दास्येन भवामि तृप्ता ।

नित्यं तवाङ्गं त्वभिषेचयन्ती

लोके मुनीनां च भवामि पूज्या ॥

25

तीरे मदीये विपिनेऽतिरम्ये

सञ्चारयन् गोकुलमेव नित्यम् ।

वेणुं सहर्षं रणयन् मुरारे

सार्धं सुहृद्भिः कुरु बालकेलिम् ॥

26

पुण्ये मदीये पुलिने मुरारे

गोपालबालैर्विहरन् सहर्षैः ।

ध्वजारविन्दाङ्कुशवज्रचिह्नैरलं

कुरु त्वं चरणाम्बुजैर्माम् ॥

27

स्वच्छन्दमेव व्रजसुन्दरीभिः

शृङ्गारलीलामिह कुर्वतस्ते ।

सुगन्धकाश्मीरककुङ्कुमादि-

प्रसादमिच्छामि तवाङ्गशीर्णम् ॥

28

त्वमत्र नित्यं मम तु प्रवाहे

नौकाविहारं कुरु नन्दसूनो ।

स्वानन्दमुग्धा स्वतरङ्गनादैः

सखीसमेतं सुखयामि च त्वाम् ॥

29

एवं प्रभावामधिकां नदीनां

विज्ञाय नित्यं भवदीयमुख्याः ।

स्नास्यन्ति तेषामपि नित्यसेवा-

महं करिष्यामि तव प्रसादात् ॥

30

अन्येऽपि पापा मनुजाश्च नित्यं

स्नात्वा स्वकीयं मलमुत्सृजेयुः ।

मय्येव तत्सर्वमहं सहिष्ये

त्वद्भक्तसंसेवनमुक्तपापा ॥

31

श्रीसद्गुरुरुवाच

एवं स्तुत्वा जगन्नाथं यमुनाऽन्तर्दधे तदा ।

सद्यो नदीस्वरूपेण दुद्राव पृथिवीतले ॥

32

गिरिकूटान्यतिक्रम्य ग्रामाद्ग्रामं वनाद्वनम् ।

सानन्दं व्रजभूमिं तामवाप रविनन्दिनी ॥

33

तस्यास्तीरे कृपासिन्धुर्गोचारणपरायणः ।

क्रीडत्यद्यापि गोविन्दः सहैव निजपार्षदैः ॥

34

वैकुण्ठे या महालक्ष्मीः सा राधा व्रजमण्डले ।

विरजा या तथा तत्र सैवात्र यमुना स्मृता ॥

35

यमुना सा विजयते नदीनामुत्तमा नदी ।

यस्यां तु स्नानमात्रेण श्रीकृष्णो दर्शनं गतः ॥

36

स्नानमात्रेण चाक्रूरः साक्षात्कृष्णं ददर्श ह ।

तस्यास्तु यमुनानद्या नदी काऽन्या समा भवेत् ॥

37

धन्येयं यमुनादेवी धन्यं तत्पुलिनं तथा ।

धन्यं बृन्दावनं ह्येतद्यत्र क्रीडति केशवः ॥

38

मत्स्यकच्छपभेकादिजन्मापि यमुनाजले ।

वरं किन्त्वमरावत्यां सुरजन्म न कामयेत् ॥

39

कृष्णप्रियां कृष्णभक्तां कृष्णसङ्गमदायिनीम् ।

नाश्रयेत्कः कृष्णभक्तः कृष्णां कृष्णस्वरूपिणीम् ॥

40

कालिन्दी सूर्यपुत्रीति कृष्णेति यमुनेति च ।

कीर्तयन् कृष्णभक्तस्तु कृष्णसङ्गसुखं लभेत् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे यमुनामाहात्म्यम् नाम षोडशोऽध्यायः ॥
Ch.15 Prathama Bhāge Ch.17