Verses

अयोध्यामाहात्म्यम् Ayodhyā Māhātmyam

1

श्रीसद्गुरुरुवाच

अयोध्यायाश्च माहात्म्यं वक्ष्यामि परमं शुभम् ।

यस्यामवततारैव वैकुण्ठपतिरीश्वरः ॥

2

वैष्णवा यत्र मोदन्ते रामध्यानपरायणाः ।

तदेव परमं धाम साकेताख्यं महीतले ॥

3

अयोध्या मधुरा माया काशी काञ्च्यवन्तिका ।

पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥

4

तासां मोक्षपुरीणां तु प्रथमा लोकपावनी ।

अयोध्यानगरी दिव्या राजते सरयूतटे ॥

5

षष्टिवर्षसहस्राणि काशीवासेन यत्फलम् ।

तत्फलं लभते सम्यक् क्षणं दाशरथेः पुरे ॥

6

अयोध्यामिह भूलोके वैकुण्ठेऽप्यपराजिताम् ।

जहाति नैव लोकेशो देवो नारायणः प्रभुः ॥

7

वैवस्वतेन मनुना सरयूतटेऽस्मिन्

या निर्मिता जनपदे भुवि कोसलाख्ये ।

स्फीते तथाऽतिमुदिते सुखवासयोग्या

स्वर्गाधिका विजयते सुतरामयोध्या ॥

8

इक्ष्वाकुशैब्यमुचुकुन्दनृगाम्बरीष-

मान्धात्रलर्करघुगाधिभगीरथाद्याः ।

आदित्यवंशतिलका न्यवसंश्च यस्यां

सैषा पुरी विजयते नितरामयोध्या ॥

9

अस्यां पुरा दशरथः सुरराजवन्द्यो

भार्यात्रयेण निवसन् सह मन्त्रिभिश्च ।

लोकं ररक्ष नृपतिर्मुनिमानितोऽभू-

दद्यापि यस्य भुवि भाति यशः पवित्रम् ॥

10

तस्यैव पुत्रपदमाप हरिश्चतुर्धा

यज्ञेश्वरस्तु भगवान् स्वयमेव विष्णुः ।

आराधितो नृपतिना विहिते च यज्ञे

संप्रार्थितः सुरगणैर्जगतां हिताय ॥

11

यस्यास्तटे रघुवरः सह लक्ष्मणेन

नित्यं सुहृद्युतो विजहार रामः ।

तत्पादपद्मयुगलाञ्छितसैकताढ्या

धन्या विभाति भुवने सरयूनदी सा ॥

12

सिद्धाश्रमे युधि निहत्य सुबाहुमुख्यान्

रक्षोगणानथ विदेहपुरीमवाप्य ।

भङ्क्त्वा धनुर्जनकराजसुतां च लब्ध्वा

साकेतमाप भगवान् सह बन्धुवर्गैः ॥

13

धन्या हि कोसलसुताप्रमुखा जनन्यो

धन्यः पिता त्रिभुवने ननु चक्रवर्ती ।

ते भ्रातरश्च सुहृदश्च तथा हि धन्या

धन्या विदेहतनया नगरी च धन्या ॥

14

तौ दम्पती प्रतिदिनं सरसं रमेते

यत्रैव राजभवने भुवनाभिरामौ ।

आनन्दमात्रममृतं परमं पदञ्च

त्यक्त्वापि सत्यनगरीं भुवि नाश्रयेत्कः ॥

15

तामेव पुण्यनगरीमपराजिताञ्च

भ्रात्रे प्रदाय पितृवाक्यपरो वनञ्च ।

गत्वा विदेहसुतया सह लक्ष्मणेन

श्रीचित्रकूटशिखरे न्यवसन् महात्मा ॥

16

स्वर्गं गते दशरथे बत पुत्रशोका-

च्छ्रीपादुकां रघुपतेः परया च भक्त्या ।

आर्चत् यत्र निवसन् भरतोऽपि नन्दि-

ग्रामं तमद्य भुवने न भजेत्कृती कः ॥

17

रामो वनेषु विचरन् खरदूषणौ तौ

हत्वा विदेहतनयाविरहेण खिन्नः ।

सुग्रीववायुसुतजाम्बवदानुकूल्यात्

सेतुं विधाय जलधौ च जगाम लङ्काम् ॥

18

हत्वा दशाननमुखान् रजनीचरांस्तान्

दत्वा निशाचरपुरीञ्च विभीषणाय ।

लब्ध्वा विदेहतनयामथ पुष्पकस्थः

सभ्रातृकः प्रतिययौ निजराजधानीम् ॥

19

सिंहासने कनकरत्नमये निवेश्य

पट्टाभिषेचनमथो भगवान् वसिष्ठः ।

यस्यां चकार निखिलामरसेवितस्य

सैषा पुरी रघुपतेः खलु राजधानी ॥

20

यस्यां स्थितो रघुवरो भुवनं शशास

सार्धं विदेहसुतया सह सोदरैश्च ।

यज्ञान् बहूंश्च विदधे जगदेकबन्धु-

स्तां राघवेन्द्रनगरीं भुवि नाश्रयेत्कः ॥

21

राज्यं विधाय दशवर्षसहस्रमीशः

सर्वैश्च पक्षिपशुजन्तुजनैश्च साकम् ।

यत्रावरुह्य सरयूं सरसं सबन्धु-

रन्तर्दधे तदिदमेव हि गोप्रतारम् ॥

22

पुत्रौ च तौ लवकुशौ भगवद्वियोगात्

खिन्नौ वसिष्ठमुपगत्य निदेशतोऽस्य ।

निर्माय मन्दिरमथो स्वपितुश्च मूर्तेः

सञ्चक्रतुः पुरवरे सहसा प्रतिष्ठाम् ॥

23

सान्निध्यमत्र कुरुते रघुनन्दनोऽपि

सार्धं विदेहसुतया सह सोदरैश्च ।

अत्रैव सन्ति हनुमत्प्रमुखाश्च भक्ता

अद्यापि भाति भुवि राघवराजधानी ॥

24

धन्यः स एव भुवि भारतपुण्यभूम्यां

लब्ध्वा नृजन्म सुरवाञ्छितमेकवारम् ।

यो याति रामनगरीं सरयूजले च

यः स्नाति पूजयति योऽत्र रघूत्तमञ्च ॥

25

साकेतदिव्यनगरे निवसन् विरक्तः

श्रीरामचिन्तनपरः सह साधुभिश्च ।

भिक्षान्नमात्रविनिवृत्तशरीरयात्रो

यो जीवति प्रतिदिनं स हि धन्यधन्यः ॥

26

शृण्वन् पठन् प्रतिदिनं परमं पवित्रं

रामायणं रघुपतेरिह राजधान्याम् ।

वासं करोति सरयूतटमण्डपे यः

श्रीरामदर्शनममुष्य सुलभ्यमेव ॥

27

श्रीराममन्त्रमनिशं परया च भक्त्या

सङ्कीर्तयन् सह वसन्निह रामदासैः ।

प्राप्नोति भक्तिरसिकः परमं हि सौख्यं

नापेक्षते खलु कदाचन विष्णुलोकम् ॥

28

श्रीराघवेन्द्रपरिपालितदिव्यदेश-

साकेतनामनगरस्य सनातनस्य ।

माहात्म्यमद्भुतमिदं परमं पवित्रं

श्रुत्वाऽपि राघवकटाक्षमवाप्नुयाद्धि ॥

29

अयोध्यासदृशं स्थानं भुवनेषु न हि क्वचित् ।

यत्र श्रीराम रामेति कीर्तयन्ति सदा नराः ॥

30

गोप्रतारे सरय्वाम् तु तिलतर्पणमात्रतः ।

तृप्यन्ति पितरः सर्वे सहसा विष्णुपोषिताः ॥

31

वैष्णवं परमं स्थानं साकेतं नाम मङ्गलम् ।

यदृच्छया कृतं पुण्यं यत्र कोटिगुणं भवेत् ॥

32

क्षणमात्रमयोध्यायां वसतोऽपि यदृच्छया ।

तस्यैव जन्म सफलं स एव भुवि भाग्यवान् ॥

33

दुर्लभं मानुषं जन्म दुर्लभं तीर्थसेवनम् ।

अयोध्यादर्शनं नृणामत्यन्तमिह दुर्लभम् ॥

34

अयोध्यापुरीयात्रा तु रामस्य कृपयैव हि ।

लभ्यते हि मनुष्याणां सर्वमङ्गलदायिनी ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे अयोध्यामाहात्म्यम् नाम पञ्चदशोऽध्यायः ॥
Ch.14 Prathama Bhāge Ch.16