Verses

नैमिशारण्यमाहात्म्यम् Naimiśāraṇya Māhātmyam

1

श्रीसद्गुरुरुवाच

शौनकप्रमुखाः पूर्वमृषयस्तु तपोधनाः ।

ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुः प्रभुम् ॥

2

चतुर्मुखं वेदगर्भं साक्षाद्वेदस्वरूपिणम् ।

समासीनं पद्मपीठे कलया सह भार्यया ॥

3

स्रष्टारं सर्वजगतां सर्वदेवनियामकम् ।

शाश्वतं परमं शान्तं परेशं परमेष्ठिनम् ॥

4

तापसं वल्कलधरं कुशपाणिं दयानिधिम् ।

ऊर्ध्वपुण्ड्रलसत्फालं पद्माक्षतुलसीधरम् ॥

5

जटिलं पाण्डुरश्मश्रुं श्वेतयज्ञोपवीतिनम् ।

कमण्डलुं पुस्तकञ्च जपमालाञ्च बिभ्रतम् ॥

6

मरीचिभृगुदक्षैश्च वसिष्ठक्रतुनारदैः ।

अत्रिणाङ्गिरसा चैव कर्दमेन महात्मना ॥

7

पुलस्त्यपुलहाभ्याञ्च चतुर्भिः सनकादिभिः ।

मनुमुख्यैर्महीशैश्च सन्ततं धर्मरक्षकैः ॥

8

इन्द्राग्नियमरक्षोभिर्वरुणेन च वायुना ।

राज्ञा सोमेन रुद्रेण दिक्पालैः सुरसत्तमैः ॥

9

एवमन्यैश्च देवैश्च सिद्धगन्धर्वकिन्नरैः ।

विद्याधरैर्योगिभिश्च राक्षसैरसुरैस्तथा ॥

10

पुरतः सेवितं देवं सर्वलोकेश्वरेश्वरम् ।

ब्रह्माणं परिपप्रच्छुर्नारायणपरायणम् ॥

11

ऋषय ऊचुः

सहस्रसमसाध्यं तु सत्रमेकं जगत्पते ।

करिष्यामो वयं सर्वे सर्वमङ्गलदायकम् ॥

12

तत्कर्तुं परमं पुण्यं स्थानं दर्शय पावनम् ।

पवित्रे भारते देशे पुण्यतीर्थनिषेवितम् ॥

13

ब्रह्मोवाच

शृणुध्वं मुनयः सर्वे सावधानं तपोधनाः ।

भुवने बहवः सन्ति प्रदेशा मुनिभिः श्रिताः ॥

14

यत्र यत्र वसन्त्येते वेदज्ञा ब्राह्मणा भुवि ।

तत्र तत्र सुराः सर्वे निवसन्ति न संशयः ॥

15

ब्राह्मणानां वेदविदां प्रशान्तानां तपस्विनाम् ।

शरीरमेव देवानामालयं प्रीतिवर्धनम् ॥

16

तस्माद्वेदविदो विप्राः पूज्याः सर्वत्र सर्वदा ।

पूजितेषु ब्राह्मणेषु पूजिताः सर्वदेवताः ॥

17

नेमिमेकां विनिर्माय विसृजामि धरातले ।

यत्र शेते तत्र यूयं कुरुध्वं सत्रमुत्तमम् ॥

18

तदेव परमं पुण्यं क्षेत्रं तीर्थं न संशयः ।

तत्र सर्वं कृतं सद्यो फलति श्रीविधायकम् ॥

19

श्रीसद्गुरुरुवाच

इत्युक्त्वा परमेष्ठी स विससर्ज करस्थितम् ।

नेमिं सहस्रधारं तं विष्णुचक्रोपमं वरम् ॥

20

सर्वांल्लोकानतिक्रम्य स नेमिर्गोमतीतटे ।

पपात परमाश्चर्यमभूत्तेषां तपस्विनाम् ॥

21

तस्य नेमेस्तु शयनान्नैमिषाख्यमिदं वनम् ।

बभूव परमं पुण्यं मुनिमण्डलसेवितम् ॥

22

चक्रतीर्थमिदं पुण्यं यत्र चक्रं पपात ह ।

यत्रैव पिण्डदानेन तृप्यन्ति पितरः सदा ॥

23

वटवृक्षस्य तत्रैव छायायां मुनिसत्तमाः ।

सहस्रसमसाध्यं तु सत्रं चक्रुस्तपोधनाः ॥

24

अत्रैव निवसन् व्यासः सह शिष्यैर्महामुनिः ।

तपश्चक्रे महाघोरं द्वापरान्ते जितेन्द्रियः ॥

25

अष्टादशपुराणानां वक्ता सूतो महायशाः ।

शौनकादीन् मुनीनत्र श्रावयामास सादरम् ॥

26

स्वायम्भुवो मनुश्चापि भार्यया शतरूपया ।

तपश्चक्रे महाघोरं विष्णुध्यानपरायणः ॥

27

मनुरुवाच

अन्तः पूर्णं बहिः पूर्णं पूर्णं सर्वत्र सर्वदा ।

सर्वं पूर्णं येन तस्मै पूर्णाय ब्रह्मणे नमः ॥

28

यच्च किञ्चिज्जगत्यां तु जङ्गमाजङ्गमात्मकम् ।

तेनाच्छादितं सर्वं तस्मै देवाय ते नमः ॥

29

पारमेष्ठ्यादिकं सर्वं त्यक्त्वा भोगं तु नश्वरम् ।

जितकामा यं भजन्ते योगिनस्तं नमाम्यहम् ॥

30

क्रियतां कर्म निष्कामं लोके यदि जिजीविषा ।

मुमुक्षूणां निष्क्रियाणां प्राप्यं तं प्रणमाम्यहम् ॥

31

मनो येनैव मनुते मनसा यन्न मन्यते ।

तदेव परमं वन्दे मनोवाचामगोचरम् ॥

32

इन्द्रियाणां विदूरं तमिन्द्रियाणां प्रवर्तकम् ।

इन्द्रञ्च सर्वलोकानामिन्दिरारमणं भजे ॥

33

ज्ञानिनामन्तिके यत्तद्दूरस्थं चाविवेकिनाम् ।

ज्ञानगम्यं परं ज्ञानं ब्रह्म तद्भावयाम्यहम् ॥

34

नय मां सुपथा देव कृपया परमां गतिम् ।

कृतं स्मर मया नाथ त्वामेव शरणं भजे ॥

35

श्रीसद्गुरुरुवाच

एवं मन्त्रोपनिषदं पठन् स्वायम्भुवो मनुः ।

तपश्चक्रे परं ध्यायन् देवं नारायणं प्रभुम् ॥

36

तदा तस्य मनोर्हन्त ग्रसनं कर्तुमिच्छया ।

आजग्मुस्तत्र दैत्याश्च परपीडनतत्पराः ॥

37

तदा तत्रागतो विष्णुर्यज्ञो यज्ञेश्वरः प्रभुः ।

विलुलाव शिरस्तेषां चक्रेण लघुलीलया ॥

38

एवं यज्ञेश्वरेणैव रक्षितोऽयं महीपतिः ।

चकार पूजां यज्ञस्य पत्न्या च शतरूपया ॥

39

यज्ञेश्वरं प्रतिष्ठाप्य वैखानसविधानतः ।

पूजयामास सानन्दं सुन्दरे मन्दिरे पुरा ॥

40

अत्रैव निवसन् रामो भ्रातृभिर्मुनिभिः सह ।

अश्वमेधं मखं चक्रे राघवो जगतां पतिः ॥

41

गीतं लवकुशाभ्याञ्च श्रीमद्रामायणं प्रभुः ।

शुश्राव श्रद्धया नित्यं शरणागतवत्सलः ॥

42

विवेश जानकी सीता रामपत्नी यशस्विनी ।

धरातलं दर्शयित्वा पवित्रं चरितं निजम् ॥

43

सीताकुण्डमिति ख्यातं तत्तीर्थं परमं शुभम् ।

यस्य स्पर्शनमात्रेण सर्वं पापं विनश्यति ॥

44

तपश्चक्रे दधीचिश्च मनस्वी मुनिपुङ्गवः ।

देवानामुपकारार्थमस्थीनि प्रददौ च यः ॥

45

दधीचितीर्थमत्रैव सर्वपापविनाशनम् ।

प्रकाशयति लोकेस्मिन् दधीचेः परमं यशः ॥

46

गोमती पुण्यसलिला स्मरणात्पापनाशिनी ।

यत्तीरे मुनयः सर्वे चक्रुर्नानाविधं तपः ॥

47

नैमिशारण्यमाहात्म्यं ये शृण्वन्ति पठन्ति च ।

तेषां पुण्यस्य गणनं ब्रह्मणापि न शक्यते ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे नैमिशारण्यमाहात्म्यम् नाम चतुर्दशोऽध्यायः ॥
Ch.13 Prathama Bhāge Ch.15