Verses

गयाक्षेत्रमाहात्म्यम् Gayā Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

गयामाहात्म्यमाख्यास्ये यत्र देवो गदाधरः ।

पितॄणामक्षयां प्रीतिं ददाति जगतां पतिः ॥

2

गयायां पितृरूपेण स्वयमेव गदाधरः ।

तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ॥

3

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।

तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥

4

गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ।

पद्भ्यामपि गयां स्पृष्ट्वा ह्यस्मभ्यं किं न दास्यति ॥

5

ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।

वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥

6

काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ।

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥

7

गयो नाम महानासीदसुरो देवबाधकः ।

धर्मारण्ये मुनीनां च धर्मरोधनतत्परः ॥

8

तपः कृत्वा महाघोरं वरान् प्राप्य चतुर्मुखात् ।

मदोन्मत्तः सञ्चचार भुवने देवहिंसकः ॥

9

देवाश्च मुनयः सिद्धाः किन्नराश्च नरास्तथा ।

गोविन्दं सर्वलोकानां शरण्यं शरणं ययुः ॥

10

तदा जलधरश्यामो दिव्यपीताम्बरावृतः ।

उवाच देवानखिलान् शङ्खचक्रधरो हरिः ॥

11

श्रीभगवानुवाच

स्वागतं विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।

उपायमिह वक्ष्यामि गयप्रशमनाय हि ॥

12

ब्रह्मण्यः सत्यसन्धश्च वदान्यो दानवोत्तमः ।

न समर्था वयं सर्वे तमतिक्रान्तुमाहवे ॥

13

तस्मिन्नेको महान् दोषो दृश्यते दानवोत्तमे ।

आत्मसंभावना गर्वात्तया नूनं विनङ्क्ष्यति ॥

14

यूयं ब्राह्मणवेषेण तं गत्वा दानवोत्तमम् ।

महोन्नतं स्थलं लोके यज्ञं कर्तुं प्रयाचत ॥

15

श्रीसद्गुरुरुवाच

इत्युक्ता विबुधाः सर्वे ब्रह्मवेषधरास्तदा ।

गयासुरमुपागत्य चक्रुराशीर्वचः शुभम् ॥

16

तेन प्रीतो महादैत्यः पूजयित्वा द्विजान्मुदा ।

पप्रच्छ श्रद्धया भक्त्या तदागमनकारणम् ॥

17

गय उवाच

नमामि ब्राह्मणान् युष्मान् यूयं प्रत्यक्षदैवतम् ।

शिरोऽपि मे प्रदास्यामि युष्माकं न हि संशयः

यूयं मे वदत क्षिप्रमिहागमनकारणम् ॥

18

देवा ऊचुः

अध्वरं कर्तुमिच्छामो महोन्नततलेऽसुर ।

तादृशं दर्शय त्वं नः स्थलं लोके महोन्नतम् ॥

19

गय उवाच

मम वक्षःस्थलं ह्येतत् स्थानं लोके महोन्नतम् ।

एतस्मादुन्नतं स्थानं ब्रह्माण्डे न विद्यते ॥

20

देवा ऊचुः

एवञ्चेद्देहि ते वक्षः सत्यसन्धोसि दानव ।

यज्ञभूमिं विधास्यामस्तव वक्षसि सांप्रतम् ॥

21

गय उवाच

दत्तं वक्षःस्थलं नूनं यज्ञं कर्तुं न संशयः ।

अहं तु सत्यसन्धोस्मि कुरुध्वं कर्म मङ्गलम् ॥

22

श्रीसद्गुरुरुवाच

इत्युक्त्वा परमप्रीतो गयो दानवपुङ्गवः ।

भूमौ शिश्ये निजं वक्षो दर्शयन् सुमहोन्नतम् ॥

23

तस्य वक्षसि देवाश्च मुनिभिर्विधिपूर्वकम् ।

यज्ञशालां विनिर्माय यज्ञमारेभिरे तदा ॥

24

त्यक्तब्राह्मणवेषांस्तान् विज्ञाय विबुधोत्तमान् ।

उत्तस्थौ कुपितः सद्यो देवान् हन्तुं स्ववञ्चकान् ॥

25

तदा गदाधरो विष्णुश्चरणं गयवक्षसि ।

निदधे निखिलैः सेव्यमुत्थातुं नाशकद्गयः ॥

26

आत्मनो हृदि विन्यस्तं चरणं वीक्ष्य दानवः ।

तुष्टाव श्रद्धाभक्त्या देवदेवं गदाधरम् ॥

27

गय उवाच

यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं ।

यत्पादपद्मसलिलं त्रिजगत्पुनाति

यत्पादपद्मयुगलं भजते च लक्ष्मी- ।

स्तत्पादपद्ममनिशं शरणं ममास्तु ॥

28

यत्पादमेव भजते कमलासनश्च

यत्पादपद्ममधुपो ननु चन्द्रमौलिः ।

यत्पादपीठशरणा विबुधाश्च सर्वे

तत्पादपद्ममनिशं शरणं ममास्तु ॥

29

यत्पादपद्मयुगलं मुनयो भजन्ते

यत्पादमेव सततं हृदि योगिनश्च ।

यत्पादपद्मवहनं कुरुते खगेन्द्र-

स्तत्पादपद्ममनिशं शरणं ममास्तु ॥

30

यत्पादलाञ्छितमिदं भुवनं समस्तं

यत्पादपद्ममकुटो बलवान् बलिश्च ।

यत्पादपद्ममभजद्दनुजेन्द्रपुत्र-

स्तत्पादपद्ममनिशं शरणं ममास्तु ॥

31

यत्पादपद्मरसिका हरिदासवर्या

यत्पादमेव सततं शरणं भजन्ते ।

यत्पादरेणुरखिलं भुवनं पुनाति

तत्पादपद्ममनिशं शरणं ममास्तु ॥

32

यत्पादपङ्कजदलं भवसिन्धुनौका

यत्पादपद्ममखिलार्थदकल्पवृक्षः ।

यत्पादपद्ममखिलार्तिविनाशकारि

तत्पादपद्ममनिशं शरणं ममास्तु ॥

33

यत्पादपूतचरिता मुनिधर्मपत्नी

यत्पादरक्षणकरी भुवनं शशास ।

यत्पादपद्ममभजत्पवमानसूनु-

स्तत्पादपद्ममनिशं शरणं ममास्तु ॥

34

यत्पादनूपुरनिनादविमुग्धचित्ता

यत्पादलाञ्छितकलिन्दसुतातटेषु ।

यत्पादपद्ममभजन् व्रजयोषितश्च

तत्पादपद्ममनिशं शरणं ममास्तु ॥

35

श्रीसद्गुरुरुवाच

एवं गयासुरः प्रेम्णा पादपद्मं प्रगृह्य तत् ।

हृदये सन्निवेश्यैव भक्तिपूर्वमयाचत ॥

36

गय उवाच

भगवन् करुणामूर्ते सर्वत्र गुणदर्शक ।

मम दोषांश्च विस्मृत्य प्रसीद मे गदाधर ॥

37

पादपद्मं ममैवास्तु हृदये भुवि सर्वदा ।

अहं च तव भक्तस्य लोकानां मङ्गलाय च ॥

38

इतः परं न जानामि सुखमन्यद्गदाधर ।

तव पादस्पर्शनं हि प्राप्तव्यं परमं फलम् ॥

39

विष्णुपादमिमं लोके भजन्तु सततं नराः ।

सर्वदुःखविनाशं च सर्वमङ्गलदायकम् ॥

40

विष्णुपादे पिण्डदानाद्दत्तादपि तिलोदकात् ।

पितॄणामक्षया प्रीतिर्भवतु श्रीगदाधर ॥

41

अमृतस्राविणी भूयात्फल्गुनीयं महानदी ।

सर्वे कल्पकवृक्षाः स्युर्भूरुहाश्च गदाधर ॥

42

अत्रैव धेनवः सर्वा भवेयुः कामधेनवः ।

पर्वतोऽयं गदापाणे चिन्तामणिमयो भवेत् ॥

43

प्रलये वटवृक्षोऽयमक्षयो भवतु प्रभो ।

तन्मूले पिण्डदानेन तृप्यन्तु पितरस्तथा ॥

44

एवं लोकोपकाराय भवेत्तु मम जीवनम् ।

प्रीणीहि भगवन् विष्णो मम भक्त्यैव केवलम् ॥

45

श्रीसद्गुरुरुवाच

एवं संप्रार्थितो विष्णुस्तथास्त्विति वचोऽब्रवीत् ।

गयाक्षेत्रमिति ख्यातं तदिदं परमं शुभम् ॥

46

वर्गद्वयस्थितानाञ्च पितॄणां पुत्रशालिनाम् ।

सत्पुत्रेण यथाकालं संस्कृतानां यथाविधि ॥

47

दूरदेशं गतानाञ्च मृतानां यत्रकुत्रचित् ।

अप्राप्तानाञ्च संस्कारम् अज्ञातपितॄणां तथा ॥

48

उद्बन्धेन मृतानाञ्च जले वह्नौ वने गिरौ ।

सिंहव्याघ्रहतानाञ्च हतानां शस्त्रघातिभिः ॥

49

येनकेनप्रकारेण गतानां दुर्मृतिं नृणाम् ।

तथैवानुपनीतानां कुमाराणाञ्च वर्णिनाम् ॥

50

अदत्तानां कन्यकानां मृतानामपि योषिताम् ।

गर्भस्रावं गतानाञ्च शिशूनां कलभाषिणाम् ॥

51

पाषण्डिनां पातकिनां भ्रष्टानां कुलधर्मतः ।

पङ्गुमूकजडान्धानामुन्मत्तानां तथाऽसताम् ॥

52

अपुत्राणां सपुत्राणामनर्हाणाञ्च कर्मसु ।

आचार्यमातुलादीनां जामिजामातृणामपि ॥

53

ननान्दृश्यालकानाञ्च सुहृत्संबन्धिनामपि ।

विधवानां सेवकानां जारिणीनाञ्च योषिताम् ॥

54

पितॄणामपि सर्वेषां पापिनां पुण्यशालिनाम् ।

गयातीर्थेऽक्षयवटे विष्णुपादो गतिर्ध्रुवम् ॥

55

विष्णुपादे पिण्डदानात्पितरः सद्य एव हि ।

उत्थाय नरकेभ्यस्ते गच्छन्ति परमं पदम् ॥

56

को न कुर्यात्पिण्डदानं गयायां विष्णुसन्निधौ ।

निष्कृतिं कर्तुकामस्तु पितॄणां कुलवर्धनः ॥

57

पितॄणां हि प्रसादेन विष्णुपादस्य पूजनात् ।

आचन्द्रार्कं वंशवृद्धिर्जायते न हि संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे गयाक्षेत्रमाहात्म्यम् नाम एकादशोऽध्यायः ॥
Ch.10 Prathama Bhāge Ch.12